सर्वतथागततत्त्वसंग्रह · अध्याय 78
तत्रैषां हृदयानि भवन्ति ।
ओं वज्रवशंकराय स्वाहा ॥
ओं कामरूपवज्राय स्वाहा ॥
ओं अदृश्यवज्राय स्वाहा ॥
ओं वज्रखचारिणी स्वाहा ॥
समिद्भिस्तिक्तवीर्यैस्तु प्रज्वाल्याग्निं समाहितः ।
वज्रिपुष्पा जुहेत् क्रुद्धो वज्रमाज्ञाकरं भवेत्
तैरेवं तु समिद्भिस्तु प्रज्वाल्याग्निं सुरोषवान् ।
यस्य सौरे जुहेन्माल्यं सो ऽप्याज्ञाकरतां वज्रेत्
समिद्भिस्तैस्तु संक्रुद्धः प्रज्वाल्याग्निं समाहितः ।
वज्रपाणेर्जुहेन्माल्यं सो ऽप्याज्ञाकरतां व्रजेत्
तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं सुरोषितः ।
चीवराणि जुहेत् बुद्धो यात्याज्ञाकरतां क्षणात्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0