ग्रंथ पाठ
सर्वतथागततत्त्वसंग्रह · अध्याय 115
115.1
तत्रासां मुद्रा भवन्ति ।
ह्रीः ॥
ओं पद्मतथागते ॥
ओं समन्तभद्र पद्मवज्राङ्कुशकोशधारिणि हूं ॥
ओं पद्मरति ।
ओं पद्मतुष्टि ॥
वज्रवेगेन चाक्रम्य द्वितीये मण्डले तथा ।
बुद्धाभिषेका समालेख्या जटामध्ये महाम्बुजं
115.2
तस्य पार्श्वेषु सर्वेषु यथावदनुपूर्वशः ।
पद्मचिन्हसमोपेताः समयाग्र्यो निवेशयेत्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0