शरीरार्थगाथा · भाग 15
पापं न कुर्यान् मनसा न वाचा कायेन वा किंचन सर्वलोके ।
रिक्तः कामैः स्मृतिमान् संप्रजानं दुःखं न सेवेत अनर्थसंहितम् ॥ शग्_1.1
आख्येयसंज्ञिनः सत्वा आख्येये ऽस्मिन् प्रतिष्ठिताः ।
आख्येयम् अपरिज्ञाय योगम् आयान्ति मृत्युनः ॥ शग्_2.1
आख्येयं तु परिज्ञाय आख्यातारं न मन्यते ।
तद् वै न विद्यते तस्य वदेयुर् येन तं परे ॥ शग्_2.2
समो विशेष उत वापि हीनो यो मन्यते स विवदेत तेन ।
विधात्रये ऽस्मिन् न विकम्पते यः समो विशिष्टश् च न तस्य भवति ॥ शग्_2.3
आच्छिद्य तृष्णाम् इह नामरूपे प्रहाय मानं च न संगम् एति ।
तं शान्तधूमम् अनिघं निराशं नाद्राक्षुस् ते देवमनुष्यलोके ।
इह बाहिरतश् च ॥ शग्_2.4
कामरागाभिभूतत्वाच् चित्तं मे परिदह्यते ।
अंग मे गौतम ब्रूहि शान्तिं त्वम् अनुकंपया ॥ शग्_3.1
विपर्यासेन संज्ञानां चित्तं ते परिदह्यते ।
निमित्तं वर्ज्यतां तस्माच् छुभं रागोपसंहितं ॥ शग्_3.2
अशुभां भावय सदा त्वम् एकाग्रः सुसमाहितः ।
निर्वापयाशु रागाग्निं दह्यसे मा पुनः पुनः ॥ शग्_3.3
संस्कारावरतां पश्य दुःखतो ऽनात्मतस् तथा ।
स्मृतिं कायगतां कृत्वा निर्वेदबहुलो भव ॥ शग्_3.4
भाव्यताम् अनिमित्तं च मानानुशयनाशनं ।
ततो मानाभिसमयाद् दुःखस्यान्तं करिष्यसि ॥ शग्_3.5
कुमारिकाप्रश्नगाथा:
कथंविहारबहुलो भिक्षुः पञ्चौघतीर्णस् तरतीह षष्ठं ।
कथंध्यायी विपुलां कामतृष्णां तीर्णो भवत्य् अप्रतिलब्धयोक्त्रः ॥ शग्_4.1
प्रश्रब्धकायः सुविमुक्तचित्तो ह्य् असंस्कुर्वन् स्मृतिमान् अकोप्यः
आज्ञाय धर्मम् अवितर्कध्यायी कोपस्पृहास्त्यानदोषैः वियुक्तः ॥ शग्_4.2
एवंविहारबहुलो भिक्षुः पञ्चौघतीर्णस् तरतीह षष्ठं ।
एवंध्यायी विपुलां कामतृष्णां तीर्णो भवत्य् अप्रतिलब्धयोक्त्रः ॥ शग्_4.3
नित्योत्रस्तो ह्य् अयं लोको नित्योद्विग्ना इयं प्रजा ।
अनुत्पन्नेषु दुःखेषु समुत्पन्नेषु वा पुनः ।
यदि किंचिद् अनुत्रस्तं पृष्ट आचक्ष्व तन् मम ॥ शग्_5.1
नान्यत्र ज्ञानतपसो नान्यत्रेन्द्रियनिग्रहात् ।
नान्यत्र सर्वसंत्यागान् मोक्षं पश्यामि देवते ॥ शग्_5.2
चिरस्य बत पश्यामि ब्राह्मणं परिनिर्वृतं ।
सर्ववैरभयातीतं तीर्णं लोके विषक्तिकाम् ॥ शग्_5.3
केनाभिवर्णा जनता प्रणीता मार्गश् च नैर्याणिकतः प्रयुक्तः ।
कुत्र स्थितः कुत्र च शिक्षमाणो नायं मर्त्यः परलोकाद् बिभेति ॥ शग्_6.1
यः शीलवाञ् ज्ञानवान् भावितात्मा समाहितः स्मृतिमान् ऋजुगतश् च ।
सर्वे ऽस्य शोकज्वरथाः प्रहीणाः सम्यक्स्मृतो यस्य चित्तं विमुक्तं ॥ शग्_6.2
तेनाभिवर्णा जनता प्रणीता मार्गश् च नैर्याणिकतः प्रयुक्तः ।
अत्र स्थितः अत्र च शिक्षमाणो नायं मर्त्यः परलोकाद् बिभेति ॥ शग्_6.3
कथं यशस्वी भवति कथं भवति भोगवान् ।
कथं कीर्तिम् अवाप्नोति कथं मित्राणि विन्दति ॥ शग्_7.1
शीलाद् यशस्वी भवति दानाद् भवति भोगवान् ।
सत्येन कीर्तिम् आप्नोति ददन् मित्राणि विन्दति ॥ शग्_7.2
कुतः सरा निवर्तन्ते कुत्र वर्त्म न वर्तते ।
कुत्र दुःखसुखं लोके निःशेषम् उपरुध्यते ॥ शग्_8.1
चक्षुः श्रोत्रं तथा घ्राणं जिह्वा कायो मनस् तथा ।
यत्र नाम च रूपं च निःशेषम् उपरुह्यते ॥ शग्_8.2
ततः सरा निवर्तन्ते तत्र वर्त्म न वर्तते ।
तत्र दुःखसुखं लोके निःशेषम् उपरुध्यते ॥ शग्_8.3
केन स्विद् ओघं तरति केनोत्तरति चार्णवं ।
दुःखं त्यजति केन स्वित् केन स्वित् परिशुध्यति ॥ शग्_9.1
श्रद्धया तरति ह्य् ओघम् अप्रमादेन चार्णवं ।
वीर्येण दुःखं त्यजति प्रज्ञया परिशुध्यति ॥ शग्_9.2
क एतम् ओघं तरति रात्रिंदिवम् अतन्द्रितः ।
अनालम्बे ऽप्रतिष्ठे च को गंभीरे न सीदति ॥ शग्_10.1
सर्वतः शीलसंपन्नः प्रज्ञावान् सुसमाहितः ।
अध्यात्मचिन्ती स्मृतिमांस् तरतीमं सुदुस्तरं ॥ शग्_10.2
विरक्तः कामसंज्ञाभ्यो रूपसंयोजनातिगः ।
अनालम्बे ऽप्रतिष्ठे च स गंभीरे न सीदति ॥ शग्_10.3
रागद्वेषौ भगवन् किन्निदानाव् अरतिरती रोमहर्षः कुतो ऽयम् ।
कुतःसमुत्थाश् च मनो वितर्काः कुमारका धात्रीम् इवाश्रयन्ते ॥ शग्_11.1
स्नेहजा आत्मसंभूता न्यग्रोधस्कन्धका यथा ।
पृथग्विषक्ताः कामेषु मालुता वा लता वने ॥ शग्_11.2
रागश् च द्वेषश् च इतोनिदानाव् अरतिरती रोमहर्षः इतो ऽयं ।
इतःसमुत्थाश् च मनो वितर्काः कुमारका धात्रीम् इवाश्रयन्ते ॥ शग्_11.3
ये तान् प्रजानन्ति यतोनिदानांस् ते तां जना यक्ष विनोदयन्ति ।
त अर्णवं संप्रतरन्तीहौघम् अतीर्णपूर्वम् अपुनर्भवाय ॥ शग्_11.4
कार्यम् एतद् ब्राह्मणेन प्रहाणम् अकिलासिना ।
कामानां विप्रहाणार्थं न हि कांक्षत्य् असौ भवं ॥ शग्_12.1
स कार्यं ब्राह्मणस्यास्ति कृतार्थो ब्राह्मणः स्मृतः ॥ शग्_12.2
यावन् न गाधं लभते न तीरम् आयूहते सर्वगात्रैः स तावत् ।
तीरं तु लब्ध्वेह संतिष्ठति स्थले नायूहते पारगतो निरुच्यते ॥ शग्_12.3
एषोपमा दामले ब्राह्मणस्य क्षीणास्रवो यो निपको ध्यानलाभी ।
सर्वे ऽस्य शोकज्वरथाः प्रहीणाः सम्यक्स्मृतो यस्य चित्तं विमुक्तम् ॥ शग्_12.4
गेय:
भिक्षो भिक्षो ओघम् अतार्षीः ।
आम देवते ।
अनालम्बे ऽप्रतिष्ठे ओघम् अतार्षीः ।
आम देवते ।
यथा कथं त्वं भिक्षो अनालम्बे अप्रतिष्ठे ओघम् अतार्षीः ।
यथा यथाहं देवते आयूहामि तथा तथा संसीदामि । यथा यथा संसीदामि तथा तथा संतिष्ठे । यथा यथा संतिष्ठे तथा तथा उह्ये । यथा यथाहं देवते नायूहामि तथा तथा न संसीदामीति विस्तरेण शुक्लपक्षो वेदितव्य ः ॥ शग्_13
कुमारिकाप्रश्नगाथा:
एको ऽरण्ये प्रसृतो ध्यायसे त्वं वित्ताद् विहीन उत वा प्रार्थयानः ।
ग्रामस्य वा किंचनागो न्व् अकार्षीः कस्माज् जनेन न करोषि सख्यं
सख्यं न संविद्यते केन चित् तव ॥ शग्_14.1
अर्थाप्राप्त्या हृदयस्येह शान्तिर् जित्वेह सेनां प्रियशातरूपं ।
एको ध्यायी सुखम् अस्म्य् अन्वभोत्सं तस्माद् जनेन न करोमि सख्यं
सख्यं न संविद्यते केन चिद् मम ॥ शग्_14.2
अनित्या बत संस्कारा उत्पादव्ययधर्मिणः ।
उत्पद्य हि निरुध्यन्ते तेषां व्युपशमः सुखम् ॥ शग्_15 (च्f. उव् 1.3)
अप्रमादो ऽमृतपदं प्रमादो मृत्युनः पदं ।
अप्रमत्ता न म्रियन्ते प्रमत्तास् तु सदा मृता ः ॥ शग्_16 (च्f. उव् 4.1)
वितर्कप्रमथितस्य देहिनस् तीव्ररागस्य शुभानुदर्शिनः ।
भूयस् तृष्णा विवर्धते सा गाढीकुरुते ऽस्य बन्धनं ॥ शग्_17 (च्f. उव् 3.1)
धर्मस्थं शीलसंपन्नं ह्रीमन्तं सत्यवादिनं ।
आत्मनः प्रियकर्तारं तं जनः कुरुते प्रियं ॥ शग्_18 (च्f. उव् 5.24)
यत् परेषूपनिध्यायेत् कर्म दृष्ट्वेह पापकम् ।
आत्मना तन् न कुर्वीत कर्मबद्धो हि पापकः ॥ शग्_19 (च्f. उव् 9.6)
सुभाषितं ह्य् उत्तमम् आहुर् आर्याः प्रियं वदेन् नाप्रियं तद् द्वितीयं ।
सत्यं वदेन् नानृतं तत् तृतीयं धर्मं वदेन् नाधर्मं तत् चतुर्थम् ॥ शग्_20 (च्f. उव् 8.11)
श्रद्धाथ ह्रीः शीलम् अथापि दानं धर्मा इमे सत्पुरुषप्रशस्ताः ।
एतं हि मार्गं दिविगं वदन्ति एतेन वै गच्छति देवलोकम् ॥ शग्_21 (च्f. उव् 10.1)
श्रुत्वा धर्मं विजानाति श्रुत्वा पापान् निवर्तते ।
श्रुत्वा अनर्थं त्यजति श्रुत्वा प्राप्नोति निर्वृतिम् ॥ शग्_22 (च्f. उव् 22.6)
आकाशसमो न लिप्यते इन्द्रकीलप्रतिमो न कंपते ।
ह्रद इव समुपेतकर्दमे संसारे रमते न पण्डितः ॥ शग्_23 (च्f. उव् 17.12)
ये रूपेण प्रमिण्वन्ति मां घोषेणानुयान्ति च ।
च्छन्दरागवशोपेता न मा जानन्ति ते जनाः ॥ शग्_24.1 (च्f. उव् 22.12)
अध्यात्मं च विजानाति बहिर्धा च न पश्यति ।
अध्यात्मफलदर्शी यः स वै घोषेण नीयते ॥ शग्_24.2 (च्f. उव् 22.13)
अध्यात्मं च न जानाति बहिर्धा च विपश्यति ।
बहिर्धाफलदर्शी यः सो ऽपि घोषेण नीयते ॥ शग्_24.3 (च्f. उव् 22.14)
अध्यात्मं च न जानाति बहिर्धा च न पश्यति ।
समन्तावरणो बालः सो ऽपि घोषेण नीयते ॥ शग्_24.4 (च्f. उव् 22.15)
अध्यात्मं च विजानाति बहिर्धा च विपश्यति ।
धीरो निःसरणप्रज्ञो न स घोषेण नीयते ॥ शग्_24.5 (च्f. उव् 22.16)
षष्ठे अधिपतौ राज्ञि रज्यमाने रजस्वलः ।
अरजस्य् अरजा भवति रक्तो बालो निरुच्यते ॥ शग्_25 (च्f. उव् 16.22)
नगरम् अस्थिप्राकारं स्नायुमांसानुलेपनं ।
यत्र रागश् च द्वेषश् च मानो म्रक्षश् च गाहते ॥ शग्_26 (च्f. उव् 16.23)
कूर्मः स्वके ऽङ्गानि यथा कपाले भिक्षुर् निदध्यान् मनसो वितर्कानि ।
अनिश्रितो ऽन्यान् अविहेठमानः परिनिर्वृतो नापवदेत कं चित् ॥ शग्_27 (च्f. उव् 26.1)
तुल्यम् अतुल्यं च संभवं भवसंस्कारम् अवासृजन् मुनिः ।
अध्यात्मरतः समाहित अभिनत् कोशम् इवाण्डसंभवः ॥ शग्_28 (च्f. उव् 26.30)
नास्ति कामसमः पंको नास्ति द्वेषसमो ग्रहः ।
नास्ति मोहसमं जालं नास्ति तृष्णासमा नदी ॥ शग्_29 (च्f. उव् 29.37)
आकाशे वै पदं नास्ति श्रमणो नास्ति बाह्यकः ।
प्रपञ्चाभिरता बाला निष्प्रपञ्चास् तथागताः ॥ शग्_30 (च्f. उव् 29.38)
स्थितिः प्रपंचाश् च न सन्ति यस्य यः स ं दानं परिघं चातिवृत्तः ।
तं निस्तृष्णं मुनिं चरन्तं न विजानाति सदेवको ऽपि लोकः ॥ शग्_31 (च्f. उव् 29.51)
यस्य वितर्का विधूपिता अध्यात्मम् अविकल्पिता अशेषं ।
संगं सो ऽतीत्य रूपसंज्ञा ं चतुर्योगापगतो न जातिम् एति ॥ शग्_32 (च्f. उव् 29.56)
ददतः पुण्यं प्रवर्धते वैरं संयमतो न चीयते ।
कुशली प्रजहाति पापकं क्लेशानां क्षयतस् तु निर्वृतः ॥ शग्_33 (च्f. उव् 28.2)
सर्वपापस्याकरणं कुशलस्योपसंपदा ।
स्वचित्तपर्यवदमनम् एतं बुद्धानुशासनं ॥ शग्_34 (च्f. उव् 28.1)
दुर्निग्रहस्य लघुनो यत्रकामनिपातिनः ।
चित्तस्य दामनं साधु चित्तं दान्तं सुखावहम् ॥ शग्_35 (च्f. उव् 31.1)
चित्तनिमित्तस्य कोविदः प्रविवेकस्य च विन्दते रसं ।
ध्यायी निपकः प्रतिस्मृतो भुंक्ते प्रीतिसुखं निरामिषं ॥ शग्_36 (च्f. उव् 31.51)
अशिल्पजीवी लघुर् आत्मकामो जितेन्द्रियः सर्वतो विप्रमुक्तः ।
अनोकसारी ह्य् अममो निराशः कामान् प्रहायैकचरो यस् स भिक्षु ः ॥ शग्_37 (च्f. उव् 32.5)
दूरंग म म् एकचरम् अशरीरं गुहाशयं ।
दमयति दुर्दमं चित्तं ब्राह्मणं तं ब्रवीम्य् अहं ॥ शग्_38 (च्f. उव् 33.55)
पारायणेष्व् अजितप्रश्नः:
केनायं निवृतो लोकः केनायं न प्रकाशते ।
किं चाभिलेपनं ब्रूषे किं च तस्य महद् भयम् ॥ शग्_39.1
अविद्यानिवृतो लोकः प्रमादान् न प्रकाशते ।
जल्पाभिलेपनं ब्रूमि दुःखं तस्य महद् भयं ॥ शग्_39.2
स्रवन्ति सर्वतः स्रोताः स्रोतसां किं निवारणं ।
स्रोतसां संवरं ब्रूहि केन स्रोतः पिधीयते ॥ शग्_39.3
यानि स्रोतांसि लोकस्य स्मृतिः तेषां निवारणं ।
स्रोतसां संवरं ब्रूमि प्रज्ञया हि पिधीयते ॥ शग्_39.4
प्रज्ञायाश् च स्मृतेश् चैव नामरूपस्य सर्वशः ।
आचक्ष्व पृष्ट एतन् मे कुत्रैतद् उपरुध्यते ॥ शग्_39.5
प्रज्ञा चैव स्मृतिश् चैव नामरूपं च सर्वशः ।
विज्ञानस्य निरोधाद् धि अत्रैतद् उपरुध्यते ॥ शग्_39.6
कथं स्मृतस्य चरतो विज्ञानम् उपरुध्यते ।
आचक्ष्व पृष्ट एतन् मे यथातथम् असंशयः ॥ शग्_39.7
अध्यातं च बहिर्धा च वेदनां नाभिनन्दतः ।
एवं स्मृतस्य चरतो विज्ञानम् उपरुध्यते ॥ शग्_39.8
ये च संख्यातधर्माणो ये च शैक्षाः पृ थ ग्विधाः ।
तेषां मे निपकस्येर्यां पृष्टः प्रब्रूहि मार्ष ॥ शग्_39.9
कामेषु नाभिगृध्येत मनसानाविलो भवेत् ।
कुशलः सर्वधर्मेषु स्मृतो भिक्षुः परिव्रजेत् ॥ शग्_39.10
अर्थवर्गीयेषु कामान् आरभ्य गाथा:
कामान् कामायमानस्य तस्य चेत् तत् समृध्यति ।
अद्धा प्रीतमना भवति लब्ध्वा मर्त्यो यद् ईप्सितं ॥ शग्_40.1
तस्य चेत् कामायमानस्य छन्दजातस्य जंतुनः ।
ते कामाः परिहीयंते शल्यविद्ध इव रूप्यते ॥ शग्_40.2
यः कामां परिवर्जयति सर्पस्येव शिरात् पदं ।
स इमां विषक्तिकां लोके स्मृतः समतिवर्तते ॥ शग्_40.3
क्षेत्रवस्तुहिरण्@यं च गवाश्वमणिकुण्डलं ।
स्त्रियो दासान् पृथक्कामान् यो नरो ह्य् अभिगृध्यति ॥ शग्_40.4
अबलं वा बलीयांसो मृद्नंत्य् एनं परिस्रवा ः ।
तत एनं दुःखम् अन्वेति भिन्नां नावम् इवोदकं ॥ शग्_40.5
यस्य त्व् एतत् समुच्छिन्नं तालमस्तकवद् धतं ।
शोकास् तस्य निवर्तन्ते उदबिन्दुर् इव पुष्करात् ॥ शग्_40.6 (च्f. उव् 10.13अब् उन्द् 3.10च्द्)
भद्रैकरागाथा (भद्रगरात्रीय, भद्रकरात्रिय):
अतीतं नान्वागमयेन् न प्रतिकांक्षेद् अनागतं ।
प्रत्युत्पन्नाश् च ये धर्मास् तत्र तत्र विपश्यकः ।
असंहार्यम् असंक्षोभ्यं तद् विद्वान् अनुबृंहयेत् ॥ शग्_41.1
मूल पाठ: Śarīrārthagāthā a chapter of his Yogācārabhūmi · Edition: : Fumio Enomoto, "Śarīrārthagāthā, A Collection of Canonical Verses in the Yogācārabhūmi, Part 1: Text", Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen[, Erste Folge], Göttingen 1989 (Sanskrit-Wörterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 2), pp. 17-35. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0