भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 116

116.1

तत्रासां हृदयानि भवन्ति ।
श्रीः ॥
ओं भृकुटि तटि वेतटि पद्मे हूं ॥
ओं पद्मज्वाले हूं ॥
ओं सोमिनि पद्मे हूं ॥
ओं पद्महासिनि
एकादशवक्त्रे दिरि दिरि ईट्टे वट्टे चले प्रचले कुसुमधरे इलि प्रविश सिद्धिं मे प्रयच्छ हूं ॥
वज्रवेगेन चाक्रम्य तृतीयं मण्डलं तथा ।
तत्र मध्ये सुपद्मे तु पद्ममुद्रां निवेशयेत्

116.2

तथैव सर्वपार्श्वेषु यथावदनुपूर्वशः ।
पद्मचिन्हसमोपेताः पद्मसंस्थास्तु संलिखेत्

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc