शाङ्खायनगृह्यसूत्र · भाग 120
श्ग्स्_1.1.1: अथ.अतः.पाक.यज्ञान्.व्याख्यास्यामः ।
श्ग्स्_1.1.2: अभिसमावर्त्स्यमानो.यत्र.अन्त्याम्.समिधम्.अभ्यादध्यात्.तम्.अग्निम्.इन्धीत ।
श्ग्स्_1.1.3: वैवाह्यम्.वा ।
श्ग्स्_1.1.4: दायाद्य.काल.एके ।
श्ग्स्_1.1.5: प्रेते.वा.गृहपतौ.स्वयम्.ज्यायान् ।
श्ग्स्_1.1.6: वैशाख्याम्.अमावास्यायाम्.अन्यस्याम्.वा ।
श्ग्स्_1.1.7: कामतो.नक्षत्र.एके ।
श्ग्स्_1.1.8: पुरु.पशु.विट्.कुल.अम्बरीष.बहु.याजिनाम्.अन्यतमस्माद्.अग्निम्.इन्दीत ।
श्ग्स्_1.1.9: सायम्.प्रातर्.एके ।
श्ग्स्_1.1.10: सायम्.आहुति.संस्कारो.अध्वर्यु.प्रत्यय.इति.आचार्याः ।
श्ग्स्_1.1.11: प्रातः.पूर्ण.आहुतिम्.जुहुयाद्.वैष्णव्या.ऋचा.तूष्णीम्.वा ।
श्ग्स्_1.1.12: तस्य.प्रादुष्.करण.हवन.कालाव्.अग्नि.होत्रेण.व्याक्यातौ ।
श्ग्स्_1.1.13: यज्ञ.उपवीती.इत्य्.आदि.च.सम्भवत्.सर्वम्.कल्प.एकत्वात् ।
श्ग्स्_1.1.14: तद्.अप्य्.आहुः ।
श्ग्स्_1.1.15अब्: पाक.संस्था.हविः.संस्थाः.सोम.संस्थास्.तथा.अपराः ।
श्ग्स्_1.1.15च्द्: एकविंशतिर्.इत्य्.एता.यज्ञ.संस्थाः.प्रकीर्तिताः ।
श्ग्स्_1.2.0: अथ.ब्राह्मण.भोजनम् ।
श्ग्स्_1.2.1: कर्म.अपवर्गे.ब्राह्मण.भोजनम् ।
श्ग्स्_1.2.2: वाग्.रूप.वयः.श्रुत.शील.वृत्तानि.गुणाः ।
श्ग्स्_1.2.3: श्रुतम्.तु.वर्वान्.अत्येति ।
श्ग्स्_1.2.4: न.श्रुतम्.अतीयात् ।
श्ग्स्_1.2.5अब्: अधिदैवम्.अथ.अध्यात्मम्.अधियज्ञम्.इति.त्रयम् ।
श्ग्स्_1.2.5च्द्: मन्त्रेषु.ब्राह्मणे.चैव.श्रुतम्.इत्य्.अभिधीयते ।
श्ग्स्_1.2.6अब्: क्रियावन्तम्.अधीयानम्.श्रुत.वृद्धम्.तपस्विनम् ।
श्ग्स्_1.2.6च्द्: भोजयेत्.तम्.ससृद्.यस्.तु.न.तम्.भूयः.क्षुद्.अश्नुते ।
श्ग्स्_1.2.7अब्: याम्.तितर्पयिषेत्.कांचिद्.देवताम्.सर्व.कर्मसु ।
श्ग्स्_1.2.7च्द्: तस्या.उद्दिश्य.मनसा.दद्याद्.एवम्.विधाय.वै ।
श्ग्स्_1.2.8अब्: न.एवम्.विधे.हविर्.न्यस्तम्.न.गच्छेद्.देवताम्.क्वचित् ।
श्ग्स्_1.2.8च्द्: निधिर्.एष.मनुष्याणाम्.देवानाम्.पात्रम्.उच्यते ।
श्ग्स्_1.3.1: अथ.दर्श.पूर्ण.मासा.उपोष्य ।
श्ग्स्_1.3.2: प्रातर्.यत्र.एतन्.महा.वृक्ष.अग्राणि.सूर्य.आतपति.स.होम.कालः.स्वस्त्ययनतमः.सर्वासाम्.आवृताम्.अन्यत्र.निर्देशात् ।
श्ग्स्_1.3.3: सुमनाः.शुचिः.शुचौ.वरूथ्य.देशे.पूर्ण.विधनम्.चरुम्.श्रपयित्वा.दर्श.पूर्ण.मास.देवताभ्यो.यथा.विभागम्.स्थाली.पाकस्य.जुहोति ।
श्ग्स्_1.3.4: स्थाली.पाकेषु.च.ग्रहण.आसादन.प्रोक्षणानि.मन्त्र.देवताभ्यः ।
श्ग्स्_1.3.5: अवदान.धर्माश्.च ।
श्ग्स्_1.3.6: पूर्वम्.तु.दर्श.पूर्ण.मासाभ्याम्.अन्वारम्भणीय.देवताभ्यो.जुहुयात् ।
श्ग्स्_1.3.7: आ.पौर्णमासाद्.दर्शस्य.अनतीतः.कालः.आ.दर्शात्.पौर्णमासस्य ।
श्ग्स्_1.3.8: प्रातर्.आहुतिम्.च.एके.सायम्.आहुति.काले.अत्ययान्.मन्यन्ते ।
श्ग्स्_1.3.9: नियतस्.त्व्.एव.कालो.अग्नि.होत्रे.प्रायश्.चित्त.दर्शनाद्.भिन्न.कालस्य ।
श्ग्स्_1.3.10: नित्य.आहुत्योर्.व्रीहि.यव.तण्डुलानाम्.अन्यतमद्द्.हविः.कुर्वीत ।
श्ग्स्_1.3.11: अभावे.अन्यद्.अप्रतिषिद्धम् ।
श्ग्स्_1.3.12: तण्डुलांश्.चेत्.प्रक्षाल्य.एके ।
श्ग्स्_1.3.13: इतरेषाम्.असंस्कारः ।
श्ग्स्_1.3.14: सायम्.अग्नये.प्रातस्.सूर्यात् ।
श्ग्स्_1.3.15: प्रजापतये.च.अनु.उभयोस्.तूष्णीम् ।
श्ग्स्_1.3.16: प्राक्.प्राग्.आहुतेः.समिधम्.एके ।
श्ग्स्_1.3.17: यथा.उक्तम्.पर्युक्षणम् ।
श्ग्स्_1.4.0: अथ.स्वाध्याय.विधिः ।
श्ग्स्_1.4.1: उत्थाय.प्रातर्.आचम्य.अहर्.अहः.स्वाध्यायम्.अधीयीत ।
श्ग्स्_1.4.2: <.अद्या.नो.देव.सवितर्>.द्वे.<.अपेहि.मनसस्.पत>.इति.सूक्तम्.<.ऋतम्.च.सत्यम्.च>.इति.सूक्तम्.<.आदित्या.अव.हि.ख्यत>.इति.सूक्त.शेषः.<इन्द्र.श्रेष्ठानि>.इति.एका.<.हंसः.शुचिषद्>.इति.एका.<.नमो.महद्भ्य>.इति.एका.<.यत.इन्द्र.भयामह>.इति.एका.<.अध.स्वप्नस्य>.इति.एका.<.यो.मे.राजन्न्>.इति.एका.<.मम.अग्ने.वर्च>.इति.सूक्तम्.<.स्वस्ति.नो.मिमीताम्>.इति.च.पञ्च ।
श्ग्स्_1.5.1: चत्वारः.पाक.यज्ञा.हुतो.अहुतः.प्रहुतः.प्राशित.इति ।
श्ग्स्_1.5.2: पञ्चसु.बहिः.शालायाम्.विवाहे.चूडा.करण.उपनयने.केश.अन्ते.सीमन्त.उन्नयन.इति ।
श्ग्स्_1.5.3: उपलिप्त.उद्धत.अवोक्षिते.अग्निम्.प्रणीय ।
श्ग्स्_1.5.4: निर्मथ्य.एके.विवाहे ।
श्ग्स्_1.5.5: उदग्.अयन.आपूर्य.माण.पक्षे.पुण्य.अहे.कुमार्यै.पाणिम्.गृह्णीयात् ।
श्ग्स्_1.5.6: या.लक्षण.सम्पन्ना.स्यात् ।
श्ग्स्_1.5.7: यस्या.अभ्यात्मम्.अङ्गानि.स्युः ।
श्ग्स्_1.5.8: समा.केश.अन्ताः ।
श्ग्स्_1.5.9: आवर्ताव्.अपि.यस्यै.स्याताम्.प्रदक्षिणौ.ग्रीवायाम् ।
श्ग्स्_1.5.10: षड्.वीरान्.जनयिष्यति.इति.विद्यात् ।
श्ग्स्_1.6.0: अथ.कन्या.वरणम् ।
श्ग्स्_1.6.1: जायाम्.उपग्रहीष्यमाणो.<.अनृक्षरा>.इति.वरकान्.गच्छतो.अनुमन्त्रयते ।
श्ग्स्_1.6.2: अभिगमने.पुष्प.फल.यवान्.आदाय.उद.कुम्भश्.च ।
श्ग्स्_1.6.3: <.अयम्.अहम्.भो>.इति.त्रिः.प्रोच्य ।
श्ग्स्_1.6.4: उदिते.प्रान्.मुखा.गृह्याः.प्रत्यन्.मुखा.आवहमाना.गोत्र.नामान्य्.अनुकीर्तयन्तः.कन्याम्.वरयन्ति ।
श्ग्स्_1.6.5: उभयतो.रुचिते.पूर्ण.पात्रीम्.अभिमृशन्ति.पुष्प.अक्षत.यव.हिरण्य.मिश्राम्.---.<.अनाधृष्टम्.अस्य.अनाधृष्ट्यम्.देवानाम्.ओजो.अनभिशस्त्य्.अभिशस्तिपा.अनभिशस्ते.<.अन्यम्.अञ्जसा.सत्यम्>.<.उप.गेषम्.सुविते.मा.धा>>.इति ।
श्ग्स्_1.6.6: <.आ.नः.प्रजाम्>.इति.त्वयि.कन्याया.आचार्य.उत्थाय.मूर्धनि.करोति.<.प्रजाम्.त्वयि.दधामि.पशूंस्.त्वयि.दधामि.तेजो.ब्रह्म.वर्चसम्.त्वयि.दधामि>.इति ।
श्ग्स्_1.7.0: अथ.प्रतिश्रुते.होमः ।
श्ग्स्_1.7.1: प्रतिश्रुते.जुहोति ।
श्ग्स्_1.7.2: चतुर्.अस्रम्.गोमयेन.स्थण्डिलम्.उपलिप्य ।
श्ग्स्_1.7.3: पूर्वयोर्.विदिशोर्.दक्षिणाम्.प्राचीम्.पित्र्ये ।
श्ग्स्_1.7.4: उत्तराम्.दैवे ।
श्ग्स्_1.7.5: प्राचीम्.एव.एके ।
श्ग्स्_1.7.6: उदक्.संस्थाम्.मध्ये.लेखाम्.लिखित्वा ।
श्ग्स्_1.7.7: तस्यै.दक्षिणत.उपरिष्टाद्.ऊर्ध्वाम्.एकाम्.मध्य.एकाम्.उत्तरत.एकाम् ।
श्ग्स्_1.7.8: ता.अभ्युक्ष्य ।
श्ग्स्_1.7.9: <.अग्निम्.प्र.णयामि.मनसा.शिवेन.अयम्.अस्तु.संगमनो.वसूनाम्.।.मा.नो.हिंसीः.स्थविरम्.मा.कुमारम्.शम्.नो.भव.द्विपदे.शम्.चतुष्पदे>.इत्य्.अग्निम्.प्रणीय ।
श्ग्स्_1.7.10: तूष्णीम्.वा ।
श्ग्स्_1.7.11: प्रदक्षिमम्.अग्नेः.समन्तात्.पाणिना.स.उदकेन.त्रिः.प्रमार्ष्टि.तत्.समूहनम्.इत्य्.आचक्षते ।
श्ग्स्_1.7.12: सकृद्.अपसव्यम्.पित्र्ये ।
श्ग्स्_1.8.0: अथ.परिस्तरणम् ।
श्ग्स्_1.8.1: अथ.परिस्तरणम् ।
श्ग्स्_1.8.2: प्राग्.अग्रैः.कुशैः.परिस्तृणाति.त्रिवृत्.पञ्चवृद्.वा ।
श्ग्स्_1.8.3: पुरस्तात्.प्रथमम्.अथ.पश्चाद्.अथ.पश्चात् ।
श्ग्स्_1.8.4: मूलान्य्.अग्रैः.प्रच्छादयति ।
श्ग्स्_1.8.5: सर्वाश्.च.आवृतो.दक्षिणतः.प्रवृत्तय.उदक्.संस्था.भवन्ति ।
श्ग्स्_1.8.6: दक्षिणतो.ब्रह्माणम्.प्रतिष्ठाप्य.<.भूर्.भुवः.स्वर्>.इति ।
श्ग्स्_1.8.7: सुमनोभिर्.अलम्.कृत्य ।
श्ग्स्_1.8.8: उत्तरतः.प्रणीताः.प्रणीय.<.को.वः.प्रणयति>.इति ।
श्ग्स्_1.8.9: सव्येन.कुशान्.आदाय.दक्षिणेन.अपनौति ।
श्ग्स्_1.8.10: दक्षिणम्.जान्व्.आच्य ।
श्ग्स्_1.8.11: सव्यम्.पित्र्ये ।
श्ग्स्_1.8.12: न.आज्य.आहुतिषु.नित्यम्.परिस्तरणम् ।
श्ग्स्_1.8.13: नित्य.आहुतिषु.च.इति.माण्डूकेयः ।
श्ग्स्_1.8.14: कुश.तरुणे.अविषमे.अविच्छिन्न.अग्रे.अनन्वर्.गर्भे.प्रादेशेन.मापयित्वा.कुशेन.छिनत्ति.<.पवित्रे.स्थ>.इति ।
श्ग्स्_1.8.15: द्वे.त्रीणि.वा.भवन्ति ।
श्ग्स्_1.8.16: प्राग्.अग्रे.धारयन्.<.वैष्णव्याव्>.इति.अभ्युक्ष्य ।
श्ग्स्_1.8.17: कुश.तरुणाभ्याम्.प्रदक्षिणम्.अग्निम्.त्रिः.पर्युक्ष्य ।
श्ग्स्_1.8.18: <.महीनाम्.पयो.असि>.इति.आज्य.स्थालीम्.आदाय ।
श्ग्स्_1.8.19: <.इषे.त्वा>.इति.अधिश्रित्य ।
श्ग्स्_1.8.20: <.ऊर्जे.त्वा>.इति.उदग्.उद्वाह्य ।
श्ग्स्_1.8.21: उदग्.अग्रे.पवित्रे.धारयन्न्.अङ्गुष्ठाभ्याम्.च.उपकनिष्ठिकाभ्याम्.च.उभयतः.प्रतिगृह्य.ऊर्ध्व.अग्रे.प्रह्वे.कृत्वा.आज्ये.प्रत्यस्यति.।.<.सवितुष्.ट्वा.प्रसव.उत्पुनाम्य्.अच्छिद्रेण.पवित्रेण.वसोः.सूर्यस्य.रश्मिभिर्>.इति ।
श्ग्स्_1.8.22: आज्य.संस्कारः.सर्वत्र ।
श्ग्स्_1.8.23: न.असंस्कृतेन.जुहुयात् ।
श्ग्स्_1.8.24: स्रुवे.च.अपः.<.सवितुर्.व>.इति ।
श्ग्स्_1.8.25: ताः.प्रणीताः.प्रोक्षणीश्.च ।
श्ग्स्_1.9.0: अथ.आज्य.होमः ।
श्ग्स्_1.9.1: स्रुवः.पात्रम् ।
श्ग्स्_1.9.2: अर्थ.लक्षण.ग्रहणम् ।
श्ग्स्_1.9.3: सव्येन.कुशान्.आदाय.दक्षिणेन.मूले.स्रुवम्.<.विष्णोर्.हस्तो.असि>.इति ।
श्ग्स्_1.9.4: स्रुवेण.आज्य.आहुतीर्.जुहोति ।
श्ग्स्_1.9.5: उत्तर.पश्च.अर्धाद्.अग्नेर्.आरभ्य.अविच्छिन्नम्.दक्षिणतो.जुहोति.<.त्वम्.अग्ने.प्रमतिर्>.इति ।
श्ग्स्_1.9.6: दक्षिण.पश्च.अर्धाद्.अग्नेर्.आरभ्य.अविच्छिन्नम्.उत्तरतो.जुहोति.<.यस्य.इमे.हिमवन्त>.इति ।
श्ग्स्_1.9.7: आग्नेयम्.उत्तरम्.आज्य.भागम्.सौम्यम्.दक्षिणम् ।
श्ग्स्_1.9.8: मध्ये.अन्या.आहुतयः ।
श्ग्स्_1.9.9: <.अग्निर्.जनिता.स.मे.अमूम्.जायाम्.ददातु.स्वाहा.।.सोमो.जनिमान्त्.स.मा.अमुया.जनिमन्तम्.करोतु.स्वाहा.।.पूषा.ज्ञातिमान्त्.स.मा.अमुष्यै.पित्रा.मात्रा.भ्रातृभिर्.ज्ञातिमन्तम्.करोतु.स्वाहा>.इति ।
श्ग्स्_1.9.10: न.आज्य.आहुतिषु.नित्याव्.आज्य.भागौ.स्विष्टकृच्.च ।
श्ग्स्_1.9.11: नित्य.आहुतिषु.च.इति.माण्डूकेयः ।
श्ग्स्_1.9.12: महा.व्याहृति.सर्व.प्रायश्.चित्त.प्राजापत्य.अन्तरम्.एतद्.आवाप.स्थानम् ।
श्ग्स्_1.9.13: आज्ये.हविषि.सव्ये.पाणौ.ये.कुशास्.तान्.दक्षिणेन.अग्रे.संगृह्य.मूले.सव्येन.तेषाम्.अग्रम्.स्रुवे.समनक्ति.मध्यम्.आज्य.स्थाल्याम्.मुले.च ।
श्ग्स्_1.9.14: अथ.चेत्.स्थाली.पालेषु.स्रुच्य्.अग्रम्.मध्यम्.स्रुवे.मूलम्.आज्य.स्थाल्याम् ।
श्ग्स्_1.9.15: तान्.अनुप्रहृत्य.<.अग्नेर्.वासो.असि>.इति ।
श्ग्स्_1.9.16: तिस्रः.समिधो.अभ्याधाय ।
श्ग्स्_1.9.17: यथा.उक्तम्.पर्युक्षणम् ।
श्ग्स्_1.9.18: अनाम्नात.मन्त्रास्व्.आदिष्ट.देवतासु.<.अमुष्यै.स्वाहा.अमुष्यै.स्वाहा>.इति.जुहुयात्.स्वाहा.कारेण.शुद्धेन ।
श्ग्स्_1.9.19: व्याख्यातः.प्रतिश्रुते.होम.कल्पः ।
श्ग्स्_1.10.0: अथ.पाक.यज्ञ.भेदाः ।
श्ग्स्_1.10.1: प्रकृतिर्.भूति.करणम् ।
श्ग्स्_1.10.2: सर्वासाम्.च.आज्य.आहुतीनाम् ।
श्ग्स्_1.10.3: शाखा.पशूनाम् ।
श्ग्स्_1.10.4: चरु.पाक.यज्ञानाम्.च ।
श्ग्स्_1.10.5: त.एते.अप्रयाजा.अननुयाजा.अनिडा.अनिगदा.असामिधेनीकाश्.च.सर्वे.पाक.यज्ञा.भवन्ति ।
(ओन् थे fइवे प्रयाजस् अन्द् थे थ्रेए अनुयाजस् सेएन् हिल्लेब्रन्द्त्न् नेउ- उन्द् वोल्ल्मोन्दोप्fएर्न् प्प्.94ffन् 134ff; ओन् थे इदअन् 122ff.; ओन् निगदस्न् सेए wएबेर्द्स् इस्त्. इस्.217न् एत्च्; ओन् थे सअमिधेनिइ वेर्सेस् हिल्लेब्रन्द्त् ओप्.चित्.न् प्प्.74ff.)
श्ग्स्_1.10.6: तद्.अपि.श्लोकाः ।
श्ग्स्_1.10.7अब्: हुतो.अग्नि.होत्र.होमेन.अहुतो.ब्राह्मणे.हुतः ।
श्ग्स्_1.10.7च्द्: प्रहुतः.पितृ.कर्मणा.प्राशितो.ब्राह्मणे.हुतः ।
श्ग्स्_1.10.8अब्: अनूर्ध्वज्ञुर्.व्यूड.जानुर्.जुहुयात्.सर्वदा.हविः ।
श्ग्स्_1.10.8च्द्: न.हि.बाह्य.हुतम्.देवाः.प्रतिगृह्णन्ति.कर्हिचित् ।
श्ग्स्_1.10.9अब्: रौद्रम्.तु.राक्षसम्.पित्र्यम्.आसुरम्.च.अभिचारिकम् ।
श्ग्स्_1.10.9च्द्: उक्त्वा.मन्त्र.स्पृशेद्.अप.आलभ्य.आत्मानम्.एव.च ।
श्ग्स्_1.11.0: अथ.इन्द्राणी.कर्म ।
श्ग्स्_1.11.1: अथ.एताम्.रात्रीम्.श्वस्.तृतीयाम्.वा.कन्याम्.वक्ष्यन्ति.इति ।
श्ग्स्_1.11.2: तस्याम्.रात्र्याम्.अतीते.निशा.काले.सर्व.ओषधि.फल.उत्तमैः.सुरभि.मिश्रैः.सशिरस्काम्.कन्याम्.आप्लाव्य ।
श्ग्स्_1.11.3: रक्तम्.अहतम्.वा.वासः.परिधाय ।
श्ग्स्_1.11.4: पश्चाद्.अग्नेः.कन्याम्.उपवेश्य.अन्वारब्धायाम्.महा.व्याहृतिभिर्.हुत्वा.आज्य.आहुतीर्.जुहोति.--.<.अग्रये.सोमाय.प्रजापतये.मित्राय.वरुणाय.इन्द्राय.इन्द्राण्यै.गन्धर्वाय.भगाय.पूष्णे.त्वष्ट्रे.बृहस्पतये.राज्ञे.प्रत्यानीकाय.इति ।
श्ग्स्_1.11.5: चतस्रो.अष्टौ.वा.अविधवाः.शाक.पिण्डीभिर्.सुरया.अन्नेन.च.तर्पयित्वा.चतुर्.आनर्तनम्.कुर्युः ।
श्ग्स्_1.11.6: एता.एव.देवताः.पुंसः ।
श्ग्स्_1.11.7: वैश्वरणम्.ईशानम्.च ।
श्ग्स्_1.11.8: अतो.ब्राह्मण.भोजनम् ।
श्ग्स्_1.12.0: अथ.विवाह.कर्म ।
श्ग्स्_1.12.1: स्नातम्.कृत.मङ्गलम्.वरम्.अविधवाः.सुभगा.युवत्यः.कुमार्यै.वेश्म.प्रपादयन्ति ।
श्ग्स्_1.12.2: तासाम्.अप्रतिकूलः.स्याद्.अन्यत्र.अभक्ष्य.पातकेभ्यः ।
श्ग्स्_1.12.3: ताभिर्.अनुज्ञातो.अथ.अस्यै.वासः.प्रयच्छति.<.रैभ्य्.आसीद्>.इति ।
श्ग्स्_1.12.4: <.चित्तिर्.आ.उपबर्हणम्>.इति.आञ्जन.कोशम्.आदत्ते ।
श्ग्स्_1.12.5: <.समञ्जन्तु.विश्वे.देवा>.इति.समञ्जनीया ।
श्ग्स्_1.12.6: <.यथा.इयम्.शचीम्.वावाताम्.सुपुत्राम्.च.यथा.अदितिम्.।.अविधवाम्.च.अपालाम्.एवम्.त्वाम्.इह.रक्षताद्.इमम्>.इति.दक्षिणे.पाणौ.शललीम्.तृवृतम्.ददाति ।
श्ग्स्_1.12.7: <.रूपम्.रूपम्>.इति.आदर्शम्.सव्ये ।
श्ग्स्_1.12.8: रक्त.कृष्णम्.आविकम्.क्षौमम्.वा.त्रिमणिम्.प्रतिसरम्.ज्ञातयो.अस्या.बध्नन्ति.<.नील.लोहितम्>.इति ।
श्ग्स्_1.12.9: <.मधुमतीर्.ओषधीर्>.इति.मधूकानि.बध्नाति ।
श्ग्स्_1.12.10: विवाहे.गाम्.अर्हयित्वा.गृहेषु.गाम्.ते.माधुपर्किक्यौ ।
श्ग्स्_1.12.11: पश्चाद्.अग्नेः.कन्याम्.उपवेश्य.अन्वाअरब्धायाम्.महा.व्याहृतिभिस्.तिस्रो.जुहोति ।
श्ग्स्_1.12.12: समस्ताभिश्.चतुर्थीम्.प्रतीयेत.एतस्याम्.चोदनायाम् ।
श्ग्स्_1.12.13: एवम्.अनादेशे.सर्वेषु.भूति.कर्मसु.पुरस्ताच्.च.उपरिष्टाच्.च.एताभिर्.एव.जुहुयात् ।
श्ग्स्_1.13.0: अथ.पाणि.ग्रहणम् ।
श्ग्स्_1.13.1: <.संराज्ञी.श्वशुरे.भव>.इति.पिता.भ्राता.वा.अस्य्.अग्रेण.मूर्धनि.जुहोति.स्रुवेण.वा.तिष्ठन्न्.आसीनायाः.प्रान्.मुख्याः.प्रत्यन्.मुखः ।
श्ग्स्_1.13.2: <.गृभ्णामि.ते.सौभगत्वाय.हस्तम्>.इति.दक्षिणेन.पाणिना.दक्षिणम्.पाणिम्.गृह्णाति.साङ्गुष्ठम्.उत्तानेन.उत्तानम्.तिष्ठन्न्.आसीनायाः.प्रान्.मुख्याः.प्रत्यन्.मुखः ।
श्ग्स्_1.13.3: पञ्च.च.उत्तरा.जपित्वा ।
श्ग्स्_1.13.4: <.अमो.अहम्.अस्मि.सा.त्वम्.सा.त्वम्.अस्य्.अमो.अहम्.द्यौर्.अहम्.पृथिवी.त्वम्.ऋक्.त्वम्.असि.साम.अहम्.सा.माम्.अनुव्रता.भव>.।.<ताव्.एह.वि.वहावहै.प्रजाम्.प्र.जनयावहै.पुत्रान्.विन्दावहै.बहून्.ते.सन्तु.जरद्.अष्टय>.इति ।
श्ग्स्_1.13.5: उद.कुम्भम्.नवम्.<.भूर्.भुवः.स्वर्>.इति.पूरयित्वा ।
श्ग्स्_1.13.6: पुम्.नाम्नो.वृक्षस्य.सक्षीरान्त्.सपलाशान्त्.सकुशान्.ओप्य ।
श्ग्स्_1.13.7: हिरण्यम्.इति.च.एके ।
श्ग्स्_1.13.8: तम्.ब्रह्म.चारिणे.वाग्.यताय.प्रदाय ।
श्ग्स्_1.13.9: प्राग्.उदीच्याम्.दिशि.ताः.स्थेयाः.प्रदक्षिणा.भवन्ति ।
श्ग्स्_1.13.10: अश्मानम्.च.उत्तरत.उपस्थाप्य ।
श्ग्स्_1.13.11: <.एहि.सूनरि>.इति.उत्थाप्य ।
श्ग्स्_1.13.12: <.एह्य्.अश्मानम्.आ.तिष्ठ.अश्मा.इव.त्वम्.स्थिरा.भव.।.अभितिष्ठ.पृतन्यतः.सहस्व.पृतनायत>.इति.दक्षिणेन.प्रपदेन.अश्मानम्.आक्रमय्य ।
श्ग्स्_1.13.13: प्रदक्षिणम्.अग्निम्.पर्याणीय ।
श्ग्स्_1.13.14: तेन.एव.मन्त्रेण.द्वितीयम्.वसनम्.प्रदाय ।
श्ग्स्_1.13.15: लाजान्.शमी.पलाश.मिश्रान्.पिता.भ्राता.वा.स्याद्.अञ्जलाव्.आवपति ।
श्ग्स्_1.13.16: उपस्तरण.अभिधारण.प्रत्यभिधारणम्.च.आज्येन ।
श्ग्स्_1.13.17: तान्.जुहोति ।
श्ग्स्_1.14.0: अथ.सप्त.पद.क्रमणम् ।
श्ग्स्_1.14.1: <.इयम्.नार्य्.उपब्रूते.लाजान्.आवपन्तिका.।.शिवा.ज्ञातिह्ब्यो.भूयांसम्.चिरम्.जीवतु.मे.पतिः.स्वाहा>.इति.तिष्ठन्ती.जुहोति.पतिर्.मन्त्रम्.जपति ।
श्ग्स्_1.14.2: अश्म.क्रमणा.आद्य्.एवम्.द्वितीयम् ।
श्ग्स्_1.14.3: एवम्.तृतीयम् ।
श्ग्स्_1.14.4: तूष्णीम्.कामेन.चतुर्थम् ।
श्ग्स्_1.14.5: प्राग्.उदीच्याम्.दिशि.सप्त.पदानि.प्रक्रमयति ।
श्ग्स्_1.14.6: <.इष.एक.पदी.ऊर्जे.द्विपदीण्रायस्.पोषाय.त्रिपदी.आयो.भव्याय.चतुष्पदी.पशुभ्यः.पञ्चपदी.ऋतुभ्यः.षट्पदी.सखा.सप्त.पदी.भव>.इति ।
श्ग्स्_1.14.7: तान्य्.अद्भिः.शमयति ।
श्ग्स्_1.14.8: आपोहिष्ठीयाभिस्.तिसृभिः.स्थेयाभिर्.अद्भिर्.मार्जयित्वा ।
(.आपो.हि.ष्ठा.)
श्ग्स्_1.14.9: मूर्धन्य्.अभिषिच्य ।
श्ग्स्_1.14.10: <.गाम्.ददानि>.इत्य्.आह ।
श्ग्स्_1.14.11: ब्राह्मणेभ्यः.किंचिद्.दद्यात्.सर्वत्र.स्थाली.पाल.आदिषु.कर्मसु ।
श्ग्स्_1.14.12: सूर्या.विदुषे.वाधूयम् ।
श्ग्स्_1.14.13: गौर्.ब्राह्मणस्य.वरः ।
श्ग्स्_1.14.14: ग्रामो.राजन्यस्य ।
श्ग्स्_1.14.15: अश्वो.वैश्वस्य ।
श्ग्स्_1.14.16: अधिरथम्.शतम्.दुहितृमते ।
श्ग्स्_1.14.17: याज्ञिकेभ्यो.अश्वम्.ददाति ।
श्ग्स्_1.15.0: अथ.वर.गृह.प्रस्थानम् ।
श्ग्स्_1.15.1: <.प्र.त्वा.मुञ्चामि>.इति.तृचम्.गृहात्.प्रतिष्ठमानायाम् ।
श्ग्स्_1.15.2: <.जीवम्.रुदन्ती>.इति.प्ररुदन्त्याम् ।
श्ग्स्_1.15.3: अथ.रथ.अक्षस्य.उपाञ्जनम्.पत्नी.कुरुते.<.अक्षन्न्.अमीमदन्त>.इति.एतया.सर्पिषा ।
श्ग्स्_1.15.4: <.शुची.ते.चक्रे.द्वे.ते.चक्रे>.इति.च.एताभ्याम्.चक्रयोः.पूर्वया.पूर्वम्.उत्तरया.उत्तरम् ।
श्ग्स्_1.15.5: उस्रौ.च ।
श्ग्स्_1.15.6: <.खे.रथस्य>.एतया.फलवतो.वृक्षस्य.शम्या.गर्तेष्व्.एक.एकाम्.वयान्.निखाय ।
श्ग्स्_1.15.7: नित्या.वा.अभिमन्त्र्य ।
श्ग्स्_1.15.8: अथ.उस्रौ.युञ्जन्ति.<.युक्तस्.ते.अस्तु.दक्षिण>.इति.द्वाभ्याम्.<.शुक्राव्.अनड्वाहाव्>.इति.एतेन.अर्धर्चेण.युक्ताव्.अभिमन्त्र्य ।
श्ग्स्_1.15.9: अथ.यदि.रथ.अङ्गम्.विशीर्येत.छिद्येत.वा.आहित.अग्नेः.गृहान्.कन्याम्.प्रपाद्य ।
श्ग्स्_1.15.10: <.अभि.व्ययस्व.खदिरस्य>.इति.एतया.प्रतिदध्यात् ।
श्ग्स्_1.15.11: <.त्यम्.चिद्.अश्वम्>.इति.ग्रन्थिम् ।
श्ग्स्_1.15.12: <.स्वस्ति.नो.मिमीताम्>.इति.पञ्चर्चम्.जपति ।
श्ग्स्_1.15.13: <.सुकिंशुकम्>.इति.रथम्.आरोहन्त्याम् ।
श्ग्स्_1.15.14: <.मा.विदन्.परिपन्थिन>.इति.चतुष्पथे ।
श्ग्स्_1.15.15: <.ये.वध्व>.इति.श्मशाने ।
श्ग्स्_1.15.16: <.वनस्पते.शत.वल्श>.इति.वनस्पताव्.अर्धर्चम्.जपति ।
श्ग्स्_1.15.17: <.सुत्रामाणम्>.इति.नावम्.आरोहन्त्याम् ।
श्ग्स्_1.15.18: <.अश्मन्वती>.इति.नदीम्.तरन्त्याम् ।
श्ग्स्_1.15.19: अपि.वा.युक्तेन.एव ।
श्ग्स्_1.15.20: <.उद्.व.ऊर्मिर्>.इति.अगाधे ।
श्ग्स्_1.15.22: <.इह.प्रियम्>.इति.सप्त.गृहान्.प्राप्तायाः.कृताः.परिहाप्य ।
श्ग्स्_1.16.0: अथ.गृह.प्रपादनम् ।
श्ग्स्_1.16.1: आहडुहम्.इत्य्.उक्तम् ।
श्ग्स्_1.16.2: तस्मिन्न्.उपवेश्य.अन्वारब्धायाम्.पतिश्.चतस्रो.जुहोति ।
श्ग्स्_1.16.3: <.अग्निना.देवेन.पृथिवी.लोकेन.लोकानाम्>.ऋग्वेदेन.<.वेदानाम्.तेन.त्वा.शमयाम्य्.असौ.स्वाहा.।.वयौना.देवेन.अन्तरिक्ष.लोकेन.लोकानाम्>.यजुर्.वेदेन.<.वेदानाम्.तेन.त्वा.शमयाम्य्.असौ.स्वाहा.।.सूर्येण.देवेन.द्यौर्.लोकेन.लोकानाम्>.सामवेदेन.<.वेदानाम्.तेन.त्वा.शमयाम्य्.असौ.स्वाहा.।.चन्द्रेण.देवेन.दिशाम्.लोकेन.लोकानाम्>.ब्रह्म.वेदेन.<.वेदानाम्.तेन.त्वा.शमयाम्य्.असौ.स्वाहा ।
श्ग्स्_1.16.4: भूर्.या.ते.पतिध्न्य.लक्ष्मी.देवरघ्नी.जारघ्नी.ताम्.करोम्य्.असौ.स्वाहा>.इति.वा.प्रथमया.महा.व्याहृत्या.प्रथम.उपहिता.द्वितीयया.द्वितीया.तृतीयया.तृतीया.समस्ताभिश्.चतुर्थी ।
श्ग्स्_1.16.5: <.अघोर.चक्षुर्>.इति.आज्य.लेपेन.चक्षुषी.विमृजीत ।
श्ग्स्_1.16.7: <.उत.त्या.दैव्या.भिजसा>.इति.चतस्रो.अनुद्रुत्य.अन्ते.स्वाहा.कारेण.मूर्धनि.संस्रावम् ।
श्ग्स्_1.16.8: अत्र.ह.एके.कुमारम्.उत्सङ्गम्.आनयन्त्य्.उभयतः.सुजातम्.<.आ.ते.योनिम्>.इति.एतया ।
श्ग्स्_1.16.9: अपि.वा.तूष्णीम् ।
श्ग्स्_1.16.10: तस्य.अञ्जलौ.फलानि.दत्त्वा.पुण्य.अहम्.वाचयति ।
श्ग्स्_1.16.11: पुंशवती.इह.भवति ।
श्ग्स्_1.16.12: <.इह.एव.स्तम्>.इति.सूक्त.शेषेण.गृहान्.प्रपादयन्ति ।
श्ग्स्_1.17.1: <.दधिक्राव्णो.अकारिषम्>.इति.दधि.सम्पिबेयाताम् ।
श्ग्स्_1.17.2: वाग्.यताव्.आसीयाताम्.आ.ध्रुव.दर्शनात् ।
श्ग्स्_1.17.3: अस्तमिते.ध्रुवम्.दर्शयति.<.ध्रुवा.एधि.पोष्या.मयि>.इति ।
श्ग्स्_1.17.4: <.ध्रुवम्.पश्यामि.प्रजाम्.विन्दय>.इति.ब्रूयात् ।
श्ग्स्_1.17.5: त्रिरात्रम्.ब्रह्मचर्यम्.चरेयाताम् ।
श्ग्स्_1.17.6: अधः.शयीयाताम् ।
श्ग्स्_1.17.7: दध्य्.ओदनम्.सम्भुञ्जीयाताम्.<.पिबतम्.च.तृप्णुतम्.च>.इति.तृचेन ।
श्ग्स्_1.17.8: सायम्.प्रातर्.वैवाह्यम्.अग्निम्.परिचरेयाताम्.<.अग्नये.स्वाहा.अनग्नये.स्विष्टकृते.स्वाहा>.इति ।
श्ग्स्_1.17.9अब्: <.पुमांसौ.मिता.वरुणौ.पुमांसाव्.अश्विनाव्.उभौ ।
श्ग्स्_1.17.9च्द्: पुमान्.इन्द्रश्.च.अग्निश्.च.पुमांसम्.वर्धताम्.मयि.स्वाहा>.इति.पूर्वा.गर्भ.कामा ।
श्ग्स्_1.17.10: दशरात्रम्.अविप्रवासः ।
श्ग्स्_1.18.0: अथ.चतुर्थी.कर्म ।
श्ग्स्_1.18.1: अथ.चतुर्थी.कर्म ।
श्ग्स्_1.18.2: त्रिरात्रे.निवृत्ते.स्थाली.पाकस्य.जुहोति ।
श्ग्स्_1.18.3-1अब्: अग्ने.प्रायश्.चित्तिर्.असि.त्वम्.देवानाम्.प्रायश्.चित्तिर्.असि ।
श्ग्स्_1.18.3-1च्द्: या.अस्याः.पतिघ्नी.तनूस्.ताम्.अस्या.अप.जहि ।
श्ग्स्_1.18.3-2अब्: वायो.प्रायश्.चित्तिर्.असि.त्वम्.देवानाम्.प्रायश्.चित्तिर्.असि ।
श्ग्स्_1.18.3-2च्द्: या.अस्या.अपुत्रया.तनूस्.ताम्.अस्या.अप.जहि ।
श्ग्स्_1.18.3-3अब्: सूर्य.प्रायश्.चित्तिर्.असि.त्वम्.देवानाम्.प्रायश्.चित्तिर्.असि ।
श्ग्स्_1.18.3-3च्द्: या.अस्या.अपशव्या.तनूस्.ताम्.अस्या.अप.जहि ।
श्ग्स्_1.18.3-4अब्: अर्यमणम्.नु.देवम्.कन्या.अग्निम्.अयक्षत ।
श्ग्स्_1.18.3-4च्द्: सा.इमाम्.देवो.अर्यमा.प्रेतो.मुञ्चातु.मा.अमुतः ।
श्ग्स्_1.18.3-5अब्: वरुणम्.नु.देवम्.कन्या.अग्निम्.अयक्षत ।
श्ग्स्_1.18.3-5च्द्: सा.इमाम्.देवो.वरुण.रेतो.मुञ्चातु.मा.अमुतः ।
श्ग्स्_1.18.3-6अब्: पूषणम्.तु.देवम्.कन्या.अग्निम्.अयक्षत ।
श्ग्स्_1.18.3-6च्द्: सा.इमाम्.देवः.पूषा.प्रेतो.मुञ्चातु.मा.अमुतः ।
श्ग्स्_1.18.4: <.प्रजापते>.इति.सप्तमी ।
श्ग्स्_1.18.5: सौविष्तकृत्य्.अष्टमी ।
श्ग्स्_1.19.0: अथ.गर्भ.आधानम् ।
श्ग्स्_1.19.1: अध्याण्डा.मूलम्.पेषयित्वा.ऋतु.वेलायाम्.<.उद्.ईर्ष्वातः.पतिवती>.इति.द्वाभ्याम्.अन्ते.स्वाहा.काराभ्याम्.नस्तो.दक्षिणतो.निषिञ्चेत् ।
श्ग्स्_1.19.2: <.गन्धर्वस्य.विश्वावसोर्.मुखम्.असि>.इति.उपस्थम्.प्रजनयिष्यमाणो.अभिमृशेत् ।
श्ग्स्_1.19.3: समाप्ते.अर्थे.जपेत् ।
श्ग्स्_1.19.4: <.प्राणे.ते.रेतो.दधाम्य्.असाव्>.इति.अनुप्राण्यात् ।
श्ग्स्_1.19.5अब्: यथा.भूमिर्.अग्नि.गर्भा.यथा.द्यौर्.इन्द्रेण.गर्भिणी ।
श्ग्स्_1.19.5च्द्: वायुर्.यथा.दिशाम्.गर्भम्.एवम्.गर्भम्.दधामि.ते.असाव्.इति.वा ।
श्ग्स्_1.19.6अब्: आ.ते.योनिम्.गर्भ.एतु.पुमान्.बाण.इव.इषुधिम् ।
श्ग्स्_1.19.6च्द्: आ.ते.वीरो.अत्र.जायताम्.पुत्रस्.ते.दश.मास्यः ।
श्ग्स्_1.19.7अब्: पुमांसम्.पुत्रम्.जनय.तम्.पुमान्.अनु.जायताम् ।
श्ग्स्_1.19.7च्द्: तेषाम्.माता.भविष्यसि.जातानाम्.जनयांसि.च ।
श्ग्स्_1.19.8अब्: पुंसि.वै.पुरुषे.रेतस्.तत्.स्त्रियाम्.अनु.षिञ्चति ।
श्ग्स्_1.19.8च्द्: तथा.तद्.अब्रवीद्.धाता.तत्.प्रजापतिर्.अब्रवीत् ।
श्ग्स्_1.19.9अब्: प्रजापतिर्.व्यदधात्.सविता.व्यकल्पयत ।
श्ग्स्_1.19.9च्द्: स्त्रीषूयम्.अन्यात्.स्वाद्.अधत्.पुमांसम्.आदधाद्.इह ।
(.अन्यास्व्.आदधत्.)(च्f.पैप्प्.19.12)
श्ग्स्_1.19.10अब्: यानि.भद्राणि.बीजानि.पुरुषा.जनयन्ति.नः ।
श्ग्स्_1.19.10च्द्: तेभिष्.ट्वम्.पुत्रम्.जनय.सुप्रसूर्.धेनुका.भव ।
श्ग्स्_1.19.11अब्: अभि.क्रन्द.वीडयस्व.गर्भम्.आ.धेहि.साधय ।
श्ग्स्_1.19.11च्द्: वृषाणम्.वृषन्न्.आ.धेहि.प्रजायै.त्वा.हवामहे ।
श्ग्स्_1.19.12अब्: यस्य.योनिम्.पति.रेतो.गृभाय.पुमान्.पुत्रो.धीयताम्.गर्भे.अन्तः ।
श्ग्स्_1.19.12च्द्: तम्.पिपृहि.दश.मास्यो.अन्तर्.उदरे.स.जायताम्.श्रैष्ठ्यतमः.स्वानाम्.इति.वा ।
श्ग्स्_1.20.0: अथ.पुम्.सवनम् ।
श्ग्स्_1.20.1: तृतीये.मासि.पुम्.सवनम् ।
श्ग्स्_1.20.2: पुष्येण.श्रवणेन.वा ।
श्ग्स्_1.20.3: सोम.अंशुम्.पेषयित्वा.कुश.कण्टकम्.वा.न्यग्रोधस्य.वा.स्कन्धस्य.अन्त्याम्.शुङ्गाम्.यूपस्य.वा.अङ्गिष्ठाम् ।
श्ग्स्_1.20.4: संस्थिते.वा.यज्ञे.जुह्वः.संस्रावम् ।
श्ग्स्_1.20.5: <.अग्निना.रयिम्>.<.तन्.नस्.तुरीपम्>.<.समिद्ध.अग्निर्.वनवत्>.<.पिशङ्ग.रूप>.इति.चतसृभिर्.अन्ते.स्वाहा.काराभिर्.नस्तो.दक्षिणतो.निषिञ्चेत् ।
श्ग्स्_1.21.0: अथ.गर्भ.रक्षणम् ।
श्ग्स्_1.21.1: चतुर्थे.मासि.गर्भ.रक्षणम् ।
श्ग्स्_1.21.2: <.ब्रह्मणा.अग्निः.संविदान>.इति.षट्.स्थाली.पाकस्य.हुत्वा ।
श्ग्स्_1.21.3: <.अक्षीभ्याम्.ते.नासिकाभ्याम्>.इति.प्रत्यृचम्.आज्य.लेपेन.अङ्गान्य्.अनुविमृज्य ।
श्ग्स्_1.22.0: अथ.सीमन्त.उन्नयनम् ।
श्ग्स्_1.22.1: सप्तमे.मासि.प्रथम.गर्भे.सीमन्त.उन्नयनम् ।
श्ग्स्_1.22.2: स्नाताम्.अहत.वाससम्.पश्चाद्.अग्नेउ.उपवेश्य ।
श्ग्स्_1.22.3: अन्वारब्धायाम्.महा.व्याहृतिभिर्.जुत्वा ।
श्ग्स्_1.22.4: स्थाली.पालम्.श्रपयित्वा ।
श्ग्स्_1.22.5: मुग्द.ओदनम्.इत्य्.एके ।
श्ग्स्_1.22.6: पुंवद्.उपकरणानि.स्युर्.नक्षत्रम्.च ।
श्ग्स्_1.22.7-1अब्: धाता.ददातु.दाशुषे.प्राचीम्.जीवातुम्.अक्षितिम् ।
श्ग्स्_1.22.7-1च्द्: वयम्.देवस्य.धीमहि.सुमतिम्.सत्य.धर्मणः ।
श्ग्स्_1.22.7-2अब्: धाता.प्रजाया.उत.राय.ईशे.धाता.इदम्.विश्वम्.भुवनम्.जजान ।
श्ग्स्_1.22.7-2च्द्: धाता.पुत्रम्.यजमानाय.दाता.तस्मा.उ.हव्यम्.घृतवज्.जोहोत>.इति ।
श्ग्स्_1.22.7: <.नेजमेष.परा.पत>.इति.तिस्रः.<.प्रजापत>.इति.षष्ठी ।
श्ग्स्_1.22.8: त्रिः.श्वेतया.शलल्या.दर्भ.सूच्या.वा.उदुम्बर.शलाटुभिः.सह.मध्याद्.ऊर्ध्वम्.सीमन्तम्.उन्नयति.<.भूर्.भुवः.स्वर्>.इति ।
श्ग्स्_1.22.9: उत्सङ्गे.निधाय ।
श्ग्स्_1.22.10: त्रिवृति.प्रतिमुच्य.कण्ठे.बध्नाति.<.अयम्.ऊर्जावतो.वृक्ष.ऊर्जी.इव.फलिनी.भव>.इति ।
श्ग्स्_1.22.11: अथ.आह.वीणा.गाथिनः.<.राजानम्.संगायत>.इति.<.यो.वा.अप्य्.अन्यो.वीरतर>.इति ।
श्ग्स्_1.22.12: उद.पात्रे.अक्षतान्.अवनिनीय.<.विष्णुर्.योनिम्.कल्पयतु>.<राकाम्.अहम्>.इति ।
श्ग्स्_1.22.13: षडृचेन.पाययेत् ।
श्ग्स्_1.22.14: अथ.अस्या.उदरम्.अभिमृशेत् ।
श्ग्स्_1.22.15अब्: सुपर्णो.असि.गरुत्मांस्.त्रिवृत्.ते.शिरो.गायत्रम्.चक्षुः ।
श्ग्स्_1.22.15च्द्: छन्दांस्य्.अङ्गानि.यजूंषि.नाम.साम.ते.तनूः ।
श्ग्स्_1.22.16: मोदमानीम्.गापयेत् ।
श्ग्स्_1.22.17: महा.हेमवतीम्.वा ।
श्ग्स्_1.22.18: ऋषभो.दक्षिणा ।
श्ग्स्_1.23.0: अथ.सूतिका.गृह.उपलेपनम् ।
श्ग्स्_1.23.1: काकातन्या.मचकचातन्याः.कोशातख्या.बृहत्याः.कालक्लीतकस्य.इति.मूलानि.पेषयित्वा.उपलेपयेद्.देशम्.यस्मिन्.प्रजायेत.रक्षसाम्.अपहत्यै ।
श्ग्स्_1.24.0: अथ.जात.कर्म ।
श्ग्स्_1.24.1: अथ.जात.कर्म ।
श्ग्स्_1.24.2: जातम्.कुमारम्.त्रिर्.अभ्यवान्य.अनुप्राण्यात्.<.ऋचा.प्राअणिहि.यजुषा.समनिहि.साम्ना.उदनिहि>.इति ।
श्ग्स्_1.24.3: सर्पिर्.मधुनी.दध्य्.उदके.च.सम्निनीय.ब्रीहि.यवौ.वा.सम्निघृष्य.त्रिः.प्राशयेज्.जात.रूपेण ।
श्ग्स्_1.24.4-1अब्: प्र.ते.यच्छामि.मधुमन्.मखाय.वेद.प्रसूतम्.सवित्रा.मघोना ।
श्ग्स्_1.24.4-1च्द्: आयुष्मान्.गुपितो.देवताभिः.शतम्.जीव.शरदो.लोके.अस्मिन्न्.इति ।
श्ग्स्_1.24.4: असाव्.इति.नाम.अस्य.दधाति.घोषवद्.आद्य्.अन्तर्.अन्तस्थम्.द्व्य्.अक्षरम्.चतुर्.अक्षरम्.वा.अपि.वा.षड्.अक्षरम्.कृतम्.कुर्यान्.न.तद्धितम् ।
श्ग्स्_1.24.5: तद्.अस्य.पिता.माता.च.विद्याताम् ।
श्ग्स्_1.24.6: दशम्याम्.व्यावहारिकम्.ब्राह्मण.जुष्टम् ।
श्ग्स्_1.24.7: गोः.कृष्णस्य.शुक्ल.कृष्णानि.लोहितानि.च.रोमाणि.मषम्.कारयित्वा.एतस्मिन्न्.एव.चतुष्टये.सम्निनीय.चतुः.प्राशयेद्.इति.माण्डूकेयः ।
श्ग्स्_1.24.8: भूर्.ऋग्वेदम्.<.त्वयि.दधाम्य्.असौ.स्वाहा.भूर्.भुवः.स्वर्.वाको.वाक्यम्.इतिहास.पुराणम्.ओम्.सर्वान्.वेदांस्.त्वयि.दधाम्य्.असौ.स्वाहा>.इति.वा ।
श्ग्स्_1.24.9: मेधा.जननम्.दक्षिणे.कर्णे.<.वाग्>.इति.त्रिः ।
श्ग्स्_1.24.10-1अब्: <.वाग्.देवी.मनसा.संविदाना.प्राणेन.वत्सेन.सह.इन्द्र.प्रोक्ता ।
श्ग्स्_1.24.10-1च्द्: जुषतम.त्वा.सौमनसाय.देवी.मही.मन्द्रा.वाणी.वाणीची.सलिला.स्वयम्भूर्>.इति ।
श्ग्स्_1.24.10: च.अनुमन्त्रयेत् ।
श्ग्स्_1.24.11: शण.सूत्रेण.विग्रन्थ्य.जात.रूपम् ।
श्ग्स्_1.24.12: दक्षिणे.पाणाव्.अपिनह्य.आ.उत्थानात् ।
श्ग्स्_1.24.13: ऊर्ध्वम्.दशम्या.ब्राह्मणेभ्यो.दद्यात् ।
श्ग्स्_1.24.14: अमा.वा.कुर्वीत ।
श्ग्स्_1.25.0: अथ.नाम.कर्म ।
श्ग्स्_1.25.1: दश.रात्रे.च.उत्थानम् ।
श्ग्स्_1.25.2: माता.पितरौ.शिरः.स्नाताव्.अहत.वाससौ ।
श्ग्स्_1.25.3: कुमारश्.च ।
श्ग्स्_1.25.4: एतस्मिन्न्.एव.सूतिका.अग्नौ.स्थाली.पाकम्.श्रपयित्वा ।
श्ग्स्_1.25.5: जन्म.तिथिम्.हुत्वा.त्रीणि.च.भानि.सदैवतानि ।
श्ग्स्_1.25.6: तन्.मध्ये.जुहुयाद्.यस्मिन्.जातः.स्यात्.पूर्व्म.तु.दैवतम्.सर्वत्र ।
श्ग्स्_1.25.7-1अब्: आयुष्.ते.अद्य.गीर्भिर्.अयम्.अग्निर्.वरेण्यः ।
श्ग्स्_1.25.7-1च्द्: आयुर्.नो.देहि.जीवसे.आयुर्दा.अग्ने.हविषा.वृधानो ।
श्ग्स्_1.25.7-2अब्: घृत.प्रतीको.घृत.योनिर्.एधि.घृतम्.पीत्वा.मधु.चारु.गव्यम् ।
श्ग्स्_1.25.7-2च्द्: त्वम्.सोम.महे.भगम्>.इति.।7-2च्द्:पिता.इव.पुत्रम्.इह.रक्षताद्.इमम्.इति ।
श्ग्स्_1.25.7: दशमी.स्थाली.पाकस्य ।
श्ग्स्_1.25.8: नाम.धेयम्.प्रकाशम्.कृत्वा ।
श्ग्स्_1.25.9: ब्राह्मणान्.स्वस्ति.वाच्य ।
श्ग्स्_1.25.10: एवम्.एव.मासि.मासि.जन्म.तिथिम्.हुत्वा ।
श्ग्स्_1.25.11: ऊर्ध्वम्.संवत्सराद्.गृह्ये.अग्नौ.जुहोति ।
श्ग्स्_1.26.0: अथ.होमः ।
श्ग्स्_1.26.1: अग्नये.कृत्तिकाभ्यः ।
श्ग्स्_1.26.2: प्रजापतये.रोहिण्यै ।
श्ग्स्_1.26.3: सोमाय.मृगशिरसे ।
श्ग्स्_1.26.4: रुद्राय.आर्द्राभ्यः ।
श्ग्स्_1.26.5: अदितये.पुनर्वसुभ्याम् ।
श्ग्स्_1.26.6: बृहस्पतये.पुष्याय ।
श्ग्स्_1.26.7: सर्पेभ्यो.अश्लेषाभ्यः ।
श्ग्स्_1.26.8: पित्र्येभ्यो.मघाभ्यः ।
श्ग्स्_1.26.9: भगाय.फल्गुनीभ्याम् ।
श्ग्स्_1.26.10: अर्यम्णे.फल्गुनीभ्याम् ।
श्ग्स्_1.26.11: सवित्रे.हस्ताय ।
श्ग्स्_1.26.12: त्वष्ट्रे.चित्रायै ।
श्ग्स्_1.26.13: वायवे.स्वातये ।
श्ग्स्_1.26.14: इन्द्राग्निभ्याम्.विशाखाभ्याम् ।
श्ग्स्_1.26.15: मित्राय.अनुराधायै ।
श्ग्स्_1.26.16: इन्द्राय.ज्येष्ठायै ।
श्ग्स्_1.26.17: निरृत्यै.मूलाय ।
श्ग्स्_1.26.18: अद्भ्यो.आषाढाभ्यः ।
श्ग्स्_1.26.19: विश्वेभ्यो.देवेभ्यो.आषाढाभ्यः ।
श्ग्स्_1.26.20: ब्रह्मणे.अभिजिते ।
श्ग्स्_1.26.21: विष्णवे.श्रवणाय ।
श्ग्स्_1.26.22: वसुभ्यो.धनिष्ठाभ्यः ।
श्ग्स्_1.26.23: वरुणाय.शत.भिषजे ।
श्ग्स्_1.26.24: अजाय.एकपदे.प्रोष्ठपदाभ्यः ।
श्ग्स्_1.26.25: अहिर्.बुध्न्याय.प्रोष्ठपदाभ्यः ।
श्ग्स्_1.26.26: पूष्णे.रेवत्यै ।
श्ग्स्_1.26.27: अश्विभ्याम्.अश्विनीभ्याम् ।
श्ग्स्_1.26.28: यमाय.भरणीभ्यः ।
श्ग्स्_1.27.0: अथ.अन्न.प्राशनम् ।
श्ग्स्_1.27.1: षष्ठे.मास्य्.अन्न.प्राशनम् ।
श्ग्स्_1.27.2: आजम्.अन्न.अद्य.कामः ।
श्ग्स्_1.27.3: तैत्तिरम्.ब्रह्म.वर्चस.कामः ।
श्ग्स्_1.27.4: मात्स्यम्.जवन.कामः ।
श्ग्स्_1.27.5: घृत.ओदनम्.तेजस्.कामः ।
श्ग्स्_1.27.6: दधि.मधु.घृत.मिश्रम्.अन्नम्.प्राशयेत् ।
श्ग्स्_1.27.7-1अब्: <.अन्न.पते.अन्नस्य.नो.देह्य्.अमीवस्य.शुष्ण्मिणः ।
श्ग्स्_1.27.7-1च्द्: प्र.प्र.दातारम्.तारिष.ऊर्जन्.नो.धेहि.द्विपदे.च ।
श्ग्स्_1.27.7: <.यच्.चिद्द्.हि>.<.महश्चित्> ।
श्ग्स्_1.27.7-2अब्: इमम्.अग्न.आयुषे.वर्चसे.तिग्मम्.ओजो.वरुण.सोम.राजन् ।
श्ग्स्_1.27.7: माता.इव.अस्मा.अदितिः.शर्म.यंसद्.विश्वे.देवा.जरद्.अष्टिर्.यथा.असद्.इति.हुत्वा ।
श्ग्स्_1.27.8: <.अग्न.आयूंषि>.इत्.अभिमन्त्र्य ।
श्ग्स्_1.27.9: उदग्.अग्रेषु.कुशेषु.<.स्योना.पृथिवि.भव>.इति.उपवेश्य ।
श्ग्स्_1.27.10: महा.व्याहृतिभिः.प्राशनम् ।
श्ग्स्_1.27.11: शेषम्.माता.प्राश्नीयात् ।
श्ग्स्_1.28.0: अथ.चूडा.कर्म ।
श्ग्स्_1.28.1: संवत्सरे.चूडा.कर्म ।
श्ग्स्_1.28.2: तृतीये.वा.वर्षे ।
श्ग्स्_1.28.3: पञ्चमे.क्षत्रियस्य ।
श्ग्स्_1.28.4: सप्तमे.वैश्यस्य ।
श्ग्स्_1.28.5: अग्निम्.उपसमाधाय ।
श्ग्स्_1.28.6: व्रीहि.यवानाम्.तिल.माषाणाम्.इति.पात्राणि.च.पूरयित्वा ।
श्ग्स्_1.28.7: आनडुहम्.च.गोमयम्.कुश.भित्तम्.च.केश.प्रतिग्रहणाय.आदर्शन्.नव.नीतम्.लोह.क्षुरम्.च.उत्तरत.उपस्थाप्य ।
श्ग्स्_1.28.8-1अब्: सम्पृच्यध्वम्.ऋतावरीर्.ऊर्मिणा.मधुमत्तमाः ।
श्ग्स्_1.28.8-1च्द्: पृञ्चतीर्.मधुना.पयो.मन्द्रा.धनस्य.सातय.इति ।
श्ग्स्_1.28.8: उष्णास्व्.अप्सु.शीता.आसिञ्चति ।
श्ग्स्_1.28.9-1अब्: आप.उन्दन्तु.जीवसे.दीर्घ.आयुत्वाय.वर्चसे ।
श्ग्स्_1.28.9-1च्द्: त्र्यायुषम्.जमदग्नेः.पश्यपस्य.त्र्यायुषम् ।
श्ग्स्_1.28.9-1एfग्: अगस्त्यस्य.त्र्यायुषम्.यद्.देवानाम्.त्र्यायुषम्.।.तत्.ते.करोमि.त्र्यायुषम्.इति ।
श्ग्स्_1.28.9: असाव्.इति.शीट.उष्णाभिर्.अद्भिर्.दक्षिणम्.केश.पक्षम्.त्रिर्.अभ्यनक्ति ।
श्ग्स्_1.28.10: शलल्या.एके.विजटान्.कृत्वा ।
श्ग्स्_1.28.11: नव.नीतेन.अभ्यज्य ।
श्ग्स्_1.28.12: <.ओषधे.त्रायस्व.एनम्>.इति.कुश.तरुणम्.अन्तर्.दधाति ।
श्ग्स्_1.28.13: केशान्.कुश.तरुणम्.च.आदर्शेन.संस्पृश्य ।
श्ग्स्_1.28.14: <.तेजो.असि.स्वधितिष्.टे.पिता.मा.एनम्.हिंसीर्>.इति.लोह.क्षुरम्.आदत्ते ।
श्ग्स्_1.28.15: येन.आवपत्.सविता.श्मश्र्व्.अग्रे.क्षुरेण.राज्ञो.वरुणस्य.विद्वान्.येन.धाता.बृहस्पतिर्.इन्द्रस्य.च.आवपत्.शिरः.।.तेन.ब्रह्माणो.वपत.इदम्.अद्य.आयुष्मान्.दीर्घ.आयुर्.अयम्.अस्तु.वीरो.असाव्.इति.केश.अग्राणि.छिनत्ति.कुश.तरुणम्.च ।
श्ग्स्_1.28.16: एवम्.द्वितीयम्.एवम्.तृतीयम् ।
श्ग्स्_1.28.17: एव्म.द्विर्.उत्तरतः ।
श्ग्स्_1.28.18: निकक्षयोः.षष्ठ.सप्तमे.गो.दान.कर्मणि ।
श्ग्स्_1.28.19: एतद्.एअ.गो.दान.कर्म.यच्.चूडा.कर्म ।
श्ग्स्_1.28.20: षोडशे.वर्षे.अष्टादशे.वा ।
श्ग्स्_1.28.21: तृतीये.तु.प्रवपने.गाम्.ददात्य्.अहतम्.च.वासः ।
श्ग्स्_1.28.22: तूष्णीम्.आवृतः.कन्यानाम् ।
श्ग्स्_1.28.23: प्राग्.उदीच्याम्.दिशि.बह्व्.अओषधिके.देशे.अपाम्.वा.समीपे.केशान्.निखनन्ति ।
श्ग्स्_1.28.24: नापिताय.धान्य.पात्राणि.नापिताय.धान्य.पात्राणि ।
श्ग्स्_2.1.0: अथ.उपनयनम् ।
श्ग्स्_2.1.1: गर्भ.अष्टमेषु.ब्राह्मणम्.उपनयेत् ।
श्ग्स्_2.1.2: ऐणेयेन.अजिनेन ।
श्ग्स्_2.1.3: गर्भ.दशमेषु.वा ।
श्ग्स्_2.1.4: गर्भ.एकादशेषु.क्षत्रियम्.रौरवेण ।
श्ग्स्_2.1.5: गर्भ.द्वादशेषु.वैश्यम्.गव्येन ।
श्ग्स्_2.1.6: आ.षोडशाद्.वर्षाद्.ब्राह्मणस्य.अनतीतः.कालः ।
श्ग्स्_2.1.7: आ.द्वाविंशात्.क्षत्रियस्य ।
श्ग्स्_2.1.8: आ.चतुर्विंशाद्.वैश्यस्य ।
श्ग्स्_2.1.9: अत.ऊर्ध्वम्.पतित.सावित्रीका.भवन्ति ।
श्ग्स्_2.1.10: न.एनान्.उपनयेयुः ।
श्ग्स्_2.1.11: न.अध्यापयेयुः ।
श्ग्स्_2.1.12: न.याजयेयुः ।
श्ग्स्_2.1.13: न.एभिर्.व्यवहरेयुः ।
श्ग्स्_2.1.14: अहतेन.वा.सर्वान्.मेखलिनः ।
श्ग्स्_2.1.15: मौञ्जी.मेखला.ब्राह्मणस्य ।
श्ग्स्_2.1.16: धनुर्.ज्या.क्षत्रियस्य ।
श्ग्स्_2.1.17: ऊर्णा.सूत्री.वैश्यस्य ।
श्ग्स्_2.1.18: पालाशो.बैल्वो.वा.दण्डो.ब्राह्मणस्य ।
श्ग्स्_2.1.19: नैयग्रोधः.क्षत्रियस्य ।
श्ग्स्_2.1.20: औदुम्बरो.वैश्यस्य ।
श्ग्स्_2.1.21: प्राण.सम्मितो.ब्राह्मणस्य ।
श्ग्स्_2.1.22: ललाट.सम्मितः.क्षत्रियस्य ।
श्ग्स्_2.1.23: केश.सम्मितो.वैश्यस्य ।
श्ग्स्_2.1.24: सर्वे.वा.सर्वेषाम् ।
श्ग्स्_2.1.25: येन.अबद्धेन.उपनयेत.आचार्य.अधीनम्.तत् ।
श्ग्स्_2.1.26: परिवाप्य.उपनेयः.स्यात् ।
श्ग्स्_2.1.27: आप्लुत्य.अलम्.कृत्य ।
श्ग्स्_2.1.28: हुत्वा.जघनेन.अग्निम्.तिष्ठतः.प्रान्.मुख.आचार्यः.प्रत्यन्.मुख.इतरः ।
श्ग्स्_2.1.29: तिष्ठंस्.तिष्ठन्तम्.उपनयेत् ।
श्ग्स्_2.1.30: मित्रस्य.चक्षुर्.धरुणम्.बलीयस्.तेजो.यशस्वि.स्थविरम्.समृद्धम्.।.अनाहनस्यम्.वसनम्.चरिष्णु.परि.इदम्.वाज्य्.अजिनम्.दधे.अहम् ।
श्ग्स्_2.2.1: इयम्.दुरुक्तात्.परिबाधमाना.वर्णम्.पवित्रम्.पुनती.न.आगात्.।.प्राण.अपानाभ्याम्.बलम्.आविशन्ती.सखा.देवी.सुभगा.मेखला.इयम्.इति.।.त्रिर्.मेखलाम्.प्रदक्षिणम्.त्रिः.परिवेष्ट्य.
श्ग्स्_2.2.2: ग्रन्थिर्.एकस्.त्रयो.अपि.वा.अपि.वा.पञ्च ।
श्ग्स्_2.2.3: यज्ञ.उपवीतम्.कृत्वा.<.यज्ञ.उपवीतम्.असि.यज्ञस्य.त्वा.उपवीतेन.उप.नह्यामि>.इति ।
श्ग्स्_2.2.4: अञ्जली.पूरयित्वा.अथ.एनम्.आह.<.को.नाम.असि>.इति ।
श्ग्स्_2.2.5: <.असाव्.अहम्.भो>.इति.इतरः ।
श्ग्स्_2.2.6: <.समान.आर्षेय>.इत्य्.आचार्यः ।
श्ग्स्_2.2.7: <.समान.आर्षेयो.अहम्.भो>.इति.इतरः ।
श्ग्स्_2.2.8: <.ब्रह्म.चारी.भवन.ब्रूहि>.इति ।
श्ग्स्_2.2.9: <.ब्रह्म.चार्य्.अहम्.भो>.इति.इतरः ।
श्ग्स्_2.2.10: <.भूर्.भुवः.स्वर्>.इति.अस्या.अञ्जलाव्.अञ्जलींस्.त्रीन्.आसिच्य ।
श्ग्स्_2.2.11: दक्षिण.उत्तराभ्याम्.पाणिभ्याम्.पाणी.संगृह्य.जपति ।
श्ग्स्_2.2.12: <.देवस्य.त्वा.सवितुः.प्रसवे.अश्विनोर्.बाहुभ्याम्.पूष्णो.हस्ताभ्याम्.उपनयाम्य्.असाव्>.इति ।
श्ग्स्_2.2.13: <.गणानाम्.त्वा>.इति.गण.कामान् ।
श्ग्स्_2.2.14: <.गा.गन्ता.मा.रिषण्यत>.इति.योधान् ।
श्ग्स्_2.2.15: महा.व्याहृतिभिर्.व्याधितान् ।
श्ग्स्_2.3.1अ: भगस्.ते.हस्तम्.अग्रभीत्.सविता.हस्तम्.अग्रभीत्.।.पूषा.ते.हस्तम्.अग्रभीद्.अर्यमा.हस्तम्.अग्रभीत्.।.मित्रस्.त्वम्.असि.धर्मणा.अग्निर्.आचार्यस्.तव ।
श्ग्स्_2.3.1ब्: असाव्.अहम्.च.उभौ.अग्न.एतम्.ते.ब्रह्म.चारिणम्.परि.ददामि.इन्द्र.एतम्.ते.ब्रह्म.चारिणम्.परि.ददामि.आदित्य.एतम्.ते.ब्रह्म.चारिणम्.परि.ददामि.विश्वे.देवा.एतम्.वो.ब्रह्म.चारिणम्.परि.ददामि.दीर्घ.आयुत्वाय.सुप्रजास्त्वाय.सुवीर्याय.रायस्.पोषाय.सर्वेषाम्.वेदानाम्.आधिपत्याय.सुश्लोक्याय.स्वस्तये ।
श्ग्स्_2.3.2: <.ऐन्द्रीम्.आवृतम्.आवर्त.आदित्यस्य.आवृतम्.अन्वावर्त>.इति.दक्षिणम्.बाहुम्.अन्वावृत्य ।
श्ग्स्_2.3.3: दक्षिणेन.प्रादेशेन.दक्षिणम्.अंसम्.अन्ववहृत्य.<.अरिष्यतस्.ते.हृदयस्य.प्रियो.भूयासम्>.इति.हृदय.देशम्.अभिमृशति ।
श्ग्स्_2.3.4: तूष्णीम्.प्रसव्यम्.पर्यावृत्य ।
श्ग्स्_2.3.5: अथ.अस्य.ऊर्ध्व.अङ्गुलिम्.पाणिम्.हृदये.निधाय.जपति ।
श्ग्स्_2.4.1: मम.व्रते.हृदयम्.ते.दधामि.मम.चित्तम्.अनु.चित्तम्.ते.अस्तु.।.मम.वाचम्.एक.मना.जुषस्व.बृहस्पतिष्ट्.त्वा.नियुनक्तु.मह्याम्.अति ।
श्ग्स्_2.4.2: कामस्य.ब्रह्म.चर्यस्य.असाव्.इति ।
श्ग्स्_2.4.3: तेन.एव.मन्त्रेण.तथा.एव.पर्यावृत्य ।
श्ग्स्_2.4.4: दक्षिणेन.प्रादेशेन.दक्षिणम्.अंसम्.अन्वारभ्य.जपति ।
श्ग्स्_2.4.5: <.ब्रह्म.चार्य्.असि.समिधम्.आ.धेहि.अपो.अशान.कर्म.कुरु.मा.दिवा.सुषुप्थाः.वाचम्.यच्छ.आ.समिद्.आधानात् ।
श्ग्स्_2.4.6: <.एषा.ते.अग्ने.समिद्>.इति.अभ्यादधाति.समिधम्.तूष्णीम्.वा ।
श्ग्स्_2.5.0: अथ.सावित्र.अनुवचनम् ।
श्ग्स्_2.5.1: संवत्सरे.सावित्रीम्.अन्वाह ।
श्ग्स्_2.5.2: त्रिरात्रे ।
श्ग्स्_2.5.3: अन्वक्षम्.वा ।
श्ग्स्_2.5.4: गायत्रीम्.ब्राह्मणाय.अनुब्रूयात् ।
श्ग्स्_2.5.5: त्रिष्टुभम्.क्षत्रियाअय ।
श्ग्स्_2.5.6: जगतीम्.वैश्याय ।
श्ग्स्_2.5.7: सावित्रीम्.त्व्.एव ।
श्ग्स्_2.5.8: उत्तरेण.अग्निम्.उपविशतः ।
श्ग्स्_2.5.9: प्रान्.मुख.आचार्यः.प्रत्यन्.मुख.इतरः ।
श्ग्स्_2.5.10: <.अधीहि.भो>.इति.उक्त्वा ।
श्ग्स्_2.5.11: आचार्य.ओम्.कारम्.प्रयुज्य.अथ.इतरम्.वाचयति.<.सावित्री.भो.अनुब्रूहि>.इति ।
श्ग्स्_2.5.12: अथ.अस्मै.सावित्रीम्.अन्वाह.<.तत्.सवितुर्.वरेण्यम्>.इति.एताम्.पच्चो.अर्धर्चशो.अनवानम् ।
श्ग्स्_2.6.0: अथ.व्रतानि ।
श्ग्स्_2.6.1: आपो.नाम.स्थ.शिवा.नाम.स्थ.।.ऊर्जा.नाम.स्थ.अजरा.नाम.स्थ.।.अभया.नाम.स्थ.अमृता.नाम.स्थ.।.<.तासाम्.वो.अशीय.सुमतौ.मा.धत्त>.इति.एवम्.त्रिर्.अप.आचामय्य ।
श्ग्स्_2.6.2: <.स्वस्ति.नो.मिमीताम्>.इति.पञ्चर्चेन.दण्डम्.प्रयच्छति ।
श्ग्स्_2.6.3: वरो.दक्षिणा ।
श्ग्स्_2.6.4: प्रदक्षिणम्.अग्निम्.पर्याणीय.भिक्षते.ग्रामम् ।
श्ग्स्_2.6.5: मातरम्.त्व्.एव.प्रथमाम् ।
श्ग्स्_2.6.6: या.वा.एनम्.न.प्रत्याचक्षीत ।
श्ग्स्_2.6.7: आचार्याय.भैक्ष्यम्.निवेदयित्वा.अनुज्ञातो.गुरुणा.भुञ्जीत ।
श्ग्स्_2.6.8: अहर्.अहः.समिद्.आधानम्.भिक्षा.चरणम्.अधः.शय्या.गुरु.शुश्रूषा.इति.ब्रह्म.चारिणो.नित्यानि ।
श्ग्स्_2.7.0: अथ.अनुवचनम् ।
श्ग्स्_2.7.1: अथ.अनुवाचनस्य ।
श्ग्स्_2.7.2: अग्नेर्.उत्तरत.उपविशतः ।
श्ग्स्_2.7.3: प्रान्.मुख.आचार्यः.प्रत्यन्.मुख.इतरः ।
श्ग्स्_2.7.4: अभिवाद्य.पादाव्.आचार्यस्य.पाणी.प्रक्षाल्य ।
श्ग्स्_2.7.5: दक्षिणेन.जानुना.आक्रम्य.मूले.कुश.त्रुणान् ।
श्ग्स्_2.7.6: दक्षिण.उत्तराभ्याम्.पाणिभ्याम्.मध्ये.परिगृह्य ।
श्ग्स्_2.7.7: तान्त्.सव्येन.आचार्यो.अग्रे.संगृह्य.दक्षिणेन.अद्भिः.परिषिञ्चन्न्.अथ.इतरम्.वाचयति ।
श्ग्स्_2.7.8: <.सावित्रीम्.भो.अनुब्रूनि>.इति.इतरः ।
श्ग्स्_2.7.9: <.सावित्रीम्.ते.अनुब्रवीमि>.इति.आचार्यः ।
श्ग्स्_2.7.10: <.गायत्रीम्.भो.अनुब्रूहि>.इति.इतरः.<.गायत्रीम्.ते.अनुब्रवीमि>.इति.आचार्यः ।
श्ग्स्_2.7.11: <.वैश्वामित्रीम्.भो.अनुब्रूहि>.इति.इतरः.<.वैश्वामित्रीम्.(.वैश्वानरीम्.).ते.अनुब्रवीमि>.इति.आचार्यः ।
श्ग्स्_2.7.12: <.ऋषीन्.भो.अनुब्रूहि>.इति.इतरः.<.देवतास्.ते.अनुब्रवीमि>.इति.आचार्यः ।
श्ग्स्_2.7.13: <.देवता.भो.अनुब्रूहि>.इति.इतरः.<.देवतास्.ते.अनुब्रवीमि>.इति.आचार्यः ।
श्ग्स्_2.7.14: <.छन्दांसि.भो.अनुब्रूहि>.इति.इतरः.<.छन्दांसि.ते.अनुब्रवीमि>.इति.आचार्यः ।
श्ग्स्_2.7.15: <.श्रुतिम्.भो.अनुब्रूहि>.इति.इतरः.<.श्रुतिम्.ते.अनुब्रवीमि>.इति.आचार्यः ।
श्ग्स्_2.7.16: <.स्मृतिम्.भो.अनुब्रूहि>.इति.इतरः.<.स्मृतिम्.ए.अनुब्रवीमि>.इति.आचार्यः ।
श्ग्स्_2.7.17: <.श्रद्धा.मेधे.भो.अनुब्रूहि>.इति.इतरः.<.श्रद्धा.मेधे.अनुब्रवीमि>.इति.आचार्यः ।
श्ग्स्_2.7.18: एवम्.एवम्.ऋषेर्.यस्य.यस्य.यो.यो.मन्त्रो.यद्.देवत्यो.यच्.छन्दाश्.च.तथा.तथा.तम्.तम्.मन्त्रम्.अनुब्रूयात् ।
श्ग्स्_2.7.19: अपि.वा.अविन्दन्न्.ऋषि.दैवत.छन्दांसि.<.तत्.सवितुर्.वरेण्यम्>.इति.एताम्.पच्छो.अर्धर्चशो.अनवानम्.इत्य्.एषा.इति.समाप्त.आह.आचार्यः ।
श्ग्स्_2.7.20: एवम्.एक.एकम्.ऋषिम्.अनुवाकम्.वा.अनुब्रूयात् ।
श्ग्स्_2.7.21: क्षुद्र.सूक्तेष्व्.अनुवाकम् ।
श्ग्स्_2.7.22: यावद्.वा.गुरुर्.मन्येत ।
श्ग्स्_2.7.23: आद्य.उत्तमे.कामम्.सूक्ते.वा.अनुब्रूयाद्.ऋषेः ।
श्ग्स्_2.7.24: अनुवाकस्य.वा ।
श्ग्स्_2.7.25: एक.एकाम्.सूक्त.आदाव्.इति ।
श्ग्स्_2.7.26: एषा.प्रभृतिर्.इति.कामम्.सूक्त.आदाव्.आचार्य.इति ।
श्ग्स्_2.7.27: एतद्.ऋषि.स्वाध्याये.व्याख्यातम् ।
श्ग्स्_2.7.28: समाप्ते.कुश.तरुणान्.आदाय.अनडुहेन.मूले.कुण्डम्.कृत्वा.यथा.सूक्तम्.कुशेष्व्.अपो.निषिञ्चति ।
श्ग्स्_2.7.29: अहः.शेषम्.स्थानम्.उपवासश्.च ।
श्ग्स्_2.8.1: अपर.अह्णे.अक्षत.धाना.भिक्षित्वा.आज्य.आहुति.धर्मेण.अग्नौ.पाणिना.जुहुयात्.<.सदसस्.अप्तिम्.अद्भुतम्>.इति.प्रत्यृचम्.सूक्त.शेषेण ।
श्ग्स्_2.8.2: भक्षैर्.आचार्यम्.स्वस्ति.वाच्य ।
श्ग्स्_2.9.0: अथ.संध्या.उपासन.कर्म ।
श्ग्स्_2.9.1: अरण्ये.समित्.पाणिः.संध्याम्.आस्ते.नित्यम्.वाग्.यत.उत्तर.अपर.अभिमुखो.अन्वष्टमदेशम्.आ.नक्षत्राणाम्.दर्शनात् ।
श्ग्स्_2.9.2: अतिक्रान्तायाम्.महा.व्याहृतीः.सावित्रीम्.स्वस्त्ययनानि.च.जपित्वा ।
श्ग्स्_2.9.3: एवम्.प्रातः.प्रान्.मुखस्.तिष्ठन्न्.आ.मण्डल.दर्शनात् ।
श्ग्स्_2.10.0: अथ.अग्नि.कार्यम् ।
श्ग्स्_2.10.1: उदिते.प्राध्ययनम् ।
श्ग्स्_2.10.2: अहर्.अहः.सायम्.प्रातः ।
श्ग्स्_2.10.3: अग्निम्.उपसमाधाय.परिसमुह्य.पर्युक्ष्य.दक्षिणम्.जान्व्.आच्य.(?) ।
श्ग्स्_2.10.4: अग्नये.समिधम्.अहार्षम्.बृहते.जात.वेदसे.।.स.मे.श्रद्धाम्.च.मेधाम्.च.जात.वेदा.प्रयच्छतु.स्वाहा.।.एधो.अस्य्.एधिषीमहि.समद्.असि.तेजो.असि.तेजो.मयि.धेहि.स्वाहा.।समिद्धो.माम्.समर्धय.प्रजया.च.धनेन.च.स्वाहा.॥.एषा.ते.अग्ने.समित्.तया.वर्धस्व.च.आ.च.प्यायस्व.।.वर्धिषीमहि.च.वयम्.आ.च.प्यासिषीमहि.स्वाहा.इति ।
श्ग्स्_2.10.5: अथ.पर्युक्ष्य ।
श्ग्स्_2.10.6: अग्निः.श्रद्धाम्.च.मेधाम्.च.अविनिपातम्.स्मृतिम्.च.मे.।.ईलितो.जात.वेदा.अयम्.शुनम्.नः.प्रयछत्व्.इत्य्णग्निम्.उपतिष्ठते ।
श्ग्स्_2.10.7: (.सौपर्ण.व्रत.भाषितम्.दृष्टम्.वृद्ध.सम्प्रदाय.अनुष्ठितम्.त्र्यायुषम्.पञ्चभिर्.मन्त्रैः.प्रतिमन्त्रम्.ललाटे.हृदये.दक्षिण.स्कन्धे.वामे.च.ततः.पृष्ठे.च.पञ्चसु.भस्मना.त्रिपुण्ढ्रम्.करोतो.)।
श्ग्स्_2.10.8: स.एतेषाम्.वेदानाम्.एकम्.द्वौ.त्रीन्.सर्वान्.वा.अधीते.य.एवम्.हुत्वा.अग्निम्.उपतिष्ठते ।
श्ग्स्_2.11.0: अथ.शुक्रिय.व्रत.कर्म ।
श्ग्स्_2.11.1: अथ.व्रत.आदेशनम् ।
श्ग्स्_2.11.2: तस्य.उपनयनेन.कल्पो.व्याख्यातः ।
श्ग्स्_2.11.3: न.सावित्रीम्.अन्वाह ।
श्ग्स्_2.11.4: दण्ड.प्रदान.अन्तम्.इत्य्.एके ।
श्ग्स्_2.11.5: उदग्.अयने.शुक्ल.पक्षे ।
श्ग्स्_2.11.6: होतारम्.ब्रह्मचर्यम्.उपेत्य.आचार्यो.अमांस.आशी.(.ब्रह्म.चारी.) ।
श्ग्स्_2.11.7: चतुर्दशीम्.परिहाप्य.अष्टमीम्.च ।
श्ग्स्_2.11.8: आद्य.उत्तमे.च.एके ।
श्ग्स्_2.11.9: याम्.वा.अन्याम्.भप्रशस्ताम्.मन्येत.तस्याम्.शुक्रिये.ब्रह्मचर्यम्.आदिशेत् ।
श्ग्स्_2.11.10: त्रिरात्रम्.ब्रह्मचर्यम्.चरेद्.द्वादश.रात्रम्.संवत्सरम्.वा.यावद्.वा.गुरुर्.मन्येत ।
श्ग्स्_2.11.11: शाक्वरम्.तु.संवत्सरम् ।
श्ग्स्_2.11.12: व्रातिकम्.औपनिषधम्.च ।
श्ग्स्_2.11.13: पूर्णे.काले.चरिते.ब्रह्मचर्ये.शम्योर्.बार्हस्पत्य.अन्ते.वेदे.अनूक्ते.रहस्यम्.श्रावयिष्यन्.काल.नियमम्.च.आदेशेन.प्रतीयेत ।
श्ग्स्_2.12.0: अथ.उदीक्षणिका ।
श्ग्स्_2.12.1: कृत.प्रातर्.आशस्य.अपर.अह्णे.अपराजितायाम्.दिशि ।
श्ग्स्_2.12.2: हुत्वा.आचार्यो.अथ.एनम्.यास्व्.एव.देवतासु.परीत्तो.भवति.तास्व्.एव.एनम्.पृछत्य्.<.अग्नाव्.इन्द्र.आदित्ये.विश्वेषु.च.देवेषु>.चरितम्.ते.ब्रह्मचर्यम् ।
श्ग्स्_2.12.3: चरितम्.भो.इति.प्रत्युक्ते ।
श्ग्स्_2.12.4: पश्चाद्.अग्नेः.पुरस्ताद्.आचार्यस्य.प्रान्.मुखे.स्थिते.अहतेन.वाससा.आचार्यः.प्रदक्षिणम्.मुखम्.त्रिः.परिवेष्ट्य ।
श्ग्स्_2.12.5: उपरिष्टाद्.दशाः.कृत्वा.यथा.न.सम्भ्रश्येत ।
श्ग्स्_2.12.6: त्रिरात्रम्.समिद्.आधानम्.भिक्षा.चरणम्.अधः.शय्याम्.गुरु.शुश्रूषाम्.च.आकुर्वन्.(?).वाग्.यतो.अप्रमत्तो.अरण्ये.देव.कुले.अग्नि.होत्रे.वो.अपवसस्व.इति ।
श्ग्स्_2.12.7: अत्र.ह.एके.तान्.एव.नियमांस्.तिष्ठतो.रात्र्याम्.एव.उपदिशन्ति ।
श्ग्स्_2.12.8: आचार्यो.अमांस.आशी.ब्रह्म.चारी ।
श्ग्स्_2.12.9: त्रिरात्रे.निर्वृत्ते.रार्याम्.वा.ग्रामान्.निष्क्रामन्.न.एतान्.ईक्षेत.अनध्यायान् ।
श्ग्स्_2.12.10: पिशितामम्.चण्डालम्.सूतिकाम्.रजस्वलाम्.तेदनिम्.अपहस्तकान्.श्मशानम्.सर्वाणि.च.शव.रूपाणि.यान्य्.आस्ये.न.प्रविशेयुः.स्वस्य.वासान्.निरसन् ।
श्ग्स्_2.12.11: प्राग्.उदीचीम्.दिशम्.उपनिष्क्रम्य.शुचौ.देशे.प्रान्.मुख.आचार्य.उपविशत्य् ।
श्ग्स्_2.12.12: उदित.आदित्ये.अनुवाचन.धर्मेण.वाग्.यताय.उष्णीषिणे.अन्वाह ।
श्ग्स्_2.12.13: महानाम्नीष्व्.एव.एष.नियमः ।
श्ग्स्_2.12.14: अथ.उत्तरेषु.प्रकरणेषु.स्वाध्यायम्.एव.कुर्वत.आचार्यस्य.इतरः.शृणोति ।
श्ग्स्_2.12.15: उष्णीषम्.भाजनम्.दक्षिणाम्.गाम्.ददाति ।
श्ग्स्_2.12.16: त्वम्.तम्.इत्य्.उच्चा.दिवि.इति.च.प्रणवेन.वा.सर्वम् ।
श्ग्स्_2.12.17: अत्र.ह.एके.वैश्वदेवम्.चरुम्.कुर्वते.सर्वेषु.प्रकरणेषु ।
श्ग्स्_2.12.18: यथा.परीत्तम्.इति.माण्डूकेयः ।
श्ग्स्_2.13.0: अथ.दण्ड.नियमाः ।
श्ग्स्_2.13.1: अथ.अतो.दण्ड.नियमाः ।
श्ग्स्_2.13.2: न.अन्तरा.गमनम्.कुर्याद्.आत्मनो.दण्डस्य ।
श्ग्स्_2.13.3: अथ.चेद्.दण्ड.मेखल.उपवीतानाम्.अन्यतमम्.विशीर्येत.छिद्येत.वा.तस्य.तत्.प्रायश्.चित्तम्.यद्.उद्वाहे.रथस्य ।
श्ग्स्_2.13.4: मेखला.चेद्.असंधेया.भवत्य्.अन्याम्.कृत्वा.अनुमन्त्रयते ।
श्ग्स्_2.13.5: मेध्य.अमेध्य.विभागज्ञे.देवि.गोप्त्रि.सरस्वति.।.मेखले.अस्कन्नम्.अछिन्नम्.संतनुष्व.व्रतम्.मम.त्वम्.अग्ने.व्रतभृत्.शुचिर्.अग्ने.देवान्.इह.आवह.।.उप.यज्ञम्.हविश्.च.नः.व्रतानि.बिभ्रद्.व्रतपा.अदाभ्यो.भवा.नो.दूतो.अजरः.सुवीरः.।.दधद्.रत्नानि.सुमृलीको.अग्ने.गोपाय.नो.जीवसे.जात.वेद.इति ।
श्ग्स्_2.13.6: उपवीतम्.च.दण्डे.बध्नाति ।
श्ग्स्_2.13.7: तद्.अप्य्.एतत् ।
श्ग्स्_2.13.8: यज्ञ.उपवीतम्.दण्डम्.च.मेखलाम्.अजिनम्.तथा.।.जुहुयाद्.अप्सु.व्रते.पूर्णे.वारुण्या.ऋचा.रसेन.वा ।
श्ग्स्_2.14.0: अथ.वैश्वदेव.कर्म ।
श्ग्स्_2.14.1: अथ.वैश्वदेवः ।
श्ग्स्_2.14.2: व्याख्यातो.होम.कल्पः ।
श्ग्स्_2.14.3: वैश्वदेवस्य.सिद्धस्य.सायम्.प्रातर्.गृह्ये.अग्नौ.जुह्यात् ।
श्ग्स्_2.14.4: अग्नये.स्वाहा.सोमाय.स्वाहा.इन्द्र.अग्निभ्याम्.स्वाहा.विष्णवे.स्वाहा.भरद्वाज.धन्वन्तरये.स्वाहा.विश्वेभ्यो.देवेभ्यः.स्वाहा.प्रजापतये.स्वाहा.अदितये.स्वाहा.अनुमतये.स्वाहा.अग्नये.स्विष्टकृते.स्वाहा.इति.हुत्वा.एतासाम्.देवतानाम् ।
श्ग्स्_2.14.5: अथ.वास्तु.मध्ये.बलिम्.हरेद्.एताभ्यश्.च.एव.देवताभ्यो.नमो.ब्रह्मणे.ब्राह्मणेभ्यश्.च.वास्तोष्.पते.प्रति.जानीह्य्.अस्मान्.इति.वास्तु.मध्ये.वास्तोष्.पतये.च ।
श्ग्स्_2.14.6: अथ.दिशाम्.प्रदक्षिणम्.यथा.रूपम्.बलिम्.हरति ।
श्ग्स्_2.14.7: नाम.इन्द्राय.ऐन्द्रेभ्यश्.च.नमो.यमाय.याम्येभ्यश्.च.नमो.वरुणाय.वारुणेभ्यश्.च.नमः.सोमाय.सौम्येभ्यश्.च.नमो.बृहस्पतये.बार्हस्पत्येभ्यश्.च ।
श्ग्स्_2.14.8: अथ.आदित्य.मण्डले.नमो.अदितय.आदित्येभ्यश्.च.नमो.नक्षत्रेभ्य.ऋतुभ्यो.मासेभ्यो.अर्ध.मासेभ्यो.अहोरात्रेभ्यः.संवत्सरेभ्यः ।
श्ग्स्_2.14.9: पूष्णे.पथिकृते.धात्रे.विधात्रे.मरुद्भ्यश्.च.इति.देहलीषु ।
श्ग्स्_2.14.10: विष्णवे.दृषदि ।
श्ग्स्_2.14.11: वनस्पतय.इत्य्.उलूखल ।
श्ग्स्_2.14.12: ओषधीभ्य.इति.ओषधीनाम्.स्थाने ।
श्ग्स्_2.14.13: पर्जन्याय.अद्भ्य.इति.मणिके ।
श्ग्स्_2.14.14: नमः.श्रियौ.शय्यायाम्.शिरसि.पादतो.भद्र.काल्या ।
श्ग्स्_2.14.15: अनुगुप्ते.देशे.नमः.सर्व.अन्न.भूतये ।
श्ग्स्_2.14.16: अथ.अन्तरिक्षे.नक्तम्.चरेभ्य.इति.सायम्.अहश्.चरेभ्य.इति.प्रातर्.ये.देवास.इति.च ।
श्ग्स्_2.14.17: अविज्ञाताभ्यो.देवताभ्य.उत्तरतो.धन.पतये.च ।
श्ग्स्_2.14.18: प्राचीन.आवीती.दक्षिणतः.शेषम्.निनयति.ये.अग्नि.दग्धा.इति ।
श्ग्स्_2.14.19: देव.पितृ.नरेभ्यो.दत्त्वा.श्रोत्रियम्.भोजयेद् ।
श्ग्स्_2.14.20: ब्रह्म.चारिणे.वा.भिक्षाम्.दद्याद् ।
श्ग्स्_2.14.21: अनन्तरम्.सौवासिनीम्.गर्भिणीम्.कुमारान्.स्थविरांश्.च.भोजयेत् ।
श्ग्स्_2.14.22: श्वभ्यः.श्वपचेभ्यश्.च.वयोभ्यश्.च.आवपेद्.भूवौ ।
श्ग्स्_2.14.23: इति.न.अनवत्तम्.अश्नीयात् ।
श्ग्स्_2.14.24: न.एकः ।
श्ग्स्_2.14.25: न.पूर्वम् ।
श्ग्स्_2.14.26: तद्.अप्य्.एतद्.ऋचो.अक्तम्.<.मोघम्.अन्नम्.विन्दते.अप्रचेता>.इति ।
श्ग्स्_2.15.0: अथ.षडर्घण.कर्म ।
श्ग्स्_2.15.1: षण्णाम्.चेद्.अर्घ्याणाम्.अन्यतम.आगछेद्.गो.पशुम्.अजम्.अन्नम्.वा.यत्.सामान्यतमम्.मन्येत.तत्.कुर्यात् ।
श्ग्स्_2.15.2: न.अमांसो.अर्घः.स्याद् ।
श्ग्स्_2.15.3: अधियज्ञम्.अधिविवाहम्.कुरुत.इत्य्.एव.ब्रूयात् ।
श्ग्स्_2.15.4: आचार्याय.आग्नेयः ।
श्ग्स्_2.15.5: ऋत्विजे.बार्हस्पत्यः ।
श्ग्स्_2.15.6: वैवाह्याया.प्राजापत्यः ।
श्ग्स्_2.15.7: राज्ञ.ऐन्द्रः ।
श्ग्स्_2.15.8: प्रियाय.मैत्रः ।
श्ग्स्_2.15.9: स्नातकाय.ऐन्द्राग्नः ।
श्ग्स्_2.15.10: यद्य्.अप्य्.असकृत्.संवत्सरस्य.सोमेन.यजेत.कृत.अर्घ्या.एव.एनम्.याजयेयुर्.न.अकृत.अर्घ्याः ।
श्ग्स्_2.15.11: तद्.अपि.भवति ।
श्ग्स्_2.16.0: अथ.पशु.कर्म ।
श्ग्स्_2.16.1: मधु.पर्के.च.सोमे.च.पितृ.दैवत.क्र्मणि.।.अत्र.एव.पशवो.हिंस्या.न.अन्यत्र.इत्य्.अब्रवीन्.मनुः ।
श्ग्स्_2.16.2: आचार्यश्.च.पिता.च.उभौ.सखा.च.अनतिथिर्.गृहे.।.ते.यद्.विदध्युस्.तत्.कुर्याद्.इति.धर्मो.विधीयते ।
श्ग्स्_2.16.3: न.एक.ग्रामीणम्.अतिथिम्.विप्रोष्य.आगतम्.एव.च.।.उपस्थितम्.गृहे.विद्याद्.भार्या.यत्र.अग्नयो.अपि.वा ।
श्ग्स्_2.16.4: अग्नि.होत्रम्.बलि.वर्दाः.काले.च.अतिथिर्.आगतः.।.बालाश्.च.कुल.वृद्धाश्.च.निर्दहन्त्य्.अपमानिताः ।
श्ग्स्_2.16.5: अनड्वान्.अग्नि.होत्रम्.च.ब्रह्म.चारी.च.ते.त्रयः.।.अश्नन्त.एव.सिध्यन्ति.न.एषाम्.सिद्धिर्.अनश्नताम् ।
श्ग्स्_2.16.6: देवताः.पुरुषम्.गृह्या.अहर्.अहर्.गृह.मेधिनम्.।.भाग.अर्थम्.उपसर्पन्ति.ताभ्यो.निर्वप्तुम्.अर्हति ।
श्ग्स्_2.17.0: अथ.अतिथि.कर्म ।
श्ग्स्_2.17.1: तृणान्य्.अप्य्.उञ्छतो.नित्यम्.अग्नि.होत्रम्.च.जुह्वतः.।.सर्वम्.सुकृतम्.आदत्ते.ब्राह्मणो.अनर्चितो.वसन् ।
श्ग्स्_2.17.2: आ.उद.पात्रात्.तु.दातव्यम्.आ.काष्ठाज्.जुहुयाद्.अपि.आ.सूक्ताद्.आ.अनुवाकाद्.वा.ब्रह्म.यज्ञो.विधीयते ।
श्ग्स्_2.17.3: न.उपवासः.प्रवासे.स्यात्.पत्नी.धारयते.व्रतम्.।.पुत्रो.भ्राता.अथवा.पत्नी.शिष्यो.वा.अस्य.बलिम्.हरेत् ।
श्ग्स्_2.17.4: वैश्वदेवम्.इमम्.ये.तु.सायम्.प्रातः.प्रकुर्वते.।.ते.अर्थैर्.आयुषा.कीर्त्या.प्रजाभिश्.च.समृध्नुयुर्.इति ।
श्ग्स्_2.18.0: अथ.प्रवत्स्यद्.ब्रह्म.चारि.कर्म ।
श्ग्स्_2.18.1: ब्रह्म.चारी.प्रवत्स्यन्न्.आचार्यम्.आमन्त्रयते ।
श्ग्स्_2.18.2: प्राण.अपानयोर्.इत्य्.उपांश्व्.ओम्.अहम्.वत्स्यामि.भो.इति.उच्चैः ।
श्ग्स्_2.18.3: प्राण.अपाना.उरुव्यचस्.त्वया.प्र.पद्ये.देवाय.त्वा.गोप्त्रे.परि.ददामि.देव.सवितर्.एष.ते.ब्रह्म.चारी.तम्.ते.परि.ददामि.तम्.गोपायस्व.तम्.मा.मृध.इत्य्.उपांशु ।
श्ग्स्_2.18.4: ओम्.स्वस्ति.इत्य्.उच्चैर्.आचार्यः.स्वस्ति.इत्य्.उच्चैर्.आचार्यः ।
श्ग्स्_3.1.0: अथ.समावर्तनम् ।
श्ग्स्_3.1.1: स्नानम्.समावर्त्स्यमानस्य ।
श्ग्स्_3.1.2: अनड्दुहम्.इत्य्.उक्तम्.तस्मिन्न्.उपवेश्य.केश.श्मश्रूणि.वापयति.लोम.नखानि.च ।
श्ग्स्_3.1.3: व्रीहि.यवैस्.तिल.सर्षपैर्.अपामार्गैः.सदा.उप्ष्पीभिर्.इत्य्.उद्वाप्य ।
श्ग्स्_3.1.4: आपोहिष्ठीयेन.अभिषिच्य ।
(.आपो.हि.ष्ठ.)
श्ग्स्_3.1.5: अलम्.कृत्य ।
श्ग्स्_3.1.6: <.युवम्.वस्त्राणि>.इति.वाससी.परिधाय ।
श्ग्स्_3.1.7: अथ.अस्मै.निष्कम्.बध्नात्य्.<.आयुष्यम्.वर्चस्यम्> ।
श्ग्स्_3.1.8: <.मम.अग्ने.वर्च>.इति.वेष्टनम् ।
श्ग्स्_3.1.9: <.गृहम्.गृहम्.अहना>.इतिण्छत्रम् ।
श्ग्स्_3.1.10: <.आ.रोहत>.इत्य्.उपानहौ ।
श्ग्स्_3.1.11: <.दीर्घस्.ते.अस्त्व्.अङ्कुश>.इति.वैणवम्.दण्डम्.आदत्ते ।
श्ग्स्_3.1.12: प्रतिलीनस्.तद्.अहर्.आसीत ।
श्ग्स्_3.1.13: <.वनस्पते.वीड्वङ्गः>.<.शास.इत्था>.इति.रथम्.आरोहेद् ।
श्ग्स्_3.1.14: यत्र.एनम्.गवा.वा.पशुना.वा.अर्हयेयुस्.तत्.पूर्वम्.उपतिष्ठेत ।
श्ग्स्_3.1.15: गोभ्यो.वा.समावर्तेत.फलवतो.वा.वृक्षाद् ।
श्ग्स्_3.1.16: <.इन्द्र.श्रेष्ठानि.द्रविणानि.धेहि>.<.स्योना.पृथिवि.भव>.इत्य्.अवरोहति ।
श्ग्स्_3.1.17: ईप्सितम्.अन्नम्.तद्.अहर्.भुञ्जीत ।
श्ग्स्_3.1.18: आचार्याय.वस्त्र.युगम्.दद्याद्.उष्णीषम्.मणि.कुण्डलम्.दण्ड.उपानहम्.छत्रम्.च ।
श्ग्स्_3.2.0: अथ.गृह.कर्म ।
श्ग्स्_3.2.1: अगारम्.कारयिष्यन्न्.इह.अन्न.अद्याय.विशः.परि.गृह्णामि.इत्य्.उदुम्बर.शाखया.त्रिः.परिलिख्य.मध्ये.स्थण्डिले.जुहोति ।
श्ग्स्_3.2.2: को.अस्य्.कस्य.असि.काय.ते.ग्राम.कामो.जुहोति.स्वाहा.अस्याम्.देवानाम्.असि.भाग.धेयम्.इतः.प्रजाताः.पितरः.परेताः.।.विराल्.अजुह्वद्.ग्राम.कामो.न.देवानाम्.किंचन.अन्तरेण.स्वाहा.इति ।
श्ग्स्_3.2.3: स्थू.न.आगर्तान्.खानयित्वा ।
श्ग्स्_3.2.4: उद.मन्थान्.आसिच्य ।
श्ग्स्_3.2.5: इमम्.वि.मिन्वे.अमृतस्य.शाखाम्.मधोर्.धाराम्.प्रतरणीम्.वसूनाम्.।.एनाम्.शिशुः.क्रन्दत्य्.आ.कुमार.एनाम्.धेनुः.क्रन्दतु.नित्य.वत्स>.इत्य्.उदुम्बर.शाखाम्.घृतेन.अक्ताम्.दक्षिणे.द्वार्ये.गर्ते.निदधाति ।
श्ग्स्_3.2.6: इमम्.उच्.छ्रयामि.भुवनस्य.शाखाम्.मधोर्.धाराम्.प्रतरणीम्.वसूनाम्.।.एनाम्.शिशुः.क्रन्दत्य्.आ.कुमार.एनाम्.धेनुः.क्रन्दतु.पाक.वत्स.इत्य्.उत्तरतः ।
श्ग्स्_3.2.7: एवम्.द्वयोर्.द्वयोर्.दक्षिणतः.पश्चाद्.उत्तरतश्.च ।
श्ग्स्_3.2.9: इमाम्.अहम्.अस्य.वृक्षस्य.शाखाम्.घृतम्.उक्षन्तीम्.अमृते.मिनोमि.।.एनाम्.शिशुः.क्रन्दत्य्.आ.कुमार.आ.स्यन्दन्ताम्.धेनवो.नित्य.वत्स.इति.स्थूणा.राजम्.उच्छ्रयति ।
श्ग्स्_3.2.9: एनम्.कुमारस्.तरुण.आ.वत्स.भुवनस्.पत्रि.।.एनम्.परिस्रुतः.कुम्भ्या.आ.दध्नः.कलशैर्.गमन् ।
श्ग्स्_3.3.1: इह.एव.स्थूणे.प्रति.तिष्ठ.ध्रुवा.अश्वावती.गोमती.सीलमावती.।.क्षेमे.तिष्ठ.घृतम्.उक्षमाणे.इह.एव.तिष्ठ.निमिता.(.निमितानि.).तिल्विला.स्थाजिरावती.।.मध्ये.पोषस्य.तृम्पताम्.मा.त्वा.प्रापन्न्.अघायवः.उपहूता.इह.गाव.उपहूता.अजावयः.।.अथो.अन्नस्य.कीलाल.उपहूतो.गृहेषु.नः.।.रथन्तरे.प्रति.तिष्ठ.वामदेव्ये.श्रयस्व.बृहति.स्तभाय.इति.स्थूणा.राजम्.अभिमृशति ।
श्ग्स्_3.3.2: सम्मितस्य.स्थूणाः.सम्मृशति ।
श्ग्स्_3.3.3: सत्यम्.च.श्रद्धा.च.इति.पूर्वे ।
श्ग्स्_3.3.4: यज्ञश्.च.दक्षिणा.च.इति.दक्षिणे ।
श्ग्स्_3.3.5: बलम्.च.ओजश्.च.इत्य्.अपरे ।
श्ग्स्_3.3.6: ब्रह्म.च.क्षत्रम्.च.इत्य्.उत्तरे ।
श्ग्स्_3.3.7: श्री.स्तूपो.धर्म.स्थूणा.राजः ।
श्ग्स्_3.3.8: अहोरात्रे.द्वार.फलके ।
श्ग्स्_3.3.9: संवत्सरो.अपिधानम् ।
श्ग्स्_3.3.10: <.उक्षा.समुद्र>.इत्य्.अभ्यक्तम्.अश्मानम्.स्तूपस्य.अधस्तान्.निखनेत् ।
श्ग्स्_3.4.0: अथ.गृह.प्रवेश.कर्म ।
श्ग्स्_3.4.1: वास्तोष्पतीये.कर्मणि ।
श्ग्स्_3.4.2: अग्निम्.दधामि.मनसा.शिवेन.अयम्.अस्तु.संगमनो.वसूनाम्.।.मा.नो.हिंसी.स्थविरम्.मा.कुमारम्.शम्.नो.भव.द्विपदे.शम्.चतुष्पद.इति.गृह्यम्.अग्निम्.बाह्यत.उपसमाधाय ।
श्ग्स्_3.4.3: प्राग्.अग्रेषु.नवेषु.कुशेषु.उद.कुम्भम्.नवम्.प्रतिष्ठाप्य ।
श्ग्स्_3.4.4: अरिष्टा.अस्माकम्.वीरा.मा.परा.सेचि.नो.धनम्.इत्य्.अभिमन्त्र्य ।
श्ग्स्_3.4.5: रथन्तरस्य.स्तोत्रियेण.पुनर्.आदायम्.ककुप्.कारम्.तिस्रः.पूर्व.अह्णे.जुहोति ।
%ओन् थे रय् ओf रेचितिन्ग् अ प्रगअथन् सो अस् तो fओर्म् थ्रेए वेर्सेस्न् सेए इस्त्.विइइ.25न्... थे स्तोत्रिय ओf थे रथन्तर इस् र्व् विइ.32.22ff.; थत् ओf थे वअमदेव्यन् इव्.31.1-3; थत् ओf थे ब्र्हत्न् वि.46.1ff. (स्बेन् प्.95.न् न्. 5-7)
श्ग्स्_3.4.6: वामदेव्यस्य.मध्यंदिने ।
श्ग्स्_3.4.7: बृहतो.अपर.अह्णे ।
श्ग्स्_3.4.8: महा.व्याहृतयश्.चतस्रो.<.वास्तोष्.पत>.इति.तिस्रो.<.अमीवहा.वास्तोष्.पते>.<.वास्तोष्.पते.ध्रुवा.स्थूणा>.सौविष्टकृती.दशमी.स्थाली.पाकस्य.रात्रौ ।
श्ग्स्_3.4.9: ज्येष्ठम्.पुत्रम्.आदाय.जायाम्.च.सहधान्यः.प्रपद्येत ।
श्ग्स्_3.4.10: इन्द्रस्य.गृहाः.शिवा.वसुमन्तो.वरूथिनस्.तान्.अहम्.प्र.पद्ये.सह.जायया.सह.प्रजया.सह.पशुभिः.सह.रायस्.पोषेण.सह.यन्.मे.किंच.अस्ति.तेन ।
श्ग्स्_3.5.1: शगम्.शग्मम्.शिवम्.शिवम्.क्षेमाय.वः.शान्त्यै.प्रपद्ये.अभयम्.नो.अस्तु.ग्रामो.मा.अरण्याय.परि.ददातु.विश्व.महाय.मा.परि.देहि.इति.ग्रामान्.निष्क्रामन्ण् ।
श्ग्स्_3.5.2: अरण्यम्.मा.ग्रामाय.परि.ददातु.मह.विश्वाय.मा.परि.देहि.इति.ग्रामम्.प्रविशन्न्.अरिक्तः ।
श्ग्स्_3.5.3: गृहान्.भद्रन्.सुमनसः.प्रपद्ये.अवीरघ्नो.वीरतरः.सुवीरान्.।.इराम्.वहन्तो.घृतम्.उक्षमाणा.अन्येष्व्.अहम्.सुमनाः.सम्.विशेयम्.इति.सदा.प्रवचनीयः ।
श्ग्स्_3.6.0: अथ.प्रवसद्.यजनम् ।
श्ग्स्_3.6.1: अनाहित.अग्निः.प्रवत्स्यन्.गृहान्.समीक्षते ।
श्ग्स्_3.6.2: इमान्.मे.मित्रावरुणौ.गृहान्.गोपायतम्.युवम्.।.अविनष्टान्.अविब्रुतान्.पूषा.एनान्.अभि.रक्षत्व्.आ.अस्माकम्.पुनर्.आगमाद् ।
श्ग्स्_3.6.3: अपि.पन्थाम्.अगन्महि.इति.च.जपति ।
श्ग्स्_3.7.1: अथ.प्रोष्य.आयन्.गृहान्.समीक्षते ।
श्ग्स्_3.7.2: गृहा.मा.बिभीत.मा.वेपध्वम्.ऊर्जम्.बिभ्रत.एमसि.ऊर्जम्.बिभ्रद्.वः.सुमनाः.सुमेधा.गृहान्.ऐमि.मनसा.मोदमानः.येषाम्.अध्येति.प्रवसन्.येषु.सौमनसो.बहुः.।.गृहान्.उप.ह्वयामहे.ते.नो.जानन्तु.जानतः.उपहूता.इह.गाव.उपहूता.अजावयः.।.अथो.अन्नस्य.कीलाल.उपहूतो.गृहेषु.नः ।
श्ग्स्_3.7.3: अयम्.नो.अग्निर्.भगवान्.अयम्.नो.भगवत्तरः.।.अस्य.उपसद्ये.मा.रिषाम.अयम्.श्रैष्ठ्ये.दधातु.न.इति.गृह्यम्.अग्निम्.उपस्थाय ।
श्ग्स्_3.7.4: कल्याणीम्.वाचम्.प्रब्रूयाद् ।
श्ग्स्_3.7.5: विराजो.दोहो.असि.विराजो.दोहम्.अशीय.मयि.पद्यायै.विराजो.दोह.इति.पाद्य.प्रतिग्रहणः ।
श्ग्स्_3.8.0: अथ.आग्रयणम् ।
श्ग्स्_3.8.1: अनाहित.अग्निर्.नवम्.प्राशिष्यन्.आग्रयण.देवताभ्यः.स्विष्टकृच्.चतुर्थीभ्यः.स्वाहा.कारेण.गृह्ये.अग्नौ.जुहुयात् ।
श्ग्स्_3.8.2: प्राजापतये.त्वा.ग्रहम्.गृह्णामि.मह्यम्.श्रियै.मह्यम्.यशसे.मह्यम्.अन्न.अद्याय.इति.प्राशन.अर्थीयम्.अभिमन्त्र्य ।
श्ग्स्_3.8.3: भद्रान्.नः.श्रेयः.सम्.अनैष्ट.देवास्.त्वया.ज्वसेन.सम्.अशीमहि.त्वा.।.स.नो.मयोभूः.पितव्.आ.विशस्व.शम्.नो.भव.द्विपदे.शम्.चतुष्पद.इत्य्.अद्भिर्.अभ्युत्सिञ्चन्.त्रिः.प्राश्नाति ।
श्ग्स्_3.8.4: अमो.असि.प्राण.तद्.ऋतम्.ब्रवीम्य्.अमो.असि.सर्वान्.असि.प्रविष्टः.।.स.मे.जराम्.रोगम्.अपनुद्य.शरीराद्.अमा.म.एधि.मा.मृधा.न.इन्द्र.इति.हृदय.देशम्.अभिमृशति ।
श्ग्स्_3.8.5: नाभिर्.असि.मा.बिभीथाः.प्राणानाम्.ग्रन्थिर्.असि.मा.विस्रस.इति.नाभिम् ।
श्ग्स्_3.8.6: भद्रम्.कर्णेभिर्.इति.यथा.लिङ्गम् ।
श्ग्स्_3.8.7: <.तच्.चक्षुर्>.इत्य्.आदित्यम्.उपस्थाय ।
श्ग्स्_3.9.0: अथ.गोष्ठ.कर्म ।
श्ग्स्_3.9.1: परि.वः.सैन्याद्.वधाद्.व्य्.आ.वृञ्जन्तु.घोषिण्यः.।.समानस्.तस्य.गोपतेर्.गावो.अंशो.न.वो.रिषत्.<.पूषा.गा.अन्व्.एतु.न>.इति.गाः.प्रैष्ठमाना.अनुमन्त्रयेत ।
श्ग्स्_3.9.2: <.परि.पूषा>इति परिक्रान्तासु ।
श्ग्स्_3.9.3: यासाम्.ऊधश्.चतुर्.बिलम्.मधोः.पूर्णम्.घृतस्य.च.।.ता.नः.सन्तु.पयस्वतीर्.बह्वीर्.गोष्ठे.घृताच्य.इति.<.आ.गावो.अगमन्न्>.इति.च.प्रत्यागतासु ।
श्ग्स्_3.9.4: उत्तमाम्.अमा.कुर्वन् ।
श्ग्स्_3.9.5: <.मयोभू.र्.वात>.इति.सूक्तेन.गोष्ठे.गताः ।
श्ग्स्_3.10.0: अथ.गवाम्.अङ्कन.कर्म ।
श्ग्स्_3.10.1: या.फाल्गुन्या.उत्तरा.अमावास्या.सा.रेवत्या.सम्पद्यते.तस्याम्.अङ्क.लक्षणानि.कारयेद् ।
श्ग्स्_3.10.2: भुवनम्.असि.सहस्र.पोषम्.इन्द्राय.त्वा.श्रमो.ददत्.।.अक्षतम्.अस्य्.अरिष्टम्.इला.अन्नम्.गोपायनम्.यावतीनाम्.इदम्.करिष्यामि.भूयसीनाम्.उत्तमाम्.समाम्.क्रियासम्.इति ।
श्ग्स्_3.10.3: या.प्रथमा.प्रजायेत.तस्याः.पीयूषम्.जुहुयात्.संवत्सरीणम्.पय.उस्रियाया.इत्य्.एताभ्याम्.ऋग्भ्याम् ।
श्ग्स्_3.10.4: यदि.यमौ.प्रजायेत.महा.व्याहृतिभिर्.हुत्वा.यमसूम्.दद्यात् ।
श्ग्स्_3.11.0: अथ.वृष.उत्सर्ग.कर्म ।
श्ग्स्_3.11.1: अथ.वृष.उत्सर्गः ।
श्ग्स्_3.11.2: कार्त्तिक्याम्.पौर्णमास्याम्.रेवत्याम्.वा.आश्वयुज्यस्य ।
श्ग्स्_3.11.3: गवाम्.मध्ये.सुसमिद्धम्.अग्निम्.कृत्वा.आज्य.आहुतीर्.जुहोति ।
श्ग्स्_3.11.4: इह.रतिर्.इह.रमध्वम्.स्वाहा.इह.धृतिर्.इह.स्वधृतिः.स्वाहा.उप.सृजम्.धरुणम्.मात्रे.धरुणो.मातरम्.धयन्.रायस्.पोषम्.अस्मासु.दीधरत्.स्वाहा ।
श्ग्स्_3.11.5: पूषा.गा.अन्व्.एतु.न.इति.पौष्णस्य.जुहोति ।
श्ग्स्_3.11.6: रुद्रान्.जपित्वा ।
श्ग्स्_3.11.7: एक.वर्णम्.द्वि.वर्णम्.त्रि.वर्णम्.वा ।
श्ग्स्_3.11.8: यो.वा.यूथम्.छादयति ।
श्ग्स्_3.11.9: यो.वा.यूथेन.छाद्यते ।
श्ग्स्_3.11.10: रोहितो.वा.एव.स्यात् ।
श्ग्स्_3.11.11: सर्व.अङ्गैर्.उपेतो.यूथे.वर्चस्वितमः.स्यात् ।
श्ग्स्_3.11.12: तम्.अलम्.कृत्य ।
श्ग्स्_3.11.13: यूथे.मुख्याश्.चतस्रो.वत्सतर्यस्.ताश्.च.अलम्.कृत्य ।
श्ग्स्_3.11.14: एतम्.युवानम्.पतिम्.वो.ददामि.तेन.क्रीडन्तीश्.चरतः.प्रियेण.।.मा.वश्व.अत्र.जनुषा.संविदाना.रायस्.पोषेण.सम्.इषा.मदेम.स्वाहा.इति ।
श्ग्स्_3.11.15: नभ्यस्थे.(.मध्यस्थे.?).अनुमन्त्रयते.<.मयोभूर्>.इत्य्.अनुवाक.शेषेण ।
श्ग्स्_3.11.16: सर्वासाम्.पयसि.पायसम्.श्रपयित्वा.ब्राह्मणान्.भोजयेत् ।
श्ग्स्_3.12.0: अथ.अष्टकाः ।
श्ग्स्_3.12.1: ऊर्ध्वम्.आग्रहायण्यास्.तिस्रो.अष्टका.अपर.पक्षेषु ।
श्ग्स्_3.12.2: तासाम्.प्रथमायाम्.शाकम्.जुहोति ।
श्ग्स्_3.12.3: इयम्.एव.सा.या.प्रथमा.व्युछद्.अन्तर्.अस्याम्.चरति.प्रविष्टा.।.वधूर्.जजान.नवकृज्.जनित्री.त्रय.एनाम्.महिमानः.सचन्ताम्.स्वाहा.इति ।
श्ग्स्_3.12.4: अथ.स्विष्टकृतो ।
श्ग्स्_3.12.5: यस्याम्.वैवस्वतो.यमः.सर्वे.देवाः.समाहिताः.।.अष्टका.सर्वतो.मुखी.सा.मे.कामान्.अतीतृपत्.आहुस्.ते.ग्रावाणो.दन्तान्.ऊधः.पवमानः.।.मासाश्.च.अर्ध.मासाश्.च.नमस्.ते.सुमना.मुखि.स्वाहा.इति ।
श्ग्स्_3.13.1: मध्यमायाम्.मध्य.आवर्षे.च ।
श्ग्स्_3.13.2: महा.व्याहृतयश्.चतस्रो.ये.तातृषुर्.इति.चतस्रो.अनुद्रुत्य.वपाम्.जुहुयाद् ।
श्ग्स्_3.13.3: वह.वपाम्.जात.वेदः.पितृभ्यो.यत्र.एनान्.वेत्थ.सुकृतस्य.लोके.।.मेदसः.कुल्या.उप.तान्.स्रवन्तु.सत्याः.सन्तु.यजमानस्य.कामाः.स्वाहा.इति.वा ।
श्ग्स्_3.13.4: महा.व्याहृतयश्.चतस्रो.ये.तातृषुर्.इति.चतस्रो.अष्ट.आहुति.स्थाली.पाको.अवदान.मिश्रः ।
श्ग्स्_3.13.5: अन्तर्हिता.गिरयो.अन्तर्हिता.पृथिवी.मही.मे.दिवा.दिग्भिश्.च.सर्वाभिर्.अन्यम्.अन्तः.पितुर्.दधे.अमुष्यै.स्वाहा.अन्तर्हिता.म.ऋतवो.अहोरात्राश्.च.संधिजाः.।.मासाश्.च.अर्ध.मासाश्.च.अन्यम्.अन्तः.पितुर्.दधे.अमुष्यै.स्वाहा.यास्.तिष्ठन्ति.याः.स्रवन्ति.या.दभ्राः.परिसस्रुषीः.।.अद्भिः.सर्वस्य.भर्तृभिर्.अन्यम्.अन्तः.पितुर्.दधे.अमुष्यै.स्वाहा.यन्.मे.माता.प्रलुलुभे.विचरन्त्य्.अपति.व्रता.।.रेतस्.तन्.मे.पिता.वृङ्क्ताम्.मातुर्.अन्यो.अव.पद्यत.अमुष्यै.स्वाहा.इति.वा.महा.व्याहृतीनाम्.स्थाने.चतस्रो.अन्यत्र.करणस्य ।
श्ग्स्_3.13.6: पायसो.वा.चरुः ।
श्ग्स्_3.13.7: श्वो.अन्वष्टक्यम्.पिण्ड.पितृ.यज्ञ.आवृता ।
श्ग्स्_3.14.1: उत्तमायाम्.अपूपान्.जुहोति ।
श्ग्स्_3.14.2: उक्थ्यश्.च.अतिरात्रश्.च.सद्यह्क्रीश्.छन्दसा.सह.।.अपूपकृद्.अष्टके.नमस्.ते.सुमना.मुखि.स्वाहा.इति ।
श्ग्स्_3.14.3: गो.पशुर्.अज.पशु.स्थाली.पाको.वा ।
श्ग्स्_3.14.4: अपि.वा.गो.ग्रासम्.आहरेद् ।
श्ग्स्_3.14.5: अपि.वा.अरण्ये.कक्षम्.अपादहेद्.एषा.मे.अष्टका.इति ।
श्ग्स्_3.14.6: न.त्व्.एव.न.कुर्वीत.न.त्व्.एव.न.कुर्वीत ।
श्ग्स्_4.1.0: अथ.श्राद्ध.कर्म ।
श्ग्स्_4.1.1: मासि.मासि.पितृभ्यो.दद्याद् ।
श्ग्स्_4.1.2: ब्राह्मणान्.वेदविदो.अयुग्मांस्.त्र्यवर.अर्धान्.पितृवद्.उपवेश्य ।
श्ग्स्_4.1.3: अयुग्मान्य्.उद.पात्राणि.तिलैर्.अवकीर्य ।
श्ग्स्_4.1.4: असाव्.एतत्.त.इत्य्.अनुदिश्य.ब्राह्मणानाम्.पाणिषु.निनयेद् ।
श्ग्स्_4.1.5: भुञ्जानेषु.महा.व्याहृतीः.सावित्रीम्.मधुवतीयाः.पितृ.देवत्याः.पावमानीश्.च.जपेद् ।
श्ग्स्_4.1.6: भुक्तवत्सु.पिण्डान्.दद्यात् ।
श्ग्स्_4.1.10: पुरस्ताद्.एके ।
श्ग्स्_4.1.11: पिण्डान्.पश्चिमेन.तत्.पत्नीनाम्.किंचिद्.अन्तर्धाय ।
श्ग्स्_4.1.12: ब्राह्मणेभ्यः.शेषम्.निवेदयेद् ।
श्ग्स्_4.1.13: अग्नौ.करण.आदि.पिण्ड.पितृ.यज्ञेन.कल्पो.व्याख्यातः ।
श्ग्स्_4.2.0: अथ.एकोद्दिष्ट.श्राद्ध.कर्म ।
श्ग्स्_4.2.1: अथ.अत.एक.उद्दिष्टम् ।
श्ग्स्_4.2.2: एक.पवित्रम् ।
श्ग्स्_4.2.3: एक.अर्घ्यम् ।
श्ग्स्_4.2.4: एक.पिण्डम् ।
श्ग्स्_4.2.5: न.आवाहनम्.न.अग्नौ.करणम्.न.अत्र.विश्वे.देवाः.स्वदितम्.इति.तृइप्त.प्रश्न.उप.तिष्ठताम्.इत्य्.अक्षय्य.स्थाने ।
श्ग्स्_4.2.6: अभि.रम्यताम्.इति.विसर्गः ।
श्ग्स्_4.2.7: संवत्सरम्.एवम्.प्रेते ।
श्ग्स्_4.2.8: चतुर्थ.विसर्गश्.च ।
श्ग्स्_4.3.0: अथ.सपिण्डी.करणम् ।
श्ग्स्_4.3.1: अथ.सपिण्डी.करणम् ।
श्ग्स्_4.3.2: संवत्सरे.पूर्णे.त्रिपक्षे.वा ।
श्ग्स्_4.3.3: यद्.अहर्.वा.वृद्धिर्.आपद्येत ।
श्ग्स्_4.3.4: चत्वार्य्.उद.पात्राणि.सतिल.गन्ध.उदकानि.कृत्वा ।
श्ग्स्_4.3.5: त्रीणि.पितॄणाम्.एकम्.प्रेतस्य ।
श्ग्स्_4.3.6: प्रेत.पात्रम्.पितृ.पात्रेष्व्.आसिञ्चति.ये.समाना.इति.द्वाभ्याम् ।
श्ग्स्_4.3.7: एव्म.पिण्डम्.अपि ।
श्ग्स्_4.3.8: एतत्.सपिण्डी.करणम् ।
मूल पाठ: Śāṅkhāyanagṛhyasūtra · Edition: Hermann Oldenberg, Indische Studien, XV, pp.13-116 (Sehgal ed. upto 2.9) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0