भाषा

ENहिગુ
ग्रंथ पाठ

sarasvati stotram · अध्याय 1

1

रविरुद्रपितामहविष्णुनुतं हरिचन्दनकुङ्कुमपङ्कयुतम्।
मुनिवृन्दगजेन्द्रसमानयुतं तव नौमि सरस्वति पादयुगम्

2

शशिशुद्धसुधाहिमधामयुतं शरदम्बरबिम्बसमानकरम्।
बहुरत्नमनोहरकान्तियुतं तव नौमि सरस्वति पादयुगम्

3

कनकाब्जविभूषितभूतिभवं भवभावविभाषितभिन्नपदम्।
प्रभुचित्तसमाहितसाधुपदं तव नौमि सरस्वति पादयुगम्

4

भवसागरमज्जनभीतिनुतं प्रतिपादितसन्ततिकारमिदम्।
विमलादिकशुद्धविशुद्धपदं तव नौमि सरस्वति पादयुगम्

5

मतिहीनजनाश्रयपादमिदं सकलागमभाषितभिन्नपदम्।
परिपूरितविश्वमनेकभवं तव नौमि सरस्वति पादयुगम्

6

परिपूर्णमनोरथधामनिधिं परमार्थविचारविवेकनिधिम्।
सुरयोषितसेवितपादतलं तव नौमि सरस्वति पादयुगम्

7

सुरमौलिमणिद्युतिशुभ्रकरं विषयादिमहाभयवर्णहरम्।
निजकान्तिविलेपितचन्द्रशिवं तव नौमि सरस्वति पादयुगम्

8

गुणनैककुलस्थितिभीतपदं गुणगौरवगर्वितसत्यपदम्।
कमलोदरकोमलपादतलं तव नौमि सरस्वति पादयुगम्

9

त्रिसन्ध्यं यो जपेन्नित्यं जले वापि स्थलेस्थितः
पाठमात्रद्भवेत्प्राज्ञो ब्रह्मनिष्ठः पुनः पुनः

10

इदं स्तवं  महापुण्यं  ब्रह्मणा च प्रकिर्तितम् ।
य: पठेत् प्रातरुत्थ्याय तस्य कण्ठे सरस्वती

मूल पाठ: sarasvati stotram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc