शाङ्खायनगृह्यसूत्र · भाग 2131
श्ग्स्_4.4.0: अथ.आभ्युदयिक.श्राद्ध.कर्म ।
श्ग्स्_4.4.1: अथ.अत.आभ्युदयिकम् ।
श्ग्स्_4.4.2: आपूर्यमाण.पक्षे.पुण्य.अहे ।
श्ग्स्_4.4.3: मातृ.यागम्.कृत्वा ।
श्ग्स्_4.4.4: युग्मान्.वेदविद.उपवेश्य ।
श्ग्स्_4.4.5: पूर्व.अह्णे ।
श्ग्स्_4.4.6: प्रदक्षिणम्.उपचारः ।
श्ग्स्_4.4.7: पितृ.मन्त्र.वर्जम्.जपः ।
श्ग्स्_4.4.8: ऋजवो.दर्भाः ।
श्ग्स्_4.4.9: यवैस्.तिल.अर्थः ।
श्ग्स्_4.4.10: दधि.बदर.अक्षत.मिश्राः.पिण्डाः ।
श्ग्स्_4.4.11: नान्दी.मुखान्.पितॄन्.आ.वाहयिष्य.इत्य्.आवाहने ।
श्ग्स्_4.4.12: नान्दी.मुखाः.पितरः.प्रीयन्ताम्.इत्य्.अक्षय्य.स्थाने ।
श्ग्स्_4.4.13: नान्दी.मुखान्.पितॄन्.वाचयिष्य.इति.वाचने ।
श्ग्स्_4.4.14: सम्पन्नम्.इति.तृप्त.प्रश्नः ।
श्ग्स्_4.4.15: समानम्.अन्यद्.अविरुद्धम्.इति ।
श्ग्स्_4.5.0: अथ.उपाकरणम् ।
श्ग्स्_4.5.1: अथ.उपाकरणम् ।
श्ग्स्_4.5.2: ओषधीनाम्.प्रादुर्.भावे.हस्तेन.श्रवणेन.वा ।
श्ग्स्_4.5.3: अक्षत.सक्तूनाम्.धानानाम्.च.दधि.घृत.मिश्राणाम्.प्रत्यृचम्.वेदेन.जुहुयाद्.इति.ह.एक.आहुः ।
श्ग्स्_4.5.4: सूक्त.अनुवाक.आद्याभिर्.इति.वा ।
श्ग्स्_4.5.5: अध्याय.आर्षेय.आद्याभिर्.इति.माण्डूकेयः ।
श्ग्स्_4.5.6: अथ.ह.स्म.आह.कौषीतकिः ।
श्ग्स्_4.5.7: <.अग्निम्.ईडे.पुरोहितम्>.इत्य्.एका ।
श्ग्स्_4.5.8: कुषुम्भकस्.तद्.अब्रवीद्.आवदंस्.त्वम्.शकुने.भद्रम्.आ.वद.गृणाना.जमदग्निना.धामन्.ते.विश्वम्.भुवनम्.अधिश्रितम्.गन्ता.नो.यज्ञम्.यज्ञियाः.सुशमि.यो.नः.स्वो.अरणः.प्रति.चक्ष्व.वि.चक्ष्व.आ.अग्ने.याहि.मरुत्.सखा.यत्.ते.राजन्.शृतम्.हविर्.इति.द्वृचाः ।
श्ग्स्_4.5.9: तत्.शम्योर्.आ.वृणीमह.इत्य्.एका ।
% ओन् बअस्कल सम्हितअन् सेए स्बेन् प्.113न् न्.9.
श्ग्स्_4.5.10: हुत.शेषाद्द्.हविः.प्राश्नन्ति.<.दधिक्राव्णो.अकारिषम्>.इत्य्.एतया ।
श्ग्स्_4.5.11: आचम्य.उपविश्य ।
श्ग्स्_4.5.12: महा.व्याहृतीः.सावित्रीम्.वेद.आदि.प्रभृतीनि.स्वस्त्ययनानि.च.जपित्वा ।
श्ग्स्_4.5.13: आचार्यम्.स्वस्ति.वाच्य ।
श्ग्स्_4.5.14: तद्.अपि.भवति ।
श्ग्स्_4.5.15: अयात.यामताम्.पूजाम्.सारत्वम्.छन्दसाम्.तथा.।.इच्छन्त.ऋषयो.अपश्यन्न्.उपाकर्म.तपो.बलात् ।
श्ग्स्_4.5.16: तस्मात्.षट्.कर्म.नित्येन.आत्मनो.मन्त्र.सिद्धये.।.उपाकर्तव्यम्.इत्य्.आहुः.कर्मणाम्.सिद्धिम्.इछता ।
श्ग्स्_4.5.17: उपाकर्मणि.च.उत्सर्गे.त्रिरात्रम्.क्षपणम्.भवेत्.।.अष्टकासु.त्व्.अहोरात्रम्.ऋत्व्.अन्त्यासु.च.रात्रिषु ।
श्ग्स्_4.6.0: अथ.उत्सर्ग.कर्म ।
श्ग्स्_4.6.1: माघ.शुक्ल.प्रतिपदि ।
श्ग्स्_4.6.2: अपराजितायाम्.दिशि ।
श्ग्स्_4.6.3: बह्व्.औषधिके.देशे ।
श्ग्स्_4.6.4: <.उद्.उ.त्यम्.जातवेदसम्>.<.चित्रम्.देवानाम्>.<.नमो.मित्रस्य>.<.सूर्यो.नो.दिवस्.पात्व्>.इति.सौर्याणि.जपित्वा ।
श्ग्स्_4.6.5: <.शास.इत्था.महान्.असि>.इति.प्रदक्षिणम्.पर्त्यृचम्.प्रतिदिशम्.प्रत्यस्य.लोष्टान् ।
श्ग्स्_4.6.6: ऋषींश्.छन्दांसि.देवताः.श्रद्धा.मेधे.च.तर्पयित्वा.प्रतिपुरुषम्.च.पित्रींश् ।
श्ग्स्_4.6.7: छन्दांसि.विश्रामयन्त्य्.अर्ध.सप्तमान्.मासान् ।
श्ग्स्_4.6.8: अर्ध.षष्ठान्.वा ।
श्ग्स्_4.6.9: अधीयीरंश्.चेद्.अहोरात्रम्.उपरम्य.प्राध्ययनम् ।
श्ग्स्_4.7.0: अथ.उपरम.कर्म ।
श्ग्स्_4.7.1: अथ.उपरमम् ।
श्ग्स्_4.7.2: उत्पातेष्व्.आकालम् ।
श्ग्स्_4.7.3: अन्येष्व्.अद्भुतेषु.च ।
श्ग्स्_4.7.4: विद्युत्.स्तनयित्नु.वर्षासु.त्रिषंध्यम् ।
श्ग्स्_4.7.5: एकाहम्.श्राद्ध.भोजने ।
श्ग्स्_4.7.6: दश.अहम्.अघ.सूतकेषु.च ।
श्ग्स्_4.7.7: च्तुर्दश्य्.अमावास्ययोर्.अष्टकासु.च ।
श्ग्स्_4.7.8: वासरेषु.नभ्येषु.च ।
श्ग्स्_4.7.9: आचार्ये.च.उपरते.दश.अहम् ।
श्ग्स्_4.7.10: श्रुत्व.त्रिरात्रम् ।
श्ग्स्_4.7.11: तत्.पूर्वाणाम्.च ।
श्ग्स्_4.7.12: प्रतिग्रहे.श्राधवत् ।
श्ग्स्_4.7.13: सब्रह्म.चारिणि ।
श्ग्स्_4.7.14: प्रेतन्.अनु.गत्वा ।
श्ग्स्_4.7.15: पितृभ्यश्.च.निधाय.पिण्डान् ।
श्ग्स्_4.7.16: निशाम् ।
श्ग्स्_4.7.17: संध्याम् ।
श्ग्स्_4.7.18: पर्वसु ।
श्ग्स्_4.7.19: अस्तमिते ।
श्ग्स्_4.7.20: शूद्र.सम्निकर्शे ।
श्ग्स्_4.7.21: साम.शब्दे ।
श्ग्स्_4.7.22: श्मशाने ।
श्ग्स्_4.7.23: ग्राम.अरण्ये ।
श्ग्स्_4.7.24: अन्तह्शवे.ग्रामे ।
श्ग्स्_4.7.25: अदर्शनीयाद् ।
श्ग्स्_4.7.26: अश्रवणीयाद् ।
श्ग्स्_4.7.27: अनिष्ट.घ्राणे ।
श्ग्स्_4.7.28: अतिवाते ।
श्ग्स्_4.7.29: अभ्रे.प्रावर्षिणि ।
श्ग्स्_4.7.30: रथ्यायाम् ।
श्ग्स्_4.7.31: वीणा.शब्दे.च ।
श्ग्स्_4.7.32: रथस्थः ।
श्ग्स्_4.7.33: शूद्रवत्.शुनि ।
श्ग्स्_4.7.34: वृक्ष.आरोहणे ।
श्ग्स्_4.7.35: अवट.आरोहणे ।
श्ग्स्_4.7.36: अप्सु ।
श्ग्स्_4.7.37: क्रन्दत्य् ।
श्ग्स्_4.7.38: आर्त्याम् ।
श्ग्स्_4.7.39: नग्ने ।
श्ग्स्_4.7.40: उच्छिष्टः ।
श्ग्स्_4.7.41: संक्रमे ।
श्ग्स्_4.7.42: केश.श्मश्रूणि.वापन.आ.स्नानाद् ।
श्ग्स्_4.7.43: उत्सादने ।
श्ग्स्_4.7.44: स्नाने ।
श्ग्स्_4.7.45: संवेशने ।
श्ग्स्_4.7.46: अभ्यञ्जने ।
श्ग्स्_4.7.47: प्रेत.पर्शिनि.सूतिक.उदक्ययोश्.च.शूद्रवत् ।
श्ग्स्_4.7.48: अपिहित.पाणिः ।
श्ग्स्_4.7.49: सेनायाम् ।
श्ग्स्_4.7.50: अभुञ्जने.ब्राह्मणे.गोषु.च ।
श्ग्स्_4.7.51: अतिक्रान्तेष्व्.अधीयीरन् ।
श्ग्स्_4.7.52: एतेषाम्.यदि.किंचिद्.अकाम.उत्पातो.भवेत्.प्राणान्.आयम्य.आदित्यम्.ईक्षित्वा.अधीयीत ।
श्ग्स्_4.7.53: विद्युत्.स्तनयित्नु.वर्ष.वर्जम्.कल्पे.वर्षवद्.अर्ध.षष्ठेषु ।
श्ग्स्_4.7.54: तद्.अप्य्.एतत् ।
श्ग्स्_4.7.55: अन्नम्.आपो.मूल.फलम्.यच्.च.अन्यत्.श्राद्धिकम्.भवेत्.।.प्रतिगृह्य.अप्य्.अनध्यायः.पाण्य्.आस्यो.ब्राह्मणः.स्मृत.इति ।
श्ग्स्_4.8.1: न्याय.उपेतेभ्यश्.च.वर्तयेत् ।
श्ग्स्_4.8.2: प्रान्.वा.उदन्.वा.आसीन.आचार्यो.दषिणत.उदन्.मुख.इतरः ।
श्ग्स्_4.8.3: द्वौ.वा ।
श्ग्स्_4.8.4: भूयांसस्.तु.यथा.अवकाशम् ।
श्ग्स्_4.8.5: न.उच्छ्रित.आसन.उपविष्टो.गुरु.समीपे ।
श्ग्स्_4.8.6: न.एक.आसनस्थः ।
श्ग्स्_4.8.7: न.प्रसारित.पादः ।
श्ग्स्_4.8.8: न.बाहुभ्याम्.जानु.उपसंगृह्य ।
श्ग्स्_4.8.9: न.उपाश्रित.शरीरः ।
श्ग्स्_4.8.10: न.उपस्थ.कृत.पादः ।
श्ग्स्_4.8.11: न.पाद.कुठारिकाम्.कृत्वा ।
श्ग्स्_4.8.12: अधीहि.भो.इत्य्.उक्त्वा.आचार्य.ओम्.कारम्.प्रचोदयेत् ।
श्ग्स्_4.8.13: ओम्.इति.इतरः.प्रतिपद्यते ।
श्ग्स्_4.8.14: तत्.संततम्.अधीयीत ।
श्ग्स्_4.8.15: अधीत्य.उपसंगृह्य ।
श्ग्स्_4.8.16: विरताः.स्म.भो.इत्य्.उक्त्वा.यथा.अर्थम् ।
श्ग्स्_4.8.17: विसृष्टम्.विरामस्.तावद्.इत्य्.एके ।
श्ग्स्_4.8.18: न.अधीयताम्.अन्तरा.गच्छेत् ।
श्ग्स्_4.8.19: न.आत्मानम्.विपरिहरेद्.अधीयानः ।
श्ग्स्_4.8.20: यदि.चेद्.दोषः.स्यात्.त्रिरात्रम्.उपोष्य.अहोरात्रम्.वा.सावित्रीम्.अभ्यावर्तयेद्.यावत्.शक्नुयाद्.ब्राह्मणेभ्यः.किंचिद्.दद्याद्.अहोरात्रम्.उपरम्य.प्राध्ययनम् ।
श्ग्स्_4.9.0: अथ.तर्पणम् ।
श्ग्स्_4.9.1: स्नातः ।
श्ग्स्_4.9.2: उपस्पर्शन.काले.अवगाह्य.देवतास्.तर्पयति ।
श्ग्स्_4.9.3: अग्निस्.तृप्यतु.वायुस्.तृप्यतु.सूर्यस्.तृप्यतु.विष्णुस्.तृप्यतु.प्रजापतिस्.तृप्यतु.विरूप.अक्षस्.तृप्यतु.सहस्र.अक्षस्.तृप्यतु.सोमः.ब्रह्मा.वेदाः.देवाः.ऋषयः.सर्वाणि.च.छन्दांसि.ओम्.कारः.वषट्.कार्ह.महा.व्याहृतयः.सावित्री.यज्ञाः.द्यावा.पृथिवी.नक्षत्राणि.अन्तरिक्षम्.अहोरात्राणि.संख्याः.संध्याः.समुद्राः.नद्यः.गिरयः.क्षेत्र.ओषधि.वनस्पति.गन्धर्व.अप्सरसः.नागाः.भूतान्य्.एवम्.अन्तानि.तृप्यन्तु.श्रुतिम्.तर्पयामि.स्मृतिम्.तर्पयामि.धृतिम्.तर्पयामि.रतिम्.तर्पयामि.गतिम्.तर्पयामि.मतिम्.तर्पयामि.श्रद्धा.मेधे.धारणाम्.च.गो.ब्राह्मणम्.स्थावर.जङ्गमानि.सर्व.भूतानि.तर्प्यन्त्व्.इति.यज्ञ.उपवीती ।
श्ग्स्_4.10.1: अथ.प्राचीन.वीती ।
श्ग्स्_4.10.2: पित्र्याम्.दिशम्.ईक्षमाणः ।
श्ग्स्_4.10.3: शतर्चिनः.माध्यमाः.गृत्समदः.विश्वामित्रः.जमदग्निः.वामदेवः.अत्रिः.भरद्वाजः.वसिष्ठः.प्रगाथाः.पवमानाः.क्षुद्र.सूक्त.महा.सूक्ताः.सुमन्तुः.जैमिनि.वैशम्पायन.पैल.सूत्र.भाष्य.गार्ग्य.बभ्रु.बाभ्रव्य.मण्डु.माण्डव्याः.गार्गि.वाचक्नवी.वडवा.प्रातिथेयी.सुलभा.मैत्रेयी.कहोलम्.कौषीतकिम्.महा.कौषीतकिम्.सुयज्ञम्.शाङ्खायनम्.आश्वलायनम्.ऐतरेयम्.महा.ऐतरेयम्.भारद्वाजम्.जातूकर्ण्यम्.पैङ्ग्यम्.महा.पैङ्ग्यम्.बाष्कलम्.गार्ग्यम्.शकल्य.(.शाकल्य.?).माण्डूकेयम्.महा.दमत्रम्.औदवाहिम्.महा.औदवाहिम्.सौयामिम्.शौनकिम्.शाप.पूणिम्.गतमिम्.ये.च.अन्ये.आचार्यास्.ते.सर्वे.तृप्यन्त्व्.इति ।
श्ग्स्_4.10.4: प्रतिपुरुषम्.पितरः ।
श्ग्स्_4.10.5: पितृ.वंशस्.तृप्यतु ।
श्ग्स्_4.10.6: मातृ.वंशस्.तृप्यतु ।
श्ग्स्_4.11.0: अथ.स्नातक.धर्माः ।
श्ग्स्_4.11.1: न.नग्नाम्.स्त्रियम्.ईक्षेत.अन्यतर.मैथुनात् ।
श्ग्स्_4.11.2: न.आदित्यम्.सधि.वेलयोः ।
श्ग्स्_4.11.3: अनाप्तम् ।
श्ग्स्_4.11.4: अकार्य.कारिणम् ।
श्ग्स्_4.11.5: प्रेत.स्पर्शिनम् ।
श्ग्स्_4.11.6: सूतिका.उदक्याभ्याम्.न.संवदेद् ।
श्ग्स्_4.11.7: एतैश्.च ।
श्ग्स्_4.11.8: उद्धृत.तेजांसि.न.भुञ्जीत ।
श्ग्स्_4.11.9: न.यात.यामैः.कार्यम्.कुर्यात् ।
श्ग्स्_4.11.10: न.सह.भुञ्जीत ।
श्ग्स्_4.11.11: न.शेषम् ।
श्ग्स्_4.11.12: पितृ.देवता.अतिथि.भृत्यानाम्.शेषम्.भुञ्जीत ।
श्ग्स्_4.11.13: उञ्छशिलम्.अयाचित.र्पतिग्रहः.साधुभ्यो.याचितो.वा.याजनम्.वृत्तिः ।
श्ग्स्_4.11.14: पूर्वम्.पूर्वम्.गरीयः ।
श्ग्स्_4.11.15: असंसिध्यमानायाम्.वैश्य.वृत्तिर्.वा ।
श्ग्स्_4.11.16: अप्रमत्तः.पितृ.दैवत.कार्येषु ।
श्ग्स्_4.11.17: ऋतौ.स्व.दार.गामी ।
श्ग्स्_4.11.18: न.दिवा.शयीत ।
श्ग्स्_4.11.19: न.पूर्व.अपर.रात्रौ ।
श्ग्स्_4.11.20: न.भूमाव्.अनन्तर्हितायाम्.आसीत ।
श्ग्स्_4.11.21: नित्य.उदकी ।
श्ग्स्_4.11.22: यज्ञ.उपवीती ।
श्ग्स्_4.11.23: न.विरहयेद्.आचार्यम् ।
श्ग्स्_4.11.24: अन्यत्र.नियोगात् ।
श्ग्स्_4.11.25: अनुज्ञातो.वा ।
श्ग्स्_4.12.1: अहर्.अहर्.आचार्याय.अभिवादयेत ।
श्ग्स्_4.12.2: गुरुभ्यश्.च ।
श्ग्स्_4.12.3: समेत्य.श्रोत्रियस्य ।
श्ग्स्_4.12.4: प्रोष्य.प्रत्येत्य.अश्रोत्रियस्य ।
श्ग्स्_4.12.5: असाव्.अहम्.भो.इत्य्.आत्मनो.नाम.आदिश्य.व्यत्यस्य.पाणी ।
श्ग्स्_4.12.6: असाव्.इत्य्.अस्य.पाणी.संगृह्य.आशिषम्.आशास्ते ।
श्ग्स्_4.12.7: न.अवृतो.यज्ञम्.गच्छेद् ।
श्ग्स्_4.12.8: अधर्माच्.च.जुगुप्सेत ।
श्ग्स्_4.12.9: न.जन.समवायम्.गछेत् ।
श्ग्स्_4.12.10: न.उपर्य्.उद्दिशेत्.समेत्य ।
श्ग्स्_4.12.11: अनाक्रोशको.अपिशुनः.कुलम्.कुलो.न.अतिहेतिः.स्यात् ।
श्ग्स्_4.12.12: न.एकश्.चरेत् ।
श्ग्स्_4.12.13: न.नग्नः ।
श्ग्स्_4.12.14: न.अपिहित.पाणिः ।
श्ग्स्_4.12.15: देव.आयतनानि.प्रदक्षिणम् ।
श्ग्स्_4.12.16: न.धावेत् ।
श्ग्स्_4.12.17: न.निष्ठीवेत् ।
श्ग्स्_4.12.18: न.कण्डूयेत् ।
श्ग्स्_4.12.19: मूत्र.पुरीषे.न.अवेक्षेत ।
श्ग्स्_4.12.20: अवगुण्ठ्या.आसीत ।
श्ग्स्_4.12.21: न.अनन्तर्हितायाम् ।
श्ग्स्_4.12.22: यद्य्.एक.वस्त्रो.यज्ञ.उपवीतम्.कर्णे.कृत्वा ।
श्ग्स्_4.12.23: न.आदित्यम्.अभिमुखः ।
श्ग्स्_4.12.24: न.जघनेन ।
श्ग्स्_4.12.25: अहर्.उदन्.मुखो.नक्तम्.दक्षिणा.मुखः ।
श्ग्स्_4.12.26: न.च.अप्सु.श्लेष्म.न.च.समीपे ।
श्ग्स्_4.12.27: न.वृक्षम्.आरोहेत् ।
श्ग्स्_4.12.28: न.कूपम्.अवेक्षेत ।
श्ग्स्_4.12.29: न.धुवनम्.गछेत् ।
श्ग्स्_4.12.30: न.त्व्.एव.तु.श्मशानम् ।
श्ग्स्_4.12.31: सवस्त्रो.अहर्.अहर्.आप्लवेत् ।
श्ग्स्_4.12.32: आप्लुत्य.अव्युदको.अन्यद्.वस्त्रम्.आछादयेत् ।
श्ग्स्_4.13.0: अथ.कृषि.कर्म ।
श्ग्स्_4.13.1: रोहिण्याम्.कृषि.कर्माणि.कारयेत् ।
श्ग्स्_4.13.2: पुरस्तात्.कर्मणाम्.प्राच्याम्.क्षेत्र.मर्यादायाम्.द्यावा.पृथिवी.बलिम्.हरेद् ।
श्ग्स्_4.13.3: द्यावा.पृथिवीयया.ऋचा.नमो.द्यावा.पृथिवीभ्याम्.इति.च.उपस्थानम् ।
श्ग्स्_4.13.4: प्रथम.प्रयोगे.सीरस्य.ब्राह्मणः.सीरम्.स्पृशेत्.<.शुनम्.नः.फाला>.इति.एताम्.अनुब्रुवन् ।
श्ग्स्_4.13.5: <.क्षेत्रस्य.पतिना>.इति.प्रदक्षिणम्.पत्यृचम्.प्रतिदिशम्.उपस्थानम् ।
श्ग्स्_4.14.0: अथ.प्लव.कर्म ।
श्ग्स्_4.14.1: उदकम्.तरिष्यन्.स्वस्त्ययनम्.करोति ।
श्ग्स्_4.14.2: उदक.अञ्जलींस्.त्रीन्.अप्सु.जुहोति.समुद्राय.वैणवे.नमो.वरुणाय.धर्म.पतये.नमो.नमः.सर्वाभ्यो.नदीभ्यः ।
श्ग्स्_4.14.3: सर्वासाम्.पित्रे.विश्व.कर्मणे.दत्तम्.हविर्.जुषताम्.इति.जपित्वा ।
श्ग्स्_4.14.4: प्रतीपम्.स्रवन्तीभ्य.उन्नीयम्.स्थावराभ्यः ।
श्ग्स्_4.14.5: तरंश्.चेद्.भयम्.शङ्केद्.वासिष्ठम्.सूक्तम्.जपेत्.<.समुद्र.ज्येष्ठा>.इत्य्.एतत्.प्लवम् ।
श्ग्स्_4.15.0: अथ.श्रवणा.कर्म ।
श्ग्स्_4.15.1: श्रवणम्.श्रविष्ठीयायाम्.पौर्णमास्याम्.अक्षत.सक्तूनाम्.स्थाली.पाकस्य.वा.जुहोति ।
श्ग्स्_4.15.2: विष्णवे.स्वाहा.श्रवणाय.स्वाहा.श्रावण्यै.पौर्णमास्यै.स्वाहा.वर्षाभ्यः.स्वाहा.इति ।
श्ग्स्_4.15.3: गृह्यम्.अग्निम्.बाह्यत.उपसमाधाय.लाजान्.अक्षत.सक्तूंश्.च.सर्पिषा.सम्निनीय.जुहोति ।
श्ग्स्_4.15.4: दिव्यानाम्.सर्पाणाम्.अधिपतये.स्वाहा.दिव्येभ्यः.सर्पेभ्यः.स्वाहा.इति ।
श्ग्स्_4.15.5: उत्तरेण.अग्निम्.प्राग्.अग्रेषु.नवेषु.कुशेषु.उद.कुम्भम्.नवम्.प्रतिष्ठाप्य ।
श्ग्स्_4.15.6: दिव्यानाम्.सर्पाणाम्.अधिपतिर्.अव.नेनिक्ताम्.दिव्याः.सर्पा.अव.नेनिजताम्.इत्य्.अपो.निनयति ।
श्ग्स्_4.15.7: दिव्यानाम्.सर्पाणाम्.अधिपतिः.प्र.लिखताम्.दिव्याः.सर्पाः.प्र.लिखन्ताम्.इति.फणेन.चेष्टयति ।
श्ग्स्_4.15.8: दिव्यानाम्.सर्पाणाम्.अधिपतिः.प्र.लिम्पताम्.दिव्याः.सर्पाः.प्र.लिम्पन्ताम्.इति.वर्णकस्य.मात्रा.निनयति ।
श्ग्स्_4.15.9: दिव्यानाम्.सर्पाणाम्.अधिपतिर्.आ.बध्नीताम्.दिव्याः.सर्पा.आ.बध्नताम्.इति.सुमनस.उपहरति ।
श्ग्स्_4.15.10: दिव्यानाम्.सर्पाणाम्.अधिपतिर्.आ.छादयताम्.दिव्याः.सर्पा.आ.छादयन्ताम्.इति.सूत्र.तन्तुम्.उपहरति ।
श्ग्स्_4.15.11: दिव्यानाम्.सर्पाणाम्.अधिपति.आङ्क्ताम्.दिव्याः.सर्पा.आञ्जताम्.इति.कुश.तरुणेन.उपघातम्.आञ्जनस्य.करोति ।
श्ग्स्_4.15.12: दिव्यानाम्.सर्पाणाम्.अधिपतिर्.ईक्षताम्.दिव्याः.सर्पा.ईक्षन्ताम्.इत्य्.आfअर्शेन.आक्षयति ।
श्ग्स्_4.15.13: दिव्यानाम्.सर्पाणाम्.अधिपत.एष.ते.बलिर्.दिव्याः.सर्पा.एष.वो.बलिर्.इति.बलिम्.उपहरति ।
श्ग्स्_4.15.14: एवम्.आन्तरिक्षाणाम् ।
श्ग्स्_4.15.15: दिश्यानाम् ।
श्ग्स्_4.15.16: पार्थिवानाम्.इति ।
श्ग्स्_4.15.17: त्रिस्.त्रिर्.उच्चैस्तराम्.उच्चैस्तराम्.पूर्वम् ।
श्ग्स्_4.15.18: नीचैस्तराम्.नीचैस्तराम्.उत्तरम् ।
श्ग्स्_4.15.19: एवम्.अहर्.अहर्.अक्षत.सक्तूनाम्.दर्वेण.उपघातम्.आ.प्रत्यवरोहणाद्.रात्रौ.वाग्.यतः.स.उदकम्.बलिम्.हरेत् ।
श्ग्स्_4.15.20: वाग्.यता.च.एनम्.उपसादयेद् ।
श्ग्स्_4.15.21: य.उपक्रमः.स.उत्सर्गः ।
श्ग्स्_4.15.22: <.सुत्रामाणम्>.इति.शय्याम्.आरोहेत् ।
श्ग्स्_4.16.0: अथ.आश्वयुजी.कर्म ।
श्ग्स्_4.16.1: आश्वयुज्याम्.पौर्णमास्याम्.ऐन्द्रः.पायसः ।
श्ग्स्_4.16.2: अश्विभ्याम्.स्वाहा.अश्वयुग्भ्याम्.स्वाहा.आश्वयुज्यै.पौर्णमास्यै.स्वाहा.शरदे.स्वाहा.पशुपतये.स्वाहा.पिङ्गलाय.स्वाहा.इत्य्.आज्यस्य.हुत्वा ।
श्ग्स्_4.16.3: अथ.पृषातकस्य.<.आ.गावो.अग्मन्न्>.इत्य्.एतेन.सूक्तेन.प्रत्यृचम्.जुहुयात् ।
श्ग्स्_4.16.4: मातृभिर्.वत्सान्त्.संसृजन्ति.तम.रात्रीम् ।
श्ग्स्_4.16.5: अथ.ब्राह्मण.भोजनम् ।
श्ग्स्_4.17.0: अथ.आग्रहायणी.कर्म ।
श्ग्स्_4.17.1: आग्रहायण्याम्.प्रत्यवरोहेद् ।
श्ग्स्_4.17.2: रोहिण्याम्.प्रोष्ठ.पदासु.वा ।
श्ग्स्_4.17.3: प्रातः.शमी.पलाश.मधूक.इषीका.अपामार्गाणाम्.शिरीश.उदुम्बर.कुश.तरुण.बदरीणाम्.च.पूर्ण.मुष्टिम्.आदाय.शीता.लोष्टम्.च ।
श्ग्स्_4.17.4: उद.पात्रे.अवधाय ।
श्ग्स्_4.17.5: महा.व्याहृतीः.सावित्रीम्.च.उद्द्रुत्य.<.उप.नः.शोशुचद्.अघम्>.इत्य्.एतेन.सूक्तेन.तस्मिन्.निमज्ज्य.निमज्ज्य.प्रदक्षिणम्.शरण्येभ्यः.पाप्मानम्.अपहत्य.उत्तरतो.निनयेत् ।
श्ग्स्_4.17.6: मधु.पर्को.दक्षिणा ।
श्ग्स्_4.18.0: अथ.सर्प.बलि.कर्म ।
श्ग्स्_4.18.1: ग्रीष्मो.हेमन्त.उत.वा.वसन्तः.शरद्.वर्षाः.सुकृतम्.नो.अस्तु.।.तेषाम्.ऋतूनाम्.शत.शारदानाम्.निवात.एषाम्.अभय.स्याम.स्वाहा.अप.श्वेत.पदा.जहि.पूर्वेण.च.अपरेण.च.।.सप्त.च.वारुणीर्.इमाः.सर्वाश्.च.राज.बान्धवैः.स्वाहा.श्वेताय.वैदार्वाय.स्वाहा.विदार्वाय.स्वाहा.तक्षकाय.वैशालेयाय.स्वाहा.विशालाय.स्वाहा.इत्य्.आज्यस्य.हुत्वा ।
श्ग्स्_4.18.2: सुहेमन्तः.सुवसन्तः.सुग्रीष्मः.प्रति.धीयताम्.।.सुवर्षाः.सन्तु.नो.वर्षाः.शरदः.शम्.भवन्तु.न.इति ।
श्ग्स्_4.18.3: <.शम्.नो.मित्र>.इति पलाश.शाखया.विमृज्य ।
श्ग्स्_4.18.4: <.समुद्राद्.ऊर्मिर्>.इत्य्.अभ्युक्ष्य ।
श्ग्स्_4.18.5: <.स्योना.पृथिवि.भव>.इति.स्रस्तरम्.आस्तीर्य ।
श्ग्स्_4.18.6: ज्येष्ठ.दक्षिणाः.पार्श्वैः.संविशन्ति ।
श्ग्स्_4.18.7: प्रति.ब्रह्मन्.प्रति.तिष्ठामि.क्षत्र.इति.दक्षिणैः ।
श्ग्स्_4.18.8: प्रत्य्.अश्वेषु.प्रति.तिष्ठामि.गोष्व्.इति.सव्यैः ।
श्ग्स्_4.18.9: प्रति.पशुषु.प्रति.तिष्ठामि.पुष्ताव्.इति.दक्षिणैः ।
श्ग्स्_4.18.10: प्रति.प्रजायाम्.प्रति.तिष्ठाम्य्.अन्न.इति.सव्यैः ।
श्ग्स्_4.18.11: <.उद्.ईर्ध्वम्.जीव>.इत्य्.उत्थानम् ।
श्ग्स्_4.18.12: स्रस्तरे.ताम्.रात्रिम्.शेरते ।
श्ग्स्_4.18.13: यथा.सुखम्.अत.ऊर्ध्वम् ।
श्ग्स्_4.19.0: अथ.चैत्री.कर्म ।
श्ग्स्_4.19.1: चैत्र्याम्.पौर्णमास्याम् ।
श्ग्स्_4.19.2: कर्कन्धु.पर्णानि.मिथुनानाम्.च.यथा.उपपादम्.पिष्टस्य.कृत्वा ।
श्ग्स्_4.19.3: ऐन्द्राग्नस्.तुण्डिलः ।
श्ग्स्_4.19.4: रौद्रा.गोलकाः ।
श्ग्स्_4.19.5: लोकतो.नक्षत्राण्य्.अन्वाकृतयश्.च.लोकतो.नक्षत्राण्य्.अन्वाकृतयश्.च ।
श्ग्स्_5.1.0: अथ.समारोहणम् ।
श्ग्स्_5.1.1: अथ.प्रवत्स्यन्न्.आत्मन्न्.अरण्योः.समिधि.वा.अग्निम्.समारोहयति ।
श्ग्स्_5.1.2: एहि.मे.प्राणान्.आ.रोह.इति.सकृत्.सकृन्.मन्त्रेण.द्विर्-द्विस्.तूष्णीम् ।
श्ग्स्_5.1.3: अयम्.ते.योनिर्.इति.वा.अरणी.प्रतितपति ।
श्ग्स्_5.1.4: समिधम्.वा ।
श्ग्स्_5.1.5: अनस्तमिते.च.मन्थनम् ।
श्ग्स्_5.1.6: वैश्वदेव.काले.च ।
श्ग्स्_5.1.7: उपलिप्त.उद्धत.अवोक्षिते.लौकिकम्.अग्निम्.आहृत्य.उपावरोह.इत्य्.उपावरोहणम् ।
श्ग्स्_5.1.8: अनुगते.अग्नौ.सर्व.प्रायश्.चित्त.आहुती.हुत्वा.पाहि.नो.अग्न.एधसे.स्वाहा.पाहि.नो.विश्व.वेदसे.स्वाहा.यज्ञम्.पाहि.विभावसो.स्वाहा.सर्वम्.पाहि.शत.क्रतो.स्वाहा.इति ।
श्ग्स्_5.1.9: व्रत.हाना.उपोष्य.आज्यस्य.हुत्वा.<.त्वम्.अग्ने.व्रतपा>.इति ।
श्ग्स्_5.2.0: अथ.उत्सर्गः ।
श्ग्स्_5.2.1: अथ.पुष्करिणी.कूप.तडागानाम् ।
श्ग्स्_5.2.2: शुद्ध.पक्षे.पुण्ये.वा.तिथौ ।
श्ग्स्_5.2.3: पयसा.यवमयम्.चरुम्.श्रपयित्वा ।
श्ग्स्_5.2.4: <.त्वम्.नो.अग्न>इति.द्वाभ्याम्.<.अव.ते.हेळ>.<.इमम्.मे.वरुन>.<.उद्.उत्तमम्.वरुण>.<.इमाम्.धियम्.शिक्षमाण्स्य> ।
श्ग्स्_5.2.5: गृह्यो.अपगृह्यो.मयोभूर्.आखरो.निखरो.निह्सरो.निकामः.सपत्न.दूषण.इति.वारुण्या.दिक्.प्रभृति.प्रदक्षिणम्.जुहुयात् ।
श्ग्स्_5.2.6: मध्ये.पयसा.जुहोति.<.विश्वतश्.चक्षुर्>.<.इदम्.विष्णुर्>.इति ।
श्ग्स्_5.2.7: <.यत्.किम्.च.इदम्>.इति.मज्जयित्वा ।
श्ग्स्_5.2.8: धेनुर्.दक्षिणा.वस्त्र.युग्म.च ।
श्ग्स्_5.2.9: अतो.ब्राह्मण.भोजनम् ।
श्ग्स्_5.3.0: अथ.आराम.प्रतिष्ठा.कर्म ।
श्ग्स्_5.3.1: अथ.आरामे.अग्निम्.उपसमाधाय ।
श्ग्स्_5.3.2: स्थाली.पाकम्.श्रपयित्वा ।
श्ग्स्_5.3.3: विष्णवे.स्वाहा.इन्द्र.अग्निभ्याम्.स्वाहा.विश्व.कर्मणे.स्वाहा.इति.<.यान्.वो.नर>.इति.प्रत्यृचम्.जुहुयाद् ।
श्ग्स्_5.3.4: <.वनस्.पते.शत.वल्श>.इत्य्.अभिमन्त्र्य ।
श्ग्स्_5.3.5: हिरण्यम्.दक्षिणा ।
श्ग्स्_5.4.0: अथ.प्रायश्.चित्तयः ।
श्ग्स्_5.4.1: यदि.पार्वणस्.त्व्.अकृतो.अन्यतरस्.ततश्.चरुः ।
श्ग्स्_5.4.2: अग्नये.वैश्वानराय.स्वाहा.अग्नये.तन्तुमते.स्वाहा.इति ।
श्ग्स्_5.4.3: होम.अतिक्रमे ।
श्ग्स्_5.4.4: सायम्.दोशा.वस्तर्.नमः.स्वाहा ।
श्ग्स्_5.4.5: प्रातः.प्रातर्.वस्तर्.नमः.स्वाहा.इति ।
श्ग्स्_5.4.6: यावन्तो.होमास्.तावतीर्.हुत्वा.पूर्ववद्द्.होमः ।
श्ग्स्_5.5.1: कपोत.उलूकाभ्याम्.उपवेशने ।
श्ग्स्_5.5.2: <.देवाः.कपोत>.इति.प्रत्यृचम्.जुहुयात् ।
श्ग्स्_5.5.3: दुह्स्वप्न.दर्शने.च.अरिष्ट.दर्शने.च ।
श्ग्स्_5.5.4: निशायाम्.काक.शब्द.क्रान्ते.च ।
श्ग्स्_5.5.5: अन्येषु.च.अद्भुतेषु.च ।
श्ग्स्_5.5.6: पयसा.चरुम्.श्रपयित्वा ।
श्ग्स्_5.5.7: सरूप.वत्साय.गोः.पयसि ।
श्ग्स्_5.5.8: न.त्व्.एव.तु.कृष्णायाः ।
श्ग्स्_5.5.9: रात्री.सूक्तेन.प्रत्यृचम्.जुहुयात् ।
%र्व् 10.127
श्ग्स्_5.5.10: हुत.शेषम्.महा.व्याहृतितिभिः.प्राश्य ।
श्ग्स्_5.5.11: <.भद्रम्.कर्णेभिर्>.इति.कर्णौ ।
श्ग्स्_5.5.12: <.शतम्.इन्.नु.शरदो.अन्ति.देवा>.इत्य्.आत्मानम्.अभिमन्त्र्य ।
श्ग्स्_5.5.13: ब्राह्मणेभ्यः.किंचिद्.दद्यात् ।
श्ग्स्_5.6.1: व्याधौ.समुत्थिते ।
श्ग्स्_5.6.2: <.इमा.रुद्राय.तवसे.कपर्दिन>.इति.प्रत्यृचम्.गावेधुकम्.चरुम्.जुहुयात् ।
श्ग्स्_5.7.1: अकृत.सीमन्त.उन्नयने.चेत्.प्रजायेत ।
श्ग्स्_5.7.2: अकृत.जात.कर्मा.आसीत् ।
श्ग्स्_5.7.3: ततो.अतीते.दशाह.उत्सङ्गे.मातुः.कुमारकम्.स्थापयित्वा ।
श्ग्स्_5.7.4: महा.व्याहृतिभिर्.हुत्वा.पूर्ववद्द्.होमः ।
श्ग्स्_5.8.1: स्थू.ना.विरोहणे ।
श्ग्स्_5.8.2: स्थाली.पाकम्.श्रपयित्वा.<.अया.विष्ठा.जनयन्.कर्वराणि>.<.पिशङ्ग.रूपः.सुभरो.वयोधा>.इति.द्वाभ्याम्.चरुम्.जुहुयात्।
%श्स्स् 3.17.1 र्व् 2.3.9.
श्ग्स्_5.8.3: यदि.प्रणीता.चरुर्.आज्य.स्थाल्य्.अन्यद्.अपि.मृन्मयम्.भिन्नम्.स्रवेत् ।
श्ग्स्_5.8.4: सर्व.प्रायश्.चित्त.आहुती.हुत्वा.<.य.ऋते.चिद्>.इति.तृचेन.भिन्नम्.अनुमन्त्रयते ।
श्ग्स्_5.8.5: यद्य्.असमाप्ते.होमे.पवित्रे.नश्येते ।
श्ग्स्_5.8.6: सर्व.प्रायश्.चित्तम्.हुत्वा.अप्स्व्.अग्न.इति.पुनर्.उत्पादयेत् ।
श्ग्स्_5.9.0: अथ.सपिण्डी.करणम् ।
श्ग्स्_5.9.1: अथ.सपिण्डी.करणम् ।
श्ग्स्_5.9.2: चत्वार्य्.उद.पात्राणि.पूरयित्वा.समनसः.पितरो.यम.राज्ये ।
श्ग्स्_5.9.3: तेषाम् लोकः.स्वधा.नमो.यज्ञो.देवेषु.कल्पताम्.ये.समानाः.समनसो.जीवा.जीवेषु.मामकाः ।
श्ग्स्_5.9.4: तेषाम्.श्रीर्.मयि.कल्पताम्.अस्मिन्.लोके.शतम्.समाः.<.समानो.मन्त्र>.इति.द्वाभ्याम्.आद्यम्.पिण्डम्.त्रिषु.विभजेत् ।
श्ग्स्_5.9.5: तथा.एव.अर्घ.पात्राणि ।
श्ग्स्_5.9.6: एवम्.मातुर्.भ्रातुर्.भार्यायाः.पूर्वमारिण्या.एभिः.पिण्डैः.प्रक्षिप्य ।
श्ग्स्_5.10.0: अथ.प्रायश्.चित्तयः ।
श्ग्स्_5.10.1: यदि.गृहे.मधूका.मधु.कुर्वन्ति ।
श्ग्स्_5.10.2: उपोष्यौ.औदुम्बरीः.समिधो.अष्ट.शतम्.दधि.मधु.घृत.अक्ता.<.मा.नस्.तोक>.इति.द्वाभ्याम्.जुहुयात् ।
श्ग्स्_5.10.3: <.शम्.नो.इन्द्र.अग्नी>.इति.च.सूक्तम्.जपेत्.सर्वेषु.च.कर्मसु.प्रतिश्रुत.आदिषु ।
श्ग्स्_5.10.4: प्रादेश.मात्रीः.पालाशीः.समिधः.सप्तदश.हुत्वा.पश्चात्.स्रुव.ग्रहणम् ।
श्ग्स्_5.10.5: दर्श.पूर्ण.मासयोः.पञ्चदश ।
श्ग्स्_5.10.6: मध्य.आवर्षे.अष्टके.तिस्रो.वा.भवन्ति.पितृ.यज्ञवद्द्.होमः ।
श्ग्स्_5.11.1: यदि.गृहे.वल्मीक.सम्भूतिर्.गृह.उत्सर्गः ।
श्ग्स्_5.11.2: अथ.त्रिरात्रम्.उपोष्य.महा.शान्तिम्.कुर्यात्.महा.शान्तिम्.कुर्यात् ।
श्ग्स्_6.1.0: स्वाध्याय.आरण्यक.नियमाः ।
श्ग्स्_6.1.1: अथ.अतो.ब्रह्माणम्.ब्रह्मर्षिम्.ब्रह्म.योनिम्.इन्द्रम्.प्रजापतिम्.वसिष्ठम्.वामदेवम्.कहोलम्.कौषीतकिम्.महा.कौषीतकिम्.सुयज्ञम्.शाङ्खायनम्.आश्वलायनम्.ऐतरेयम्.महा.ऐतरेयम्.कात्यायनम्.शाट्यायनम्.शाकल्यम्.बभ्रुम्.बाभ्रव्यम्.मण्डुम्.माण्डव्यम्.सर्वान्.एव.पूर्व.आचार्यान्.नमस्य.स्वाध्याय.आरण्यकस्य.नियमान्.उदाहरिष्यामः ।
श्ग्स्_6.1.2: अहोरात्रम्.ब्रह्मचर्यम्.उपेत्य.आचार्यो.अमांस.आशी ।
श्ग्स्_6.1.3: आम.पिशितम्.चण्डालम्.सूतिकाम्.रजस्वलाम्.तेदन्य्.अपहस्तक.दर्शनान्य्.अनध्यायकानि ।
श्ग्स्_6.1.4: शव.रूपाणाम्.च ।
श्ग्स्_6.1.5: यान्य्.आस्ये.न.प्रविशेयुः ।
श्ग्स्_6.1.6: वान्त.कृत.श्मश्रु.कर्म ।
श्ग्स्_6.1.7: मांस.अशन.श्राद्ध.सूतक.भोजनेषु ।
श्ग्स्_6.1.8: ग्राम.अध्ययन.अनन्तर्हितान्य्.अहानि ।
श्ग्स्_6.1.9: त्रिरात्रो.अनवक्लृप्तः ।
श्ग्स्_6.1.10: पर.अभिमृष्टः ।
श्ग्स्_6.1.11: उपपर्वणाम्.अह्न.उत्तर.अर्धानि.च ।
श्ग्स्_6.1.12: अग्नि.विद्युत्.स्तनयित्नु.वर्षा.महा.अभ्र.प्रादुर्भावाच्.च ।
श्ग्स्_6.1.13: वाते.च.शर्कर.आकर्षिणि.यावत्.कालम् ।
श्ग्स्_6.2.1: ऊर्ध्वम्.आषाढ्याश्.चतुरो.मासान्.न.अधीयीत ।
श्ग्स्_6.2.2: अत्यन्तम्.शक्वर्य.इति.नियमाः ।
श्ग्स्_6.2.3: प्राग्.ज्योतिषम्.अपराजितायाम्.दिशि.पुण्यम्.उपगम्य.देशम् ।
श्ग्स्_6.2.4: अनुदित.उदक.ग्रहणम् ।
श्ग्स्_6.2.5: .मण्डल.प्रवेशश्.च.<.अञ्जन.गन्धिम्>.इत्य्.एतया.ऋचा ।
श्ग्स्_6.2.6: मण्डलम्.तु.प्राग्.द्वारम्.उदग्.द्वारम्.वा.अजनाग्रीयम्.असम्प्रमाणम्.असम्बाधम् ।
श्ग्स्_6.2.7: आ.वामदेव्यम्.उत्तर.शान्तिः ।
श्ग्स्_6.2.8: पुनः.प्राध्येषणम्.च ।
श्ग्स्_6.2.9: बहिर्.मण्डलस्थाभिर्.आचम्य ।
श्ग्स्_6.2.10: प्राधीयीरन्.कृत.शान्तयः ।
श्ग्स्_6.2.11: शान्ति.पात्र.उपघाते.प्रोक्षणम्.प्रायश्.चित्तिः ।
श्ग्स्_6.2.12: प्रोक्षणम्.तु.हिरण्यवता.पाणिना.दर्भ.पिञ्जूलवता.वा ।
श्ग्स्_6.2.13: इति.भाषिकम् ।
श्ग्स्_6.3.1: अथ.प्रविश्य.मण्डलम् ।
श्ग्स्_6.3.2: प्रान्.मुख.आचार्य.उपविशत्य्.उदन्.मुखा.दक्षिणत.इतरे.यथा.प्रधानम् ।
श्ग्स्_6.3.3: असम्भवे.सर्वतो.मुखाः ।
श्ग्स्_6.3.4: प्रतीक्षेरन्न्.उदयम्.आदित्यस्य ।
श्ग्स्_6.3.5: विज्ञाय.च.एनम्.दीधितिमन्तम् ।
श्ग्स्_6.3.6: <.अधीहि.भो>.इति.दक्षिणैर्.दक्षिणम्.सव्यैः.सव्यम्.दक्षिण.उत्तरैः.पाणिभिर्.उपसंगृह्य.पादाव्.आचार्यस्य.निर्णिक्तौ ।
श्ग्स्_6.3.7: अथ.आधाय.शान्ति.पात्रे.दूर्वा.काण्डवतीष्व्.अप्स्व्.अपिन्वमानैः.पाणिभिः.प्राधीयीरन् ।
श्ग्स्_6.3.8: एष.विधिर्ण्यदि.तु.ग्लायेरन्न्.एक.एषाम्.अशून्यम्.शान्ति.भाजनम्.कुर्याद् ।
श्ग्स्_6.3.9: अध्याय.आद्य्.अन्तयोश्.च.सर्वे ।
श्ग्स्_6.3.10: तत्.संततम्.अव्यवछिन्नम्.भवति ।
श्ग्स्_6.3.11: अथ.शान्तिः ।
श्ग्स्_6.3.12: ओम्.कारो.महा.व्याहृतयः.सावित्री.रथन्तरम्.बृहद्.वामदेव्यम्.पुनर्.आदायम्.ककुप्.कारम्.इति.बृहद्.रथन्तरे ।
श्ग्स्_6.3.13: दश.एताः.सम्पादिता.भवन्ति ।
श्ग्स्_6.3.14: दश.दशिणी.विराड्.इत्य्.एतद्.ब्राह्मणम् ।
श्ग्स्_6.4.1: अदब्धम्.मन.इषिरम्.चक्षुः.सूर्यो.ज्योतिषाम्.श्रेष्ठो.दीक्षे.मा.मा.हिंसीर्.इति.सवितार्म.ईक्षन्ते ।
श्ग्स्_6.4.2: <.युवम्.सुरामम्>.इत्य्.एका.<.स्वस्ति.नः.पथ्यास्व्>.इति.च.तिस्र.इति.महा.व्रतस्य ।
श्ग्स्_6.4.3: शक्वरीणाम्.तु.पूर्वम् ।
श्ग्स्_6.4.4: <.प्रत्य्.अस्मै.पिपीषते>.<.यो.रयिवो.रयितमस्>.<.त्यम्.उ.वो.अप्रहणम्>.इति.त्रयस्.तृचाः.<.अस्मा.अस्मा.इद्.अन्धस>.इत्य्.<.एवा.ह्य्.असि.वीरयुर्>.इत्य्.अभितः.शक्वरीणाम् ।
श्ग्स्_6.4.5: अथ.उपनिषदाम् ।
श्ग्स्_6.4.6: या.एवम्.महाण्व्रतस्य ।
श्ग्स्_6.4.7: संहितानाम्.तु.पूर्वम्.ऋतम्.वदिष्यामि.सत्यम्.वदिष्यामि.इति.विशेषः ।
श्ग्स्_6.4.8: अथ.मन्थस्य.तत्.सवितुर्.वृणीमहे.<.तत्.सवितुर्.वरेण्यम्>.इति.पूर्वे.च ।
श्ग्स्_6.4.9: <.अदब्धम्.मन>.इत्य्.आधिकारिकाः.शान्तयस्.ततः ।
श्ग्स्_6.4.10: इत्य्.आह्निकम् ।
श्ग्स्_6.4.11: अथ.उत्थान.काले.अपकृष्य.पापम् ।
श्ग्स्_6.4.12: नित्याम्.शान्तिम्.कृत्वा ।
श्ग्स्_6.4.13: उद्.इतः.शुक्रियम्.दध.इत्य्.आदित्यम्.ईक्षन्ते ।
श्ग्स्_6.5.1: तम्.अहम्.आत्मनि.इत्य्.आत्मानम्.अभिनिहितम्.त्रिर्.हितम् ।
श्ग्स्_6.5.2: उप.मा.श्रीर्.जुषताम्.उप.यशो.अनु.मा.श्रीर्.जुषताम्.अनु.यशः ।
श्ग्स्_6.5.3: स.इन्द्रः.सगणः.सबलः.सयशः.सवीर्य.उत्.तिष्ठाणि.इत्य्.उत्तिष्ठति ।
श्ग्स्_6.5.4: श्रीर्.मा.उत्.तिष्ठन्तु.यशो.मा.उत्.तिष्ठत्व्.इत्य्.उत्थाय ।
श्ग्स्_6.5.5: इदम्.अहम्.द्विषन्तम्.भ्रातृव्यम्.पाप्मानम्.अलक्ष्मीम्.च.अप.धुनोमि.इति.वस्त्र.अन्तम्.अवधूय ।
श्ग्स्_6.5.6: <.अप.प्राच>.इत्.सूक्तम्.<.इन्द्रश्.च.मृलयाति>.न.इति.द्वे.<.यत.इन्द्र.भयामह>.इत्य्.एका.<.शास.इत्था.महान्.असि>.इति.प्राचीम्.<.स्वस्तिदा>.इति.दक्षिणाम्.दक्षिणावृतो.<.विरक्ष>.इति.प्रतीचीम्.<.वि.न.इन्द्र>.इत्य्.उदीचीम्.सव्य.आवृतो.<.अप.इन्द्र>.इति.दक्षिण.आवृतो.दिवम्.उदीक्षन्ते ।
श्ग्स्_6.6.1: सविता.पश्चातात्.<.तच्.चक्षुर्>.इत्य्.आदित्यम्.उपस्थाय ।
श्ग्स्_6.6.2: व्यावर्तमानाश्.च.प्रत्यायन्त्य्.उपविशन्ति ।
श्ग्स्_6.6.3: यथा.<.अपः.शान्ता>.इति.शान्ति.पात्राद्.अप.आदाय ।
श्ग्स्_6.6.4: पृथिव्याम्.अवनिनीय ।
श्ग्स्_6.6.5: <.यथा.पृथिवी>.इत्य्.अस्य.अभिकर्षन्ति ।
श्ग्स्_6.6.6: <.एवम्.मयि.शाम्यत्व्>.इति.दक्षिणे.अंसे.निलिम्पति ।
श्ग्स्_6.6.7: एवम्.द्वितीयम् ।
श्ग्स्_6.6.8: एवम्.तृतीयम् ।
श्ग्स्_6.6.9: काण्डात्.काण्डात्.सम्.भवसि.काण्डात्.काण्डात्.प्र.रोहसि.<.शिवा.नः.शाले.भव>.इति.दूर्वा.काण्डम्.आदाय.मूर्धनि.कृत्वा ।
श्ग्स्_6.6.10: अग्निस्.तृप्यतु.वायुस्.तृप्यतु.सूर्यस्.तृप्यतु.विष्णुस्.तृप्यतु.प्रजापतिस्.तृप्यतु.विरूप.अक्शस्.तृप्यतु.सहस्र.अक्षस्.तृप्यतु.सर्व.भूतानि.तृप्यन्त्व्.इति ।
श्ग्स्_6.6.11: सुमन्तु.जैमिनि.वैशम्पायन.पैल.आद्य्.आचार्याः ।
श्ग्स्_6.6.12: पितॄन्.प्रत्यात्मिकान् ।
श्ग्स्_6.6.13: <समुद्रम्.व>.इत्य्.अपो.निनीय ।
श्ग्स्_6.6.14: वामदेव्यम्.जपित्वा ।
श्ग्स्_6.6.15: यथा.कामम्.विप्रतिष्ठन्ते ।
श्ग्स्_6.6.16: यथा.आगम.प्रज्ञा.श्रुति.स्मृति.विभवाद्.अनुक्रान्तमानाद्.अविवाद.प्रतिष्ठाद्.अभयम्.शम्.भवे.नो.अस्तु.नमो.अस्तु.देवर्षि.पितृ.मनुष्येभ्यः.शिवम्.आयुर्.वपुर्.अनामयम्.शान्तिम्.अरिष्टिम्.अक्षितिम्.ओजस्.तेजो.यशो.बलम्.ब्रह्म.वर्चसम्.कीर्तिम्.आयुः.प्रजाम्.पशून्.नमो.नमस्.कृता.वर्धयन्तु.दुष्टुताद्.दुरुपयुक्तान्.न्यून.अधिकाश्.च.सर्वस्मात्.स्वस्ति.देवर्षिभ्यश्.च.ब्रह्म.सत्यम्.च.पातु.माम्.इति.ब्रह्म.सत्य.च.पातु.माम्.इति ।
मूल पाठ: Śāṅkhāyanagṛhyasūtra · Edition: Hermann Oldenberg, Indische Studien, XV, pp.13-116 (Sehgal ed. upto 2.9) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0