भाषा

ENहिગુ
ग्रंथ पाठ

सर्वज्ञताकारधारणी · भाग 12

सर्वज्ञताकारधारणी
ओं नमः सर्वबुद्धबोधिसत्त्वेभ्यः ।
एवं मया श्रुतम् । एकस्मिं समये भगवान् राजगृहे विहरति स्म, गृध्रकूटे महता भिक्षुसंघेन सार्धं द्वादशभिर् भिक्षुशतैर् एवं प्रमुखैश् चानेकमहाश्रावकादिबोधिसत्त्वभिक्षुभिक्षुण्युपासिकोपासिकादेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यराजामात्यपौरजानपदपरिवारैः ॥
तेन खलु पुनः समयेन भगवांश् चतसृभिः पर्षद्भिः परिवृतः पुरस्कृतः अर्चनादिसंस्कृतस् तदा बोधिसत्त्वविषयसन्दर्शनप्रणिधानव्यूहसमाधिविषयधारणीसुखव्यूहसमाधाननिर्देशचर्यावैशारद्यमहावैपुल्यबोधिसत्त्वानुगतसर्वबुद्धपरिग्रह नाम धर्मपर्यायसूत्रान्तं भाषितुम् आरब्धवान् । तदा नानावर्णरश्मयो निश्चरितायन् प्रभाभिरयं त्रिसाहस्रमहासाहस्रलोकधातुन् महतावभासेन स्फुटो ऽभूत् ॥
[पगे 7]
अथ रत्नवैरोचनो नाम बोधिसत्त्वो महासत्त्वस् तं महानिमित्तं प्रातिहार्यं दृष्ट्वा सहसा स्थायैकांशम् उत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत् । परमाश्चर्याभूत् तत्प्राप्तो ऽहं भगवन् कुत इमे रश्मय आगताः? कस्यैष विषयप्रभावः? को ऽत्र हेतुप्रत्ययो भविष्यति?
भगवान् आह । अस्ति कुलपुत्र पूर्वदक्षिणस्यां दिशि, इतो बुद्धक्षेत्रकोटीशतसहस्रगङ्गानदीवालुकासमान् बुद्धक्षेत्रान् अतिक्रम्य पद्मा नाम लोकधातु नानागुणरत्नविभूषिता नानारत्नकूटागारादिवृक्षपुष्पकरिण्युपशोभिता । यत्रैकजातिप्रतिबद्धा बोधिसत्त्वाः पद्मोत्तरतथागतः सकाशद् धर्मं शृण्वन्ति । तत्र लोकधातौ इन्द्रो नाम महाबोधिवृक्षरत्नमयान्य् अस्ति । तस्य मूले कोटीशतसहस्रसुवर्णपत्ररत्नमयपद्मो ऽस्ति । तत्राद्यरात्रौ पद्मोत्तरेणार्हता सम्यक्संबुद्धेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः । तत्र पद्मासननिषण्णा बोधिसत्त्वाः तस्य प्रातिहार्याणि पश्यन्ति । ते सर्वलोकधातुभ्यः आगता बोधिसत्त्वास् तां पूजयित्वा तत्र स्थिताः ।
[पगे 8]
अथ पद्मोत्तरतथागतस् तेषां आशयानुशयं ज्ञात्वा बहुजनहिताय सुखाय लोकानुकम्पाय देवमनुष्याणाञ् च हिताय महायानस्य परिपूरणार्थम् अवैवर्तिकधर्मचक्रं प्रवर्तितवान् । बोधिसत्त्व आह । भगवन् कियच् चिरं सा लोकधातुः पद्मोत्तरस् तथागतस् तिष्ठति सद्धर्मं वा । भगवान् आह । भविष्यति कुलपुत्र पद्मोत्तरस्य तथागतस्यायुष्प्रमाणं त्रिंशदन्तरकल्पानि, सद्धर्मं दशान्तरकल्पाण् स्थास्यति, ये यत्र जाता बोधिसत्त्वास् तेषां चत्वारिंशदन्तरकल्पायुष्प्रमाणं । पूर्वञ् च कुलपुत्र सा लोकधातुश् चन्दना नाम बभूव । न त्व् एवं परिशुद्धा नाकीर्णशुद्धसत्त्वा यथैतर्हि सा लोकधातुः । कुलपुत्र चन्दनायां लोकधातौ चन्द्रोत्तमो नामाभूत् तथागतो ऽर्हन् सम्यक्संबुद्धो यावत् स चापि विंशत्यन्तरकल्पान् धर्मं देशयितवान् । तस्य परिनिर्वाणकालसमये चाप्य् एकत्या बोधिसत्त्वाः प्रणिधानवशेनान्यद्बुद्धक्षेत्रं संक्रान्ताः । ये चावशिष्टा बोधिसत्त्वानाम् एतद् अभवत् । अद्यरात्रौ मध्यमे यामे चन्द्रोत्तमस् तथागतः परिनिर्वास्यति तस्य दशान्तरकल्पान् सद्धर्मः स्थास्यति । कः सद्धर्मान्तर्धानस्यानन्तरम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते?
[पगे 9]
तेन खलु पुनः समयेन गगनमुद्रो नाम बोधिसत्त्वः स पूर्वप्रणिधानेन चन्द्रोत्तमेन तथागतेन व्याकृतः । भविष्यसि त्वं कुलपुत्र मम परिनिर्वृतस्य दशान्तरकल्पान् सद्धर्मः स्थास्यति; रात्र्याः प्रथमे यामे मे सद्धर्मान्तरहास्यति, तत्रैव रात्र्याः पश्चिमे यामे त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे, पद्मोत्तरो नाम भविष्यसि तथागतो ऽर्हन् सम्यक्संबुद्धः । तत्काले ये बोधिसत्त्वा महासत्त्वा येन चन्द्रोत्तमस् तथागतस् तेनोपजग्मुः । उपेत्य ते सर्वे नानाप्रकारैर् बोधिसत्त्वविकुर्वैश् चन्द्रोत्तमस्य पूजां कृत्वा भगवन्तम् एतद् अवोचन् । इच्छामो वयं भदन्त भगवन्न् इमे दशान्तरकल्पा निरोधम् अवहितेन चित्तेनातिनामयितुं ।
तत्र खलु कुलपुत्र चन्द्रोत्तमस् तथागतो गगनमुद्रं बोधिसत्त्वम् आमन्त्र्यैतद् अवोचत् । उद्गृह्ण त्वं कुलपुत्रेमं सर्वज्ञाताकारधारणीमुखप्रवेशं सर्वातीतानागतैस् तथागतैः सम्यक्संबुद्धैर् यौवराज्याभिषिक्तानां बोधिसत्त्वानां देशितं । ये चैतर्हि दशसु दिक्षु सर्वलोकधातुषु बुद्धा भगवन्तस् तिष्ठन्तस् ते ऽपि देशयन्ति । ये भविष्यन्त्य् अनागते ऽध्वनि बुद्धा भगवन्तस् ते ऽपि यौवराज्याभिषिक्तबोधिसत्त्वानां देशयिष्यन्ति । तद्यथा;
[पगे 10]
जलिजलिनि महाजलिनि फुत्के बुत्के संमदे महासंमदे, देवाम् अटि चटि टके ठरठर्क्के अमिमकसि हिलि चिलि तिलि रुरुके महारुरुके, जय दुर्जये जये जयमति शान्ते शान्तनिर्घोषणि, अमूलपरिछिन्ने, मारसैन्य वित्रासने, मुक्ते मुक्तपरिशुद्धे, अभिते भयमोचने, भार छरणा दान्त विद्याविद्या वरुत्तमे, निग्रहं परिवादिनां, धर्मवादिनाम् अनुग्रहं, आरक्ष धर्मवादिनां चतुर्णां स्मृत्युपस्थानानाम् अधिमुक्तिपदप्रकाशनपदम् इदं । स्ज्ध्_1
बुद्धकाशये अमम निमम, अवेवि अर्थे अर्थनि स्तीरणे, लोकाधिमुक्ते, सन्दध परिभावने, चतुर्णाम् आर्यवंशानां, अधिमुक्तिपदप्रकाशनपदा । स्ज्ध्_2
भाषिथे भाषणे, धारे धारयति, गुप्ते शुभप्रभे तत्फले अग्रफले निष्फले निलह अमुक्त अमुक्त निर्मुक्ते, अत्रवित विमुक्तवति, विलफल, अयुक्त इविति, यिविति रतितुल, तुलमं अहिंसाम इतिवाव, अत्वानत्वान सर्वलोके, अनेक लिविन्ध अभूसरे, हतमत्ते, वेशाग्रवते, अफल, कफल, त्रयाणाम् आरक्षितानां अधिमुक्तिपदम् इदं । स्ज्ध्_3
[पगे 11]
जडत, अनिहरववतव्यो इदं फलं, नियामफलं, समुदानाय विभूष, पस्ये सोमन्त्र, अनुमत्तो अकुमत्तो, छेदावने मन्त्रस्ता दशबल विग्रहस्था, इसुस्थित, सुनिखम, तीक्ष्णामति, आलोको, अतितृष्णा, अदिमति, प्रत्युत्पन्नबुद्धपूर्वप्रहारे, चतुर्णां सम्यक्प्रहाणां, अधिमुक्तिपदप्रकाशपदम् इदं । स्ज्ध्_4
अन्ये मन्ये मने, ममने, विरे विरते, शमे शमितावि, शान्ते मुक्ते निरक्षमे, समे समसमे, क्षये अक्षये, अजिति शान्ते समिष्ठे, धारणी आलोकावभासे, रत्नव्रते, रसम्यवते, ज्ञानवते, मेरुवते, क्षयनिदर्शने, लोकप्रदीपनिदर्शने, चतुर्णां प्रतिसंविदाम् अधिमुक्तिपदप्रकाशपदम् इदं । स्ज्ध्_5
चक्षु आभासे निदर्शने ज्ञानालोकनिदर्शनञ् च, प्रभासने सर्वेन्द्रिय भूमातिक्रान्ते, सर्वसव वमां, सर्वे प्राथवा क्षयं करे, गोकाह वदने, लोकानुदर्शनविभू, चतुर्णां ऋद्धिपादानाम् अधिमुक्तिपदप्रकाशपदम् इदं । स्ज्ध्_6

अचले बुद्धे वृद्धप्रचले, सत्व गृह्ण सिद्धि, कंपति निसिद्ध स्महिट्टे परेकसिरे, सोमे चन्दे दत्वे अचल अचल अपरे विचिवले निपले प्रचचले [पगे 12] प्रसरे, अनय अभ्यासे, कंकमे प्रभाविनि, द्रामे निजसो ग्रक्क्रमे नयने इन्द्रियाणां बलानाम् अधिमुक्तिपदप्रकाशपदम् इदं । स्ज्ध्_7
पुष्पे सुपुष्पे, द्रुमपरिहारे, अभयरुचिरे, चेकरत्के, अक्षयम् अस्तु, निनिरे ममले, पञ्चशिशिरे, लोकस्य विज्ञाने, नयसंगृहीते च युक्ते सुच्छेन्देन सप्तानां बोध्यङ्गानां अधिमुक्तिपदप्रकाशपदम् इदं । स्ज्ध्_8
चक्रवज्रे, मैत्र समापदे, क्रान्ते केते, करुण रुदीक्षयि, प्रीतिरूपे क्षमसंपन्ने, अरके वरते, खरो खरे, अमूले मूले, साधने, चतुर्णां वैशारद्यानाम् अधिमुक्तिपदप्रकाशपदम् इदं । स्ज्ध्_9
वर्त्ते चक्रे चक्रधरे वरचक्रे वरे प्रवरे, हिले हिरे धरे, आरूपावते, हुहुरे यथा जिभंग निंवरे, यथापरं चरिनिशे यथा भयरिरिशि, सत्यनिर्हारे, जरविल, विर्यनिहार, चूरे मार्गनिहार समाधिनिहार प्रज्ञानिहार विमुक्तिनिर्हार, विमुक्तिज्ञानदर्शननिहार नक्षत्रनिर्हार चन्द्रनिर्हार सूर्यनिर्हार, पदाञ् चतुरुत्तरतथागतेन अद्भुतं, निरद्भुतं संबुद्धं अबुद्ध इहबुद्धं, तत्रबुद्धं निहंगमपरे, अरह दरह पण्डले [पगे 13] पण्डले तत्रार्तलु, मांगघरणि पूटनि संप्रपूटनि, गतप्रंगमनु निरुव, नाशनि नाशबन्धनि, च्छिच्छिनि, च्छिच्छिद्रम, योव हिडिंगमा वरे मरे, हनने, भरे भरे भुन्दे भिरे भिरे रुषरे, सरणे, दरणे, प्रवर्त्ते, चलनाडये, विद्रंवुमा वरखुमा, ब्रह्मचारिण, इन्द्रवनि, धिधिरायनि, महेश्वरललनि, ममसुमे, अरमिनि एकाक्षर विवञ्चनि, चरस्ति आभिचन्दार सूरे, सर्वसूरा आवरसूरा, पुनकनितां, मण्डितां आयिनकण्डि जभामे, गन्धरे, अत्र रुनिमकरे, भिरोहिनि सिद्धमत्ते, विलोकमते, बुद्धाधिष्ठिते, धारणीमुखे, दशानां बलानाम् अधिमुक्तिप्रकाशनपदम् इदं ॥ स्ज्ध्_10
समनन्तरारब्धे खलु पुनर् भगवतास्मिं सर्वज्ञताकारधारणीमुखप्रवेशे ऽयं त्रिसाहस्रमहासाहस्रलोकधातुः षड्विकारं प्रकंपिता; तथावभासेन दशसु दिक्षु सर्वे लोकधातवः समपाणीतलजाता स्फुटा संदृश्यन्ते । ये ऽपि तेष्व् अवस्थिताः समाधिधारणीक्षान्तिप्रतिलब्धा बोधिसत्त्वास् तथागतबलेन स्वकस्वकेषु [पगे 14] बुद्धक्षेत्रेष्व् अन्तर्हिता इमां सहालोकधातुम् आगत्वा गृध्रकूटे भगवतः सकाशम् उपसंक्रान्तास् तस्य पादौ शिरसा वन्दित्वा नानाप्रकारैः पूजां कृत्वा तत्रैव निषेदुः सर्वज्ञताकारधारणीमुखप्रवेशश्रवणार्थं । गणनासमतिक्रान्ताश् च देवनागयक्षासुरगरुडमनुष्यकुम्भाण्डपिशाचादयस् सन्निपतितास् ते तत्र पद्माबुद्धक्षेत्रं महता बोधिसत्त्वगणपरिवृतं तथागतं च पश्यन्ति । समनन्तरोदाहृतस्येयं धारणीमुखप्रवेशस्य भगवता द्वासप्ततिभिर् गङ्गानदीवालुकासमैर् बोधिसत्त्वैर् इयं धारणी प्रतिलब्धा दशसु दिक्षु सर्वलोकधातुस्थां बुद्धान् भगवतश् च गुणव्यूहान् पश्यन्ति स्म । ते आश्चर्यप्राप्ता बुद्धपूजां कृत्वा समाधिबलेन तस्थुः ।
भगवान् आह । इमां कुलपुत्र धारणीमुखप्रवेशं बोधिसत्त्वो भावयमानश् चतुरशीतिधारणीशतसहस्राणि द्वासप्ततिश् च षष्टिञ् च सहस्राणि प्रतिलभते महामैत्रीकरुणादयः । ये च मां धारणीं श्रोष्यन्ति ते ऽवैवर्तिनो भविष्यन्ति । ये लिखिष्यन्ति ते बुद्धदर्शनेन सद्धर्मश्रवणेन सङ्घोपस्थानेनाविरहिता भविष्यन्ति । ये लिखापयिष्यन्ति ते अनुत्तरेण परिनिर्वाणेनाविरहिता । [पगे 15] ये स्वाध्यायन्ति तेषां सर्वाण्य् अकर्मानि परिक्षयं गच्छति । ये भावयन्ति तेषां पञ्चानन्तर्याण्य् अकर्मानि नश्युः । ये धारयन्ति तैः प्रमुदितादिदशभूमीन् प्रतिलभन्ते । ये वाचयन्ति ते ऽनुत्तरां सम्यक्संबोधिं प्राप्स्यन्ति । ये परेभ्यश् च विस्तरेण भाषयन्ति ते तथागता भवन्ति ॥
अथ खलु भगवान् मैत्रेयं बोधिसत्त्वम् एतद् अवोचत् । यैः खलु कुलपुत्रातीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अस्या धारण्याः प्रभावेन सम्यक्संबोधिः प्राप्तामः । मया भूतपूर्वं कुलपुत्र काश्यपस्य सम्यक्संबुद्धस्य सकाशाद् इमान् धारणीं प्राप्ता, अस्या धारण्याः प्रभावेन सम्यक्संबोधिः प्राप्ता, एतर्ह्य् अपि मया धारिता वाचिता परेभ्यश् च विस्तरेण संप्रकाशिता । एवं खलु मैत्रेय यथा गगनमुद्रबोधिसत्त्वेन चन्द्रोत्तमतथागतस्य सकाशाद् इमां धारणीं प्राप्ता धारिता वाचिता, ऽस्या धारण्याः प्रभावेन गगनमुद्रो बोधिसत्त्वः चन्द्रोत्तमतथागतस्य परिनिर्वाणाद् यस्यां रात्रौ प्रथमे यामे सद्धर्मान्तर्हिते तस्यां पश्चिमे यामे सम्यक्संबोधिं प्राप्ता पद्मायां लोकधातौ पद्मोत्तर नाम तथागतो [पगे 16] भवति । तथा कुलपुत्र मम सकाशाद् इयं द्राविडमन्त्रपदा सर्वज्ञताकारधारणी धारय वाचय विस्तरेण परेभ्यश् च संप्रकाशय । अस्याः प्रभावेन मैत्रेयाशीतिवर्षसहस्रायुषि प्रजायां मैत्रेयो नाम तथागतो ऽर्हं सम्यक्संबुद्धो भविष्यति । तेन ते मैत्रेयैतर्हि ममान्तिकाद् यौवराज्यं परिगृहीतं, यथातीतानां तथागतानाम् अन्तिकाद् अतीतैर् बोधिसत्त्वैर् यौवराज्यं परिगृहीताः ॥
तत्र खलु भगवान् सर्वावतीं पर्षदम् अवलोक्य तस्यां वेलायाम् इमानि मन्त्रपदान्य् अभाषत । तद्यथा:
दान्तभूमिः दमथभूमिः स्मृतिभूमिः प्रज्ञाभूमिर् वैशारद्यभूमिः प्रतिसंविद्भूमिर् अनुत्क्षेपभूमिः समतापरिक्षयोपेक्षभूमिर् जातिक्षयभूमिर् मुज विन्मुजः, मलत्मजः, विसाग्रः, दशावते वेशतः तेरण, वेशलग्र, शमुशवतः, विमति विमति योपहिर रेगमत वसिसक्रम इतिचोरवते, मखे मुद्र दहरवते प्रज्ञाक्षा बुबु दहक्रमिता सदोषवन्तः एलय तिलय अहुसुटा अमुन्धमं अर्थवति, मुरुवति, तेहीनद्विवा, अकनति बकनते समके विसाभटे, इटे इटबले [पगे 17] अत्र तत्र कुरुषं लरुषं, लतथ कथ सर्वन्त सर्वन्तवः अनिरुद्धः दिहखतम्बि, फल बहुफल, शतफल, शिष्टवते, अपि देवानां भगवां प्रतीत्यसमुत्पादप्रतिसंयुक्तान्य् अधिमुक्तिपदानि प्रकाशयति, एषु प्रकाश्यमानेषु षष्टिभिर् देवनयुतैः सत्यदर्शनं कृतम् अभूत् । स्ज्ध्_11
तत्फलम् अग्रफलं, ललह अलह निलंहरे, वचतख्या इदंफलं, नियामफलं, नमुदय विभूख, प्रज्ञाचक्र, सुनिर्वृतिचक्र, ज्ञानीचक्र, एभिर् अधिमुक्तिपदैर् दशानां देवकोटीनां अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादितानि तत्रैवावैवर्तिकाः स्थिताः । स्ज्ध्_12
पश्य मोमते, अनुमते अकुमतो अकुमति च्छीदत्तके, मन्तस्था देशबल विप्रवस्थः, इशस्थित, अतिमति तीक्ष्णमति, आलोको स्तेरितुष्ण, एभिर् अधिमुक्तिपदैश् चतुःषष्टीनां नागसहस्राणां अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादितानि, तत्रैवावैवर्तिकाः संवृताः । स्ज्ध्_13
[पगे 18]

अप्रभा समदना अहद्यो भगवद्यो, करण्याक्ष, सिद्धमति, समन्तक्षौ, अलबले, पिटकरो, महाबले, ओजदरो धरणे मिगलक्ष, उदाक्ष, कुकाक्ष विरोयो, विरूपमुख, अक्षिहस्त संक्षिबल असुरोदिन, असुरोप्रमर्दने, एभिर् अधिमुक्तिपदैर् द्वादशानां यक्षकोटीनां अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादितानि तत्रैवावैवर्तिकाः संवृताः । स्ज्ध्_14
अर्थे पिलिले तिनिथे, संतीथे, कतितेन नकेमे, ननमस्ते, उभेरभे, मुदमे, मदमे, मतिमे, सनिह शूरे, धारणीये सेन्द्र सदेव, सनाग, सयक्षासुरदेवा, नागा निरुक्ति परिवार, निरुक्तरानि, स्मृति प्रज्ञा परिवारमति प्रतिलाभी, गतिधृतिपरिवार गतिधृतिलाभीः पूर्वकेषु हितेषु चरितवन्तः, अभिस्कामवन्तः, शूरवन्तः चिरवीर्यवन्तः भीतवन्तः सितभागे, मार्गमुद्र दिशापकर्षणि क्षपरहु, छरणो देवरचतु सुरमुद्र, यक्षमुद्र, राक्षसमुद्र, वेदिवेदिमे, तपे, तत्तपे उष्णानमे, प्रखाद्य, ननव धारणीय, अविश दिशाशोधने, वाक्यशुद्धे जिह्वाशुद्धे, वाचिपरिकर्मः प्रज्ञा बुद्धि स्मृति मति [पगे 19] गति धृति गणन प्रतिसरणबुद्धिः, जयचक्रे शून्यचक्रे व्यय, एभिर् अधिमुक्तिपदैर् षट्पञ्चाशानाम् असुरसहस्राणां अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादितानि अवैवर्तिकाश् च व्यवस्थिताः । स्ज्ध्_15
तत्र भगवान् वैशारद्यसमवसरणं बोधिसत्त्वम् आमन्त्रयते । दुर्लभं कुलपुत्र तथागतानां लोके प्रादुर्भावो; दुर्लभा इमे शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनपरिभावितामी द्राविडमन्त्रपदाः; सत्त्वानां हिताय बोधिसत्त्वगुणनिष्पादनार्थं कुलपुत्र तथागतेन पूर्वं बोधिसत्त्वचर्यां चरता दानदमसंयमक्षान्तिवीर्यसमाधिप्रज्ञा परिगृहीता बहवो बुद्धकोटीनयुतशतसहस्राः पर्युपासिताः, क्वचिद् दानन् दत्तं, शीलं रक्षितं, ब्रह्मचर्यं चीर्णं, क्वचिद् भावना निषेविता, क्षान्तिर् भाविता, वीर्यम् आरब्धं, समाधिर् निष्पादिता, प्रज्ञा सेविता, बह्वप्रमेयं विविधनानाप्रकारैः शुभकर्म कृतं, येनैतर्हि मयानुत्तरं ज्ञानं प्रतिलब्धं । अनेकां कल्पकोटीनयुतशतसहस्रां तथागतेन पूर्वं बोधिसत्त्वचर्याञ् चरता, मृषापैशुन्यपरुषसंभिन्नप्रलापा [पगे 20] वर्जिता, अनेकविधं कुशलं वाक्कर्मं सेवितं बहुलीकृतं । येनैतर्हि प्रभूतजिह्वा प्रतिलब्धा, न हि कुलपुत्र तथागतार्हतान्यथा कथयन्ति ।
अथ भगवान् तत्रर्द्ध्यभिसंस्कारम् अकार्षीत् । तेनर्द्ध्यभिसंस्कारेण सर्वपुण्यसमवसरणं समाधिं समापन्नः । मुखाच् च जिह्वेन्द्रियं निर्णामयित्वा स्वं मुखं प्रच्छाद्य तस्माज् जिह्वेन्द्रियात् षष्टिरश्मिकोट्यो प्रमुक्तास् तैश् चायं त्रिसाहस्रमहासाहस्रलोकधातुर् उदारेणावभासेन निरयतिर्यग्योनियमलोकदेवमनुष्याः स्फुटा बभूवुः । ते च रश्मयो ये नैरयिकाः सत्त्वा अग्निना प्रज्वलितगात्रा दह्यन्ते तेषां शीतला वायवो वान्ति, येषां स्पृष्टानां तन्मुहूर्तं सुखा वेदना प्रादुर्बभूव । एकैकस्य च नैरयिकस्य पुरतः बुद्धनिर्मितं तिष्ठति द्वात्रिंशद्भिर् लक्षणैः समलंकृत अशीतिभिश् च, यं दृष्ट्वा ते नैरयैकाः सुखसमर्पिता बुद्धदर्शनाप्यायितशरीरा बुद्धं दृष्ट्वैवं चिन्तयन्तो, ऽस्य सत्त्वस्यानुभावेनास्माभिः सुखा वेदना प्रतिलब्धास्; ते भगवतः सकाशे प्रेमाप्रसादगौरवं संजनयन्ति ।
[पगे 21]
बुद्धनिर्मित आह । भोः सत्त्वा एवं भाषध्वं, नमो बुद्धाय नमो धर्माय नमः संघाय, नित्यम् एवं सुखसमर्पिता भविष्यथ । ततस् ते नैरयिकास् सत्त्वा अञ्जलिं प्रगृह्य वाचम् उदीरयन्ति, नमो बुद्धाय नमो धर्माय नमः संघाय । अथ ते सत्त्वास् तेन चित्तप्रसादकुशलमूलेन ततश् च्यवित्वा एकत्या देवेषूपपन्ना एकत्या मनुष्येषु, तथैव पूर्ववद् यावत् । ये शीतनारकां सत्त्वाः प्रेताः पिशाचा वा सुखसमर्पिता देवमनुष्येषूपपन्ना एवं देवमनुष्यतिर्यक्षु लोकेषु रश्मयस् संचोदन्ति ।
गणनातिक्रान्ता देवमनुष्या भगवत्सकाशम् उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य निषण्णा करुणापुण्डरीक नाम महायानसूत्रधर्मश्रवणाय । तेन च समयेन गणनातिक्रान्ता देवमनुष्यकाया अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादयाम् आसुः । गणनातिक्रान्ताश् चात्र बोधिसत्त्वाः समाधिक्षान्तिधारणीः प्रतिलब्धवन्तः ॥
इदम् अवोचद् भगवान् आत्तमना सा च सर्वावती पर्षत् सदेवमानुषासुरगरुडगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन् ॥

[पगे 21]
इत्य् आर्यश्रीकरुणापुण्डरीकमहायानसूत्रे इयं सर्वज्ञताकारधारणी समाप्ता ॥

मूल पाठ: Sarvajñatākāradhāraṇī · Edition: Isshi Yamada. In: Karuṇāpuṇḍarīka, Vol. 2, part 2: Appendix. London : 1968, pp. 6-22. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc