संघाटसूत्र (अन्य संस्करण) · भाग 119
[ससू(च्) 0] स्वस्तिः! नमः सर्वबुद्धबोधिसत्वेभ्यः!
[ससू(च्) 1] एवं मया श्रुतम्: एकस्मिन् समये भगवान् राजगृहे विहरति स्म । गृद्ध्रकूटे पर्वते महता भिक्षुसंघेन;
[ससू(च्) 2] 1. सार्धं द्वाविंशतिभिर् भिक्षुसहस्रैः. 2. तद्यथा आयुष्मता चाज्ञातकौण्डिन्येन, 3. आयुष्मता च महामौद्गल्यायेन, 4. आयुष्मता च शारद्वतीपुत्रेण, 5. आयुष्मता च महाकाश्यपेन, 6. आयुष्मता च राहुलेन, 7. आयुष्मता च बक्कुलेन, 8. आयुष्मता च भद्रवासेन, 9. आयुष्मता च भद्रश्रिया, 10. आयुष्मता च नन्दश्रिया, 11. आयुष्मता च जाङ्गुलेन, 12. आयुष्मता च सुभूतिना, 13. आयुष्मता च रेवतेन, 14. आयुष्मता च नन्दसेनेन, 15. आयुष्मता चानन्देन; 16. एवंप्रमुखैर् द्वाविंशतिभिर् भिक्षुसहस्रैः.
[ससू(च्) 3] द्वाषष्टिभिश् च बोधिसत्वसहस्रैः, 2. तद्यथा मैत्रेयेण च बोधिसत्वेन महासत्वेन, 3. सर्वशूरेण च बोधिसत्वेन महासत्वेन, 4. कुमारश्रिया च बोधिसत्वेन महासत्वेन, 5. कुमारवासिना च बोधिसत्वेन महासत्वेन, 6. कुमारभद्रेण च बोधिसत्वेन महासत्वेन, 7. अनूनेन च बोधिसत्वेन महासत्वेन, 8. मंजुश्रिया च कुमारभूतेन बोधिसत्वेन महासत्वेन, 9. समन्तभद्रेण च बोधिसत्वेन महासत्वेन, 10. सुदर्शनेन च बोधिसत्वेन महासत्वेन, 11. भैषज्यराजेन च बोधिसत्वेन महासत्वेन; 12. एवंप्रमुखैर् द्वाषष्टिभिर् बोधिसत्वसहस्रैः
[ससू(च्) 4] 1. द्वाषष्टिभिश् च देवपुत्रसहस्रैः, 2. तद्यथा अर्जुनेन च देवपुत्रेण, 3. भद्रेण च देवपुत्रेण, 4. सुभद्रेण च देवपुत्रेण, 5. धर्मरुचिना च देवपुत्रेण, 6. चन्दनगर्भेण च देवपुत्रेण, 7. चन्दनवासिना च देवपुत्रेण, 8. चन्दनेन च देवपुत्रेण; 9. एवंप्रमुखैर् द्वाषष्टिभिर् देवपुत्रसहस्रैः ॥
[ससू(च्) 5] 1. अष्टाभिश् च देवकन्यासहस्रैः, 2. तद्यथा मृदंगिन्या च देवकन्याया, 3. प्रासादवत्या च देवकन्याया, 4. महात्मसंप्रयुक्तया च देवकन्याया, 5. वर्षश्रियाया च देवकन्याया, 6. पद्मश्रियाय च देवकन्याया, 7. प्रजापतिवासिन्या च देवकन्याया, 8. बलिन्या च देवकन्याया, 9. सुबाहुयुक्तया च देवकन्याया, 10. एवंप्रमुखैर् अष्टाभिर् देवकन्यासहस्रैः;
[ससू(च्) 6] 1. अष्टाभिश् च नागराजसहस्रैः, 2. तद्यथा अपलालेन च नागराज्ञा, 3. एलपत्रेण च नागराज्ञा, 4. तिमिङ्गिलेन च नागराज्ञा, 5. कुंभसारेण च नागराज्ञा, 6. कुंभशीर्षेण च नागराज्ञा, 7. सुनन्देन च नागराज्ञा, 8. सुशाखेन च नागराज्ञा, 9. गवशीर्षेण च नागाराज्ञा; 10. एवंप्रमुखैर् अष्टाभिर् नागराजसहस्रैस्.
[ससू(च्) 7] ते सर्वे येन राजगृहं महानगरं येन गृद्ध्रकूटः पर्वतो येन च भगवां च्छाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिष्प्रदक्षिणीकृत्य भगवतः पुरतस् तस्थिरे.
[ससू(च्) 8] भगवांश् च तूष्णीभावेनाधिवासयति स्म.
[ससू(च्) 9] अथ खलु सर्वशूरो बोधिसत्वो महासत्वः उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनांजलिं प्रणमय्य भगवन्तम् एतद् अवोचत्:
[ससू(च्) 10] 1. बह्व्यो भगवन् देवकोट्यो ऽप्सरकन्याकोट्यो बोधिसत्वकोट्यः बह्व्यो भगवं च्छ्रावककोट्यः सन्निपतिताः सन्निषण्णा धर्मश्रवणाय. 2. तस्मात् तर्हि भगवं पृच्छेयम् अहं तथागतम् अर्हन्तं सम्यक्संबुद्धं कंचिद् एव प्रदेशं, सचेन् मे भगवान् अवकाशं कुर्यात् पृष्टप्रश्नव्याकरणाय. 3. एवम् उक्ते भगवां सर्वशूरस्य बोधिसत्वस्यैतद् अवोचत्: नित्यकृत्यस् ते सर्वशूरावकाशं प्रश्नं परिपृच्छनाय. पृच्छ त्वं सर्वशूर यद् यद् एवाकांक्षस्य् अहं ते तस्य तस्यैव पृष्टप्रश्नस्य व्याकरणेन चित्तम् आराधयिष्ये. 4. एवम् उक्ते सर्वशूरो बोधिसत्वो भगवन्तम् एतद् अवोचत्: अस्ति भगवं सद्धर्मपर्यायो यं श्रुत्वा सर्वसत्वानां पंचानन्तर्याणि कर्माणि निरवशेषेण क्षयं गच्छन्ते, तथान्ये च कर्मावरणाः क्षीणा भविष्यन्ति, क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यन्ते?
[ससू(च्) 11] एवम् उक्ते भगवान् सर्वशूरं बोधिसत्वं महासत्वम् एतद् अवोचत्: साधु साधु सर्वशूर यस् त्वं तथागतम् एतम् अर्थं परिप्रष्टव्यं मन्यसे. 2. तेन हि त्वं सर्वशूर शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये ऽहं ते.
[ससू(च्) 12] एवं भगवन्न् इति सर्वशूरो बोधिसत्वो महासत्वो भगवतः प्रत्यश्रौषीद्.
[ससू(च्) 13-14] भगवान् अस्यैतद् अवोचत्: अस्ति सर्वशूर संघाटो नाम धर्मपर्याय; एतर्हि जम्बुद्वीपे प्रचरिष्यति. 2. यः कश्चित् सर्वशूरेमं संघाटं धर्मपर्यायं शोष्यति, तस्य पंचानन्तर्याणि कर्माणि परिक्षयं यास्यन्ति, 3. अवैवर्तिकाश् च भविष्यन्त्य् अनुत्तराया सम्यक्संबोधेः.
[ससू(च्) 15] तत् किं मन्यसे सर्वशूर, य इमं संघाटसूत्रं धर्मपर्यायं श्रोष्यति, यथैकस्य तथागतस्य पुण्यस्कन्धस् तथा तावन्तं पुण्यस्कन्धं स सत्व प्रसविष्यतीति? नैवं सर्वशूर द्रष्टव्यं.
[ससू(च्) 16] सर्वशूरो बोधिसत्व आह: यथा कथं पुनर् भगवन् द्रष्टव्यं? 2. भगवान् आह: यथा गंगानदीवालुकासमानां तथागतानां अर्हतां सम्यक्संबुद्धानां पुण्यस्कन्धस्, तावन्तं सर्वशूर ते सत्वाः पुण्यस्कन्धं प्रसविष्यन्ति; 3. ये सर्वशूर इमं संघाटं धर्मपर्यायं श्रोष्यन्ति, ते सर्वे अवैवर्तिका भविष्यन्ति अनुत्तरायाः सम्यक्संबोधेः; 4. सर्वे च तथागतं द्रक्ष्यन्ति, सर्वे च तथागतदर्शाविनो भविष्यन्ति; 5. सर्वे चानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते; 6. अधृष्याश् च भविष्यन्ति मारेण पापीमता: 7. ते च सर्वे कुशलधर्मम् अनुप्राप्स्यन्ति: 8. ये सर्वशूर इमं संघाटसूत्रं श्रोष्यन्ति, ते सर्वे उत्पादनिरोधं ज्ञास्यन्ति.
[ससू(च्) 17] 1. अथ ते सर्वे देवनागमनुष्याप्सरकन्याकोट्यस्, तेन कालेन तेन समयेनोत्थायासनेभ्यः एकांसान्य् उत्तरासंगानि कृत्वा दक्षिणानि जानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य ते सर्वे भगवन्तं परिपृच्छन्ति स्म: 2. कियान् भगवन्न् एकस्य तथागतस्य पुण्यस्कन्धः?
[ससू(च्) 18] 1. भगवान् आह: शृणु कुलपुत्रा एकस्य बुद्धस्य पुण्यस्कन्धस्य प्रमाणं. 2. तद्यथा महासमुद्रे उदकबिन्दवः, यथा जंबुद्वीपे परमाणुरजः, यथा गंगानदीवालिकासमाः सत्वास्, ते सर्वे दशभूमिप्रतिष्ठिता बोधिसत्वा भवेयुः; यच् च तेषां बोधिसत्वानां पुण्यस्कन्धम्, अतो बहुतरं पुण्यस्कन्धम् एकस्य बुद्धस्य पुण्यस्कन्धम्. 3. अतश् च ते सर्वशूर सत्वा बहुतरं पुण्यस्कन्धं प्रसविष्यन्ति य इमं संघाटं धर्मपर्यायं श्रोष्यन्ति, यावन् न शक्यं गणनायोगेन तस्य पुण्यस्कन्धस्य पर्यन्तम् अधिगन्तुं. 4. यस्य सर्वशूर तस्मिन् काले तस्मिन् समये एतद् वचनं श्रुत्वा महान् उत्साहो भविष्यति ...
[ससू(च्) 19] 1. अथ खलु सर्वशूरो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: कतमे ते भगवन् सत्वा ये धर्मपरितृषिता भविष्यन्ति? 2. एवम् उक्ते भगवान् सर्वशूरं बोधिसत्वं महासत्वम् एतद् अवोचत्: द्वाव् इमौ सर्वशूर सत्वौ धर्मपरितृषितौ. 3. कतमौ द्वौ? यदुतैकः सर्वशूर सर्वसत्वसमचित्तः, द्वितीयः सर्वशूर यो धर्मं श्रुत्वा सर्वसत्वानां समं प्रकाशयति.
[ससू(च्) 20] 1. सर्वशूरो बोधिसत्व आह: कतमं भगवन् धर्मं श्रुत्वा सर्वसत्वानां समप्रकाशना? 2. भगवान् आह: एकः सर्वशूर धर्मं श्रुत्वा बोधाय परिणामयति: यदा च बोधाय परिणामयति तदा सर्वसत्वा धर्मपरितृषिता भविष्यन्ति. 3. द्वितीयः सर्वशूर यो महायानम् अवगाहयति; स नित्यं धर्मपरितृषितो भवति.
[ससू(च्) 21] अथ ते देवनागमनुष्याप्सरसकोट्य उत्थायासनाद् भगवतः पुरतः प्रांजलयो भूत्वा भगवन्तम् एतद् अवोचन्: वयं भगवन् धर्मपरितृषिताः; परिपूरयतु भगवान् अस्माकं सर्वसत्वानां चाशाम्!
[ससू(च्) 22] 1. अथ खलु भगवांस् तस्यां वेलायां स्मितं प्रादुश्चकार. 2. अथ खलु सर्वशूरो बोधिसत्वो महासत्व उत्थायासनाद् येन भगवांस् तेनांजलिं प्रणमय्य भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणाय?
[ससू(च्) 23] अथ खलु भगवान् सर्वशूरं बोधिसत्वं महासत्वं आमन्त्रयाम् आस: ये सर्वशूर सत्वा इहागत्वा ते सर्वे अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यन्ते; सर्वे ते तथागतगोचरपरिनिष्पत्तये परिनिष्पद्यन्ते.
[ससू(च्) 24] 1. सर्वशूरो बोधिसत्व आह: को भगवन् हेतुः कः प्रत्ययः यद् एते सत्वा इहगत्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यन्ते? 2. भगवान् आह: साधु साधु सर्वशूर यस् त्वं तथागतम् एतम् अर्थं परिप्रष्टव्यं मन्यसे. इह सर्वशूर परिणामनाविशेषो द्रष्टव्यः.
[ससू(च्) 25] 1. भूतपूर्वं सर्वशूरातीते ऽध्वन्य् असंख्येयैः कल्पै रत्नश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोको उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्.
[ससू(च्) 26] तेन खलु पुनः सर्वशूर कालेनाहं माणवको ऽभूवम्. 2. ये सत्वाः सांप्रतं मया बुद्धज्ञाने प्रतिष्ठपितास् ते सर्वे तेन कालेन तेन समयेन मृगा अभूवन्. 3. तेन च कालेन तेन समयेनाहम् एवं प्रणिधानम् अकार्षं: ये केचिन् मृगाः सांप्रतं दुःखेन परिपीडिताः एते सर्वे मम बुद्धक्षेत्र उपपद्येरन्, सर्वांश् च तान् अहं बुद्धज्ञाने प्रतिष्ठापयेयम्. 4. ते च मृगास् तद् वचनं श्रुत्वा एवं वाचम् अभाषन्त: एवं भवतु. 5. तेन सर्वशूर कुशलमूलेनैते सत्वा इहगत्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते.
[ससू(च्) 27] अथ खलु सर्वशुरो बोधिसत्वो महासत्वो भगवतो ऽन्तिकाद् उत्साहं श्रुत्वा भगवन्तम् एतद् अवोचत्: कियन्तं भगवंस् तेषां सत्वानां आयुष्प्रमाणं भविष्यति? 2. भगवान् आह: अशीति कल्पास् तेषां सत्वानाम् आयुष्प्रमाणं भविष्यति.
[ससू(च्) 28] 1. सर्वशूरो बोधिसत्व आह: किं भगवन् कल्पस्य प्रमाणं? 2. भगवान् आह: शृणु कुलपुत्र, तद्यथापिनाम सर्वशूर कश्चिद् एव पुरुषो नगरं कारयेद्, द्वादशयोजनायामविस्तारं, ऊर्ध्वेन त्रीणि योजनानि प्रमाणं; 3. तच् च नगरं तिलफलकैः परिपूर्णं कुर्यात्; 4. अथ स पुरुषो वर्षशतस्यात्ययात् ततस् तिलफलकैः परिपूर्णान् नगराद् एकं तिलफलकं बहिर् निक्षिपेद्; अनेन पर्यायेण स पुरुषः सर्वाणि तानि तिलफलकानि क्षयं कुर्यात्, तच् च नगरम् अमूलम् अप्रतिष्ठानां भवेन्; न चाद्यापि च कल्पं क्षीयेत.
[ससू(च्) 29] 1. पुनर् अपरं सर्वशूर: 2. तद्यथापिनाम पर्वतो भवेत्, पंचविंशद् योजनानि प्रमाणेन, द्वादश योजनान्य् ऊर्ध्वेन; 3. अथ कश्चिद् एव पुरुषस् तस्य पर्वतस्य पार्श्वे गृहं कारयेत्; 4. स दीर्घस्याध्वनो वर्षशतस्यात्ययेन काशिकेन वस्त्रेणैकवारां परिमार्जयेद्; एवं कृत्वा तस्य पर्वतस्य क्षयो भवेन्, न च कल्पं क्षीयेत. एतत् सर्वशूर कल्पस्य प्रमाणं.
[ससू(च्) 30] 1. अथ खलु सर्वशूरो बोधिसत्वो महासत्व उत्थायासनाद्, एकांसम् उत्तरासंगं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, येन भगवांस् तेनांजलिं प्रणाम्य, भगवन्तम् एतद् अवोचत्: 2. एकपरिणामनया भगवन्न् एवं बहु पुण्यस्कन्धं प्रसवति यद् उताशीतिः कल्पान् सुखम् आयुष्प्रमाणं भविष्यति; 3. कः पुनर् वादो यस् तथागतशासने बहुतरम् अधिकारं करिष्यति?
[ससू(च्) 31] 1. भगवान् आह - शृणु कुलपुत्र, य इमं संघाटं सूत्रं श्रोष्यति तस्य चतुरशीतिः कल्पसहस्राण्य् आयुष्प्रमाणं भविष्यति. कः पुनर् वादो यः संघाटं सूत्रं लिखिष्यति वाचयिष्यति: स सर्वशूर सत्वो बहुतरं पुण्यस्कन्धं प्रसविष्यति. 3. यः सर्वशूर प्रसन्नचित्तः संघाटं सूत्रम् अध्याशयेन नमस्करिष्यति स पंचनवति कल्पां जातौ जातिस्मरो भविष्यति, 4. षष्टि कल्पसहस्राणि राजा चक्रवर्ती भविष्यति, दृष्ट एव धर्मे सर्वशूर सर्वेषां प्रियो भविष्यति, 6. न स सर्वशूर शस्त्रेण कालं करिष्यति, काखोर्दं चास्य न क्रमिष्यति; मरणकाले च नवति बुद्धाकोट्यः संमुखं द्रक्ष्यति, 9. ते च सर्वशूर बुद्धा भगवन्त आश्वासयन्ति: मा भैः सत्पुरुष, त्वया संघाटं सूत्रं महाधर्मपर्यायं सुभाषितं श्रुतं श्रुत्वा इयान् पुण्यस्कन्धः प्रसूतः. 10. ते च पंचनवति बुद्धकोट्यः पृथक् पृथग् लोकधातुषु व्याकरिष्यन्ति. 11. कः पुनर् वादः सर्वशूर य इमं संघाटसूत्रं महाधर्मपर्यायं सकलसमाप्तं विस्तरेण श्रोष्यति.
[ससू(च्) 32] 1. अथ खलु सर्वशूरो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: अहं भगवन् संघाटसूत्रं महाधर्मपर्यायं श्रोष्यामि; कियन्तं भगवन् पुण्यस्कन्धं प्रसविष्यामि? 2. भगवान् आह: यावन्तो गंगानदीबालिकासमानां बुद्धानां भगवतां पुण्यस्कन्धस्, तावन्तं सर्वशूर स सत्वः पुण्यस्कन्धं प्रसविष्यति.
[ससू(च्) 33] 1. सर्वशूरो बोधिसत्व आह: यद् अहं भगवन् संघाटसूत्रं धर्मपर्यायं शृणोमि, नाहं भगवंस् तृप्तिं संजानामि. 2. भगवान् आह: साधु साधु सर्वशूर यस् त्वं धर्माणां तृप्तिं न संजानासि. अहम् अपि सर्वशूर धर्माणां तृप्तिं न संजानामि; कः पुनर् वादः सर्वशूर यद् बालपृथग्जनास् तृप्तिं ज्ञास्यन्ति.
[ससू(च्) 34] 1. यः कश्चित् सर्वशूर कुलपुत्रो वा कुलदुहिता वा महायाने प्रसादं जनयिष्यन्ति, स कल्पसहस्रं विनिपातं न गमिष्यति, 2. पंच कल्पसहस्राणि तिर्यक्षुर्नोपपत्स्यते, 3. द्वादश कल्पसहस्राणि दुर्बुद्धिर् स भविस्यति, 4. अष्टादश कल्पसहस्राणि प्रत्यन्तिमेषु जनपदेषु नोपपत्स्यते, 5. विंशति कल्पसहस्राणि प्रदानशूरो भविष्यति, 6. पंचविंशत् कल्पसहस्राणि देवलोकेषुपपत्स्यते, 7. पंचत्रिंशत् कल्पसहस्राणि ब्रह्मचर्यं चरिष्यति, 8. स चत्वारिंशत् कल्पसहस्राणि निष्क्रान्तगृहावासो भविष्यति, 9. पंचाशत् कल्पसहस्राणि धर्मधरो भविष्यति, 10. पंचषष्टिः कल्पसहस्राणि मरणानुस्मृतिं भावयिष्यति, 11. तस्य सर्वशूर कुलपुत्रस्य वा कुलदुहितुर् वा न किंचित् पापकानि कर्माणि संवेत्स्यन्ते, 12. न च तस्य मारः पापीमान् अवतारं लप्स्यते, न जातु मातुकुक्षाव् उपपत्स्यते. 14. ये सर्वशूर इमं संघाटं धर्मपर्यायं श्रोष्यन्ति, ते यत्र यत्रोपपत्स्यन्ते तत्र तत्र पंचनवत्यासंख्येयैः कल्पैर् विनिपातं न गमिष्यन्ति. 15. अशीतिः कल्पसहस्राणि श्रुतधरा भविष्यन्ति, 16. कल्पशतसहस्रं प्राणातिपातात् प्रतिविरता भविष्यन्ति, 17. नवानवति कल्पसहस्राणि मृषावादात् प्रतिविरता भविष्यन्ति, 18. त्रयोदश कल्पसहस्राणि पिशुनवचनात् प्रतिविरता भविष्यन्ति. 19. दुर्लभास् ते सर्वशूर सत्वा य इमन् धर्मपर्यायं श्रोष्यन्ति.
[ससू(च्) 35] 1. अथ खलु सर्वशूरो बोधिसत्वो महासत्व उत्थायासनाद्, एकांसम् उत्तरासंगं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, येन भगवांस् तेनांजलिं प्रणम्य, भगवन्तम् एतद् अवोचत्: 2. कियन्तं भगवंस् ते सत्वा अपुण्यस्कन्धं प्रसविष्यन्ति य इमन् धर्मपर्यायं प्रतिक्षेप्स्यन्ति? 3. भगवान् आह: बहु सर्वशूर सद्धर्मप्रतिक्षेपाद् अपुण्यस्कन्धं प्रसविष्यति.
[ससू(च्) 36] 1. सर्वशूर आह: कियन्तं भगवन् सत्वानां पापकं कर्मस्कन्धं भविष्यति? 2. भगवान् आह: अलम् अलं सर्वशूर, मा मे पापकं कर्मस्कन्धं परिपृच्छ! 3. यश् च सर्वशूर द्वादशगंगानदीबालिकासमानान् तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अन्तिके दुष्टचित्तम् उत्पादयेद्, यश् चेमं संघाटसूत्रं प्रतिक्षिपेद्, अयं ततो बहुतरं पापकम् अकुशलस्कन्धं प्रसविष्यति. 4. अतो ऽपि सर्वशूर बहुतरम् अकुशलस्कन्धं प्रसविष्यन्ति ये महायाने आघातचित्तम् उत्पादयिष्यन्ति; दग्धास् ते सर्वशूर सत्वा दग्धा एव!
[ससू(च्) 37] 1. सर्वशूर आह: कथं भगवंस् ते सत्वा शक्यं मोचयितुं? 2. भगवान् आह: एवम् एव सर्वशूर; 3. तद्यथापिनाम सर्वशूर कश्चिद् एव पुरुषः कस्यचित् सत्वस्य शीर्षं च्छिंद्याद् तस्य पुनः केनचिद् भैषज्येन प्रलिंपेन्, माक्षिकेन वा शर्करया वा गुडेन वा घृतेन वा तैलेन वा तं शीर्षं प्रलेपयेत्. 4. शक्यं सर्वशूर स सत्वः पुनर् अपि उत्थापयितुं?
[ससू(च्) 38] 1. सर्वशूरो बोधिसत्व आह: न शक्यं भगवन्! 2. भगवान् आह:
[ससू(च्) 39] 1. पुनर् अपरं सर्वशूर: तद्यथापिनाम द्वितीयः पुरुषो भवेत्; स तीक्ष्णेन शस्त्रेणापरस्य सत्वस्य प्रहारं दद्यात्: स न शक्नुयाद् एकप्रहारेण जीविताद् व्यवरोपयितुं; किं चापि सर्वशूर तस्य व्रणम् उत्पद्येत; अथ च पुनर् भैषज्ययोगं कर्तव्यं तदा व्रणात् परिमुच्यते; 2. यदा परिमुक्तो भवति तदा दुःखं स्मरति: अहम् इदानीञ् जानामि, न कदाचित् पुनः पापकम् अकुशलं कर्माभिसंस्कारं करिष्यामि.
[ससू(च्) 40] 1. एवम् एव सर्वशूर स पुरुषो यदा नरके दुःखं स्मरति तदा सर्वपापं परिवर्जयति, 2. तदा सर्वधर्मान् आमुखीकरिष्यति; 3. सर्वधर्मान् आमुखीकृत्वा सर्वकुशलधर्मपारिपूरिं करिष्यति. 4. तद्यथापिनाम सर्वशूर मृतस्य पुरुषस्य मातापितरौ: शोचन्ति परिदेवन्ति न च शक्नुवन्ति त्रातुम्; 5. एवम् एव सर्वशूर बालपृथग्जनाः सत्वा न शक्नुवन्त्य् आत्महितं परहितं वा कर्तुं, निराशा इव मातापितरः; 6. एवम् एव सर्वशूर निराशा भवन्ति ते सत्वा मरणकालसमये.
[ससू(च्) 41] 1. द्वाव् इमौ सर्वशूर सत्वौ निराशौ. कतमौ द्वौ? यद् उतैकः सत्वः पापं कर्म करोति कारापयति वा. द्वितीयः सद्धर्मं प्रतिक्षिपति. इमौ द्वौ सत्वौ निराशौ मरणकालसमये.
[ससू(च्) 42] 1. सर्वशूरो बोधिसत्व आह: का भदन्त भगवंस् तेषां सत्वानां गतिः, को ऽभिसंपरायो भवति? भगवान् आह: अनन्ता गतिः सर्वशूर सद्धर्मप्रतिक्षेपकानां सत्वानां, अनन्तो ऽभिसंपरायः: 3. कल्पम् एव ते सर्वशूर रौरवे महानरके दुःखां वेदनां वेदयिष्यन्ति, 4. कल्पं संघाते, 5. कल्पं तपने, 6. कल्पं प्रतापने, 7. कल्पं कालसूत्रे महानरके, 8. कल्पं महावीचौ महानरके, 9. कल्पं रोमहर्षे महानरके, 10. कल्पं हहवे महानरके. 11. इमेष्व् अष्टसु महानरकेषु सर्वशूर अष्टौ कल्पाः सद्धर्मप्रतिक्षेपकैः सत्वैर् दुःखम् अनुभवितव्यम्.
[ससू(च्) 43] 1. अथ खलु सर्वशूरो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: दुःखं भगवन् दुःखं सुगत नोत्सहामि श्रोतुं! 2. अथ खलु भगवांस् तस्यां वेलायाम् इमा गाथा अभाषत:
(1) किम् त्वं नोत्सहसे श्रोतुम् इदं वाक्यं महाभयम् ।
नरकां दुःखसंयोगा सत्वा विन्दन्ति वेदनां ॥
(2) यत् करोति शुभं कर्म सुखं तस्य भविष्यति ।
यत् करोत्य् अशुभं कर्म दुःखम् एव भविष्यति ॥
(3) जातस्य मरणं दुःखं शोकं दुःखो ऽथ बन्धनं ।
नित्यं दुःखं हि बालस्य सुखहेतो न वेत्ति यः ॥
(4) पण्डितानां सुखं यो वै स्मरते बुद्धदक्षिणां ।
प्रसन्नाश् च महायाने न ते यास्यन्ति दुर्गतिम् ॥
(5) एवम् एव सर्वशूर पूर्वकर्मप्रचोदितं ।
अल्पं हि कृयते कर्म महान्तं भुज्यते फलं ॥
(6) बीजम् अल्पं यथा वाप्य प्रभूतं लभते फलं ।
बुद्धक्षेत्रे तु सुक्षेत्रे वीजं वै यत्र रूह्यते ॥
(7) पण्डितानां सुखं भवति रमन्ते जिनशासने ।
विवर्जयन्ति पापानि कुर्वन्ति कुशलं बहु ॥
(8) आणुमात्रं प्रदास्यन्ति ये दानं मम शासने ।
अशीतिः कल्पसहस्राणि महाभोगा महाधनाः ॥
(9) यत्र यत्रोपपद्यन्ते नित्यं दानं स्मरन्ति ते ।
एवं महाफला ह्य् एषा गंभीरा बुद्धदक्षिणा ॥
[ससू(च्) 44] 1. अथ खलु सर्वशूरो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: कथं भगवन् भगवतः शासने धर्मो ज्ञातव्यः? कथं भगवन् संघाटं सूत्रं धर्मपर्यायं श्रुत्वा कुशलमूलं परिगृहीतं भविष्यति? 2. भगवान् आह: यः सर्वशूर द्वादशगंगानदीबालिकासमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् सर्वसुखोपधानैरुपतिष्ठेत, यश् चेमं संघाटसूत्रं धर्मपर्यायं शृणुयाद् एवम् एव तस्य पुण्यस्कन्धो ज्ञातव्यः.
[ससू(च्) 45] 1. सर्वशूरो बोधिसत्व आह: कथं भगवन् कुशलमूलपरिपूरिः कर्तव्या एवम् उक्ते भगवान् सर्वशूरं बोधिसत्वं महासत्वम् एतद् अवोचत्: यत् सर्वशूर कुशलमूलं तत् तथागतसमं ज्ञातव्यं. 3. सर्वशूर आह: कतमच् च भगवन् कुशलमूलं तथागतसमं ज्ञातव्यं? भगवान् आह: धर्मभाणकः सर्वशूर तथागतसमो ज्ञातव्यः. 5. सर्वशूर आह: कतमो भगवन् धर्मभाणकः? 6. भगवान् आह: यः संघाटं सूत्रं श्रावयति स धर्मभाणकः.
[ससू(च्) 46] 1. सर्वशूरो बोधिसत्व आह: ये भगवन् संघाटसूत्रं धर्मपर्यायं श्रोष्यन्ति ते ईदृशं पुण्यस्कन्धं प्रसविष्यन्ति; कः पुनर् वादो ये लिखिष्यन्ति वाचयिष्यन्ति; कियन्तं ते भगवन् पुण्यस्कन्धं प्रसविष्यन्ति? 2. भगवान् आह: शृणु सर्वशूर, तद्यथा चतुर्षु दिक्ष्व् एकैकस्यान् दिशि द्वादशगंगानदीबालिकासमांस् तथागतान् अर्हतः सम्यक्संबुद्धां द्वादशगंगानदीबालिकासमान् कल्पान् अवतिष्ठन्तो धर्मं देशयेयुर्; अस्य संघाटसूत्रस्य धर्मपर्यायस्य पुण्यस्कन्धं वर्णयेयुर् लेखयतस् तस्य पुण्यस्कन्धस्य न शक्यं पर्यन्तम् अधिगन्तुं, वाचया वा व्याहर्तुं. 3. अष्टाचत्वारिङ्शद्भिर् अपि गंगानादिबालिकासमैर् बुद्धैर् भगवद्भिर् न शक्यं लिख्यमानस्य यत् पुण्यस्कन्धं तद् व्याहर्तुं. 4. कः पुनर् वादो ये वाचयिष्यन्ति, चिन्तयिष्यन्ति वा, ये वा धर्मध्याना भविष्यन्ति.
[ससू(च्) 47] 1. सर्वशूरो बोधिसत्व आह: कियन्तं भगवन् वाचयमानाः पुण्यस्कन्धं प्रसविष्यन्ति? 2. अथ खलु भगवांस् तस्यां वेलायाम् इमा गाथा अभाषता:
(1) चतुष्पदायां गाथायां वाचितायां तु यच् छुभं ।
चतुरशीति गंगाया बालिका स्युः समा जिनाः ॥
(2) ते वाचितस्येह यत् पुण्यं कथयेयुर् अविष्ठिताः ।
न च क्षीयेत तत् पुण्यं वावद् व्याकरणं भवेत् ॥
(3) बुद्धानां कोटयो ऽशीतिस् तिष्ठेयुः कल्पतात्तकान् ।
महायानगुणाः सर्वे वर्णयेयुर् दशो दिशः ॥
(4) संघाटस्य च यत् पुण्यं तत् क्षयं नैव च व्रजेत् ।
बुद्धानान् दुर्लभा एवम् अनन्ता धर्मदेशना ॥
[ससू(च्) 48] तेन खलु पुनः कालेन तेन समयेन चतुरशीतिर् देवपुत्रकोटिशतसहस्राणि, येन तथागतो, येन च संघाटसूत्रं धर्मपर्यायनिर्देशं, तेनांजलयः प्रणम्य, भगवन्तम् एतद् अवोचन्: साधु साधु भगवन् येन भगवता ईदृशं धर्मनिधानं जंबुद्वीपे स्थापितं.
(49) 1. अष्टादश कोटीसहस्राणि निग्रन्थानां, येन भगवाम्स् तेनोपसंक्रान्ता, उपसंक्रम्य, भगवन्तम् एवम् आहुः: जयतु भोः श्रमणो गौतमः! 2. भगवान् आह: तथागतो नित्यम् एव जयति. भो निग्रन्थतीर्थिकाः कथं युष्माकं तीर्थिकानां जयम्? 3. ते ऽवोचन्: जयत्व् जयत्व् एव श्रमणो गौतमः! 4. भगवान् आह: नाहं युष्माकं जयं पश्यामि. आह च:
(1) विपरीता स्थिता यूयं भविष्यति जयः कथं ।
यूयं शृणुथ निग्रन्था वक्ष्यामि भवतां हितं ॥
(2) बालबुद्धेः सुखं नास्ति किं जयं वो भविष्यति ।
मार्गं तु ते न जानंति को जयं ते भविष्यति ।
अहं मार्गं तु दर्शेमि गंभीरं बुद्धचक्षुषा ॥
[ससू(च्) 50] 1. अथ ते निग्रन्था भगवतो ऽन्तिके क्रुद्धा अप्रसादचित्तम् उत्पादयाम् आसुः. 2. तेन खलु पुनः कालेन तेन समयेन शक्रो देवानाम् इन्द्रो वज्रं पराहनत्.
[ससू(च्) 51] 1. अथ ते ऽष्टादश कोट्यो निग्रन्थानां, भीतास्, त्रस्ता, महाता दुःखदौर्मनस्येनार्ता अश्रुकण्ठा रुदन्ति. 2. तथागतश् च स्वकम् आत्मानम् अन्तर्धितं दर्शयति स्म. 3. अथ ते निग्रन्था अस्रुमुखा रुदन्ति, तथागतम् अपश्यन्तश् च गाथां बभाषिरे:
(1) नास्ति कश्चिद् इह त्राणां न माता न पिता तथा ।
अतवीम् इह पश्याम शून्यागारां निरालयां ॥
(2) उदकं चैव नैवास्ति न वृक्षा न च पक्षीणाः ।
जनं चात्र न पश्याम अनाथा दुःखवेदनां ॥
(3) वेदयामो महाघोराम् अपश्यन्तस् तथागतम् ।
[ससू(च्) 52] 1. तेन खलु पुनः कालेन तेन समयेन ते ऽष्टादश कोट्यो निग्रन्थानाम् उत्थायायनेभ्यो, जानुद्वयं भूमौ निपात्य, शब्दम् उदीरयन्ति, घोषम् अनुश्रावयन्ति:
(1) तथागत त्राणं भवाहि संबुद्धो द्बिपदोत्तमः ।
कुरुष्व हितम् अस्माकं त्रायस्व कृपणं जगत् ॥
[ससू(च्) 53] 1. अथ भगवान् स्मितं प्रादुष्कृत्वा सर्वशूरं बोधिसत्वं महासत्वम् आमन्त्रयति: गच्छ सर्वशूर, निग्रन्थानाम् अन्यतीर्थिकानान् धर्मन् देशय. 2. एवम् उक्ते सर्वशूरो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: ननु भगवन् कालपर्वताः सुमेरोः पर्वतराजस्य शिरसा प्रणमन्ति? तिष्ठति तथागते, ऽहं धर्मन् देशयामि? 3. भगवान् आह: अलं कुलपुत्र, बहु तथागतानाम् उपायकौशल्यं. 4. गच्छ सर्वशूर, व्यवलोकय दश दिश, लोकधातून् पश्य, क्व तथागतं पश्यसि, कुत्र वा तथागतस्यासनं प्रज्ञप्तं पश्यसि. 5. अहम् एव सर्वशूर निग्रन्थानां अन्यतीर्थिकानां धर्मन् देशयिष्यामि.
[ससू(च्) 54] 1. सर्वशूरो बोधिसत्व आह: कस्य भदन्त भगवन् ऋद्ध्यानुभावेन गच्छामि? स्वऋद्धेर् वा, अथ वा तथागतस्य र्द्ध्यानुभावेन गच्छामि? 2. भगवान् आह: स्वकेन सर्वशूर ऋद्धिबलाधिष्ठानेन गच्छ, पुनर् एव सर्वशूर तथागतस्य र्द्ध्यनुभावेनागच्छः. 3. अथ खलु सर्वशूरो बोधिसत्वो महासत्व उत्थायासनाद्, भगवन्तं प्रदक्षिणीकृत्य, तत्रैवान्तर्धितः.
[ससू(च्) 55] 1. अथ खलु भगवांस् तेषाम् अन्यतीर्थिकानां धर्मन् देशयति: 2. जातिर् मार्षा दुःखं, जातिर् एव दुःखं, जातस्य सतो बहूनि भयान्य् उत्पद्यन्ते: जातस्य व्याधिभयान्य् उत्पद्यन्ते, व्याधितस्य जराभयान्य् उत्पद्यन्ते, जीर्णस्य मृत्युभयन्य् उत्पद्यन्ते. 3. त आहुः: कतमद् भगवाञ् जातस्य भयं?
[ससू(च्) 56] 1. भगवान् आह: जातं जातम् इति नाम! 2. जातस्य पुरुषस्य बहूनि भयानि जायन्ते, 3. तद्यथा: राजभयं जायते, 4. चोरभयं जायते, 5. अग्निभयं जायते, 6. विषभयं जायते, 7. उदकभयं जायते, 8. वायुभयं जायते, 9. आवर्तभयं जायते, 10. स्वकृतानां कर्मणां भयं जायते.
[ससू(च्) 57] एवं तेन कालेन तेन समयेन तेषाम् अन्यतीर्थिकानां निग्रन्थानां महासन्त्रासो ऽभवद्, एवं चाहुः: न भूयो वयं भगवन्न् उत्सहामहे जतिदुःखम् अनुभवितुम्!
[ससू(च्) 58] 1. अस्मिन् खलु पुनः संघाटे धर्मपर्याये भगवता भाष्यमाणे, ते ऽष्टादश कोट्यो निग्रन्था अन्यतीर्थिकाः परिनिष्पन्ना अभूवन्न् अनुत्तरस्याः सम्यक्संबोधेः; 2. स्वकाये चाष्टादश बोधिसत्वसहस्राः दशभूमिप्रतिष्ठिताः, सर्वे नानार्द्धिविकुर्वितानि सन्दर्शयाम् आसुः; 3. तद्यथा: अश्वरूपं, हस्तिरूपं, सिंहरूपं, व्याघ्ररूपं, गरुडरूपं, सुमेरुरूपं, नन्दिकरूपं, केचिद् वृक्षरूपं. 4. ते सर्वे पद्मासने पर्यंकेन निषीदन्ति. 5. नव कोटीसहस्राणि बोधिसत्वानां भगवतो दक्षिणे पार्श्वे निषीदन्ति. नव कोटीसहस्राणि बोधिसत्वानां भगवतो वामे पार्श्वे निषीदन्ति. 6. तथागतस् तु नित्यं समाहितः उपायकौशल्येन सत्वानां धर्मन् देशयन् संदृश्यते.
[ससू(च्) 59] 1. यावत् सप्तमे रातृदिवसे तथागतः पाणितलं प्रसारयति, जानाति च भगवान्: सर्वशूरो बोधिसत्वो महासत्वस् तस्याः पद्मोत्तराया लोकधातोर् इहागच्छतीति; 2. यदा च सर्वशूरो बोधिसत्वो महासत्वो गतस्, तदा सप्त रात्रिन्दिवसैस् तां पद्मोत्तरां लोकधातुम् अनुप्राप्तः, स्वऋद्धिबलाधिष्ठानेन, 3. यदा च भगवान् बहुं प्रसारयति, तदा सर्वशूरो बोधिसत्वो महासत्वो भगवतः पुरतः स्थितः. 4. भगवन्तं सप्तकृत् प्रदक्षिणीकृत्य भगवतो ऽन्तिके चित्तं प्रसादयमानो, येन तथागतस् तेनांजलिं प्रणाम्य, भगवन्तम् एतद् अवोचत्:
[ससू(च्) 60] गतो ऽस्मि भगवन् दशसु दिक्षु सर्वलोकधातुषु. 2. दृष्टानि मे भगवन् नवानवति कोटीसहस्राणि बुद्धक्षेत्राणाम् एकया ऋद्ध्या; द्वितीयया ऋद्ध्या बुद्धानां भगवतां कोटीशतसहस्रं.
[ससू(च्) 61] यावत् सप्तमे रातृदिवसे तां पद्मोत्तरां लोकधातुम् अनुप्राप्तः, 2. अत्रान्तरं अक्षोभ्यकोटीसहस्रं बुद्धक्षेत्राणां दृष्टं, ततो ऽहं तेषां बुद्धानां भगवताम् ऋद्धिं पश्यामि. द्वानवतिषु बुद्धक्षेत्रकोटीशतसहस्रेषु तथागता धर्मन् देशयन्ति. 4. अशीतिषु कोटीशतसहस्रेषु बुद्धक्षेत्रेषु तत्रैव दिवसे अशीति कोटीशतसहस्राणि तथागतानाम् अर्हतां सम्यक्संबुद्धानां लोक उत्पन्नानि. 5. सर्वांश् च तान् अहं तथागतान् वन्दित्वा पुनर् एव प्रक्रान्तः.
[ससू(च्) 62] 1. तत्रैव दिवसे भगवन्न् एकोनचत्वारिंशद् बुद्धक्षेत्रकोटीसहस्राण्य् अतिक्रम्य, सर्वेषु च तेष्व् एकूनचत्वारिंशत्सु बुद्धक्षेत्रकोटीसहस्रेष्व् एकूनचत्वारिंशत् कोटीसहस्राणि बोधिसत्वानां निष्क्रम्य, तत्रैव दिवसे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. 2. वन्दिताश् च मे भगवन् ते तथागता अर्हन्तः सम्यक्संबुद्धास्; तृगुप्तं प्रदक्षिणीकृत्य, ऋद्ध्या चान्तर्धितः.
[ससू(च्) 63] 1. षष्टिकोटिषु भगवन् बुद्धक्षेत्रेषु बुद्धान् भगवतः पश्यामि. 2. वन्दितानि च मे भगवन् तानि बुद्धक्षेत्राणि, ते च बुद्धा भगवन्तस्; ततश् चाहं प्रक्रान्तं.
[ससू(च्) 64] शतकोटीषु भगवं बुद्धक्षेत्रेषु तथागतान् परिनिर्वायमाणान् पश्यामि. 2. वन्दिताश् च मे ते तथागतास्; ततश् चाहं प्रक्रान्तः.
[ससू(च्) 65] 1. दृष्टं च मे भगवन्न् अपरेषु पंचनवतिकोटिषु बुद्धक्षेत्रेषु सद्धर्मम् अन्तर्धायन्तं. 2. चिन्तायासो मे भगवंस् तत्र जातः, 3. अस्रूणि च प्रमुंचामि, अन्यांश् च रोदमानान् बहून् देवनागयक्षराक्षसान् कामरूपिनश् च महता शोकशल्येन समर्पितान् पश्यामि; 4. एवम् अपरं बुद्धक्षेत्रं निरवशेषं दग्धं ससमुद्रं ससुमेरुं सपृथिवीप्रदेशं, तम् अपि भगवन् वन्दित्वा, निराशीभूतः.
[ससू(च्) 66] 1. प्रक्रान्तो ऽस्मि यावद् अहं भगवन् तां पद्मोत्तरां लोकधातुम् अनुप्राप्तः. 2. तस्यां च भगवन् पद्मोत्तरायां लोकधातौ पंच कोटीशतसहस्राण्य् आसनानां प्रज्ञप्तान् पश्यामि: 3. दक्षिणस्यान् दिशि कोटीशतसहस्रम् आसनानां प्रज्ञप्तान् पश्यामि; 4. वामेन पार्श्वेन कोटीशतसहस्रम् आसनानां प्रज्ञप्तान् पश्यामि; 5. पूर्वस्यान् दिशि कोटीशतसहस्रम् आसनानां प्रज्ञप्तान् पश्यामि; पश्चिमायान् दिशि कोटीशतसहस्रम् आसनानां प्रज्ञप्तान् पश्यामि; 7. ऊर्ध्वायां दिशि कोटीशतसहस्रम् आसनानां प्रज्ञप्तान् पश्यामि.
[ससू(च्) 67] 1. सर्वाणि च भगवन् तान्य् आसनानि सप्तरत्नमयानि; 2. सर्वेषु च तेष्व् आसनेषु तथागता अर्हन्तः सम्यक्संबुद्धा निषण्णा धर्मन् देशयन्ति. 3. तत्राहं भगवन्न्, आश्चर्यप्राप्तस्, तांस् तथागतान् परिपृच्छामि: किन् नामेयं भगवन्तो लोकधातुः? 5. ते तथागता आहुः: पद्मोत्तरा नामेयं कुलपुत्र लोकधातुः.
[ससू(च्) 68] 1. ततो ऽहं भगवंस्, तान् प्रदक्षिणीकृत्य, पुनर् अपि तांस् तथागतान् परिपृच्छामि: 2. किन् नाम इह बुद्धक्षेत्रे तथागतः? 3. ते तथागता आहुः: पद्मगर्भो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो य इह बुद्धक्षेत्रे बुद्धकृत्यं करोति. 4. ततस् तान् अहम् एतद् अवोचत्: बहूनि बुद्धकोटीशतसहस्राणि दृश्यन्ते. तन् न जानामि: कतम स पद्मगर्भो नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति. 5. भगवान् आह: अहं ते कुलपुत्र दर्शयिष्यामि: कतमः स पद्मगर्भो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः.
[ससू(च्) 69] 1. अथ तत्क्षणाद् एव ते सर्वे तथागतकाया अन्तर्धिताः, सर्वे च बोधिसत्वरूपाणि सन्दृश्यन्ते. 2. एकम् एव तथागतं पश्यामि. 3. यथाहं तस्य तथागतस्य पादौ शिरसाभिवन्द्य पुरतः स्थितः, आसनं च प्रादुर्भूतं. स च मां तथागत एवम् आह: निषीद कुलपुत्रात्र आसने.
[ससू(च्) 70] 1. अथाहं तस्मिन्न् आसने निषण्णः. 2. तदा च भगवन्न् अनेकान्य् आसनानि प्रादुर्भूतानि, न च कश्चित् तेष्व् आसनेषु निषण्णं पश्यामि. 3. तद् अहं तथागतं परिपृच्छामि: न भगव एष्व् आसनेषु एकं अपि सत्वं निषण्णं पश्यामि. 4. स भगवान् माम् एवम् आह: नाकृतकुशलमूलाः कुलपुत्र सत्वा एष्व् आसनेषु शक्नुवन्ति निषत्तुम्. 5. तद् अहं तं तथागतम् इदम् अवोचम्: कीदृशं भगवन् सत्वाः कुशलमूलं कृत्वा एष्व् आसनेषु निषीदन्ति? 6. स मां भगवन्न् एवम् आह: शृणु कुलपुत्र, ये सत्वाः संघाटं सूत्रं धर्मपर्यायं श्रोष्यन्ति, ते तेन कुशलमूलेन एष्व् आसनेषु निषत्स्यन्ते. कः पुनर् वादो ये लिखिष्यन्ति वाचयिष्यन्ति. 7. त्वया सर्वशूर संघाटं धर्मपर्यायं श्रुतं यस् त्वम् अत्रासने निषीदित. अन्यत्र कस् तवेह बुद्धक्षेत्रे ऽभ्यन्तरप्रवेशं दद्यात्?
[ससू(च्) 71] 1. एवम् उक्ते तेन भगवता अहं तं भगवन्तम् एतद् अवोचत्: कियन्तं भगवन् स सत्वः पुण्यस्कन्धं प्रसविष्यति य इमं संघाटं धर्मपर्यायं श्रोष्यति? 2. अथ स भगवां पद्मगर्भस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तस्यां वेलायां स्मितं प्रदुष्कार्षीत्. 3. तद् अहं भगवन् स्मितकारणं तं भगवन्तं परिपृष्टवान्: को भगवन् हेतुः किं कारणं यत् तथागतः स्मितं प्रादुष्करोति?
[ससू(च्) 72] 1. स भगवान् आह: शृणु कुलपुत्र सर्वशूर, बोधिसत्व महासत्व, महास्थामप्राप्त. 2. तद्यथापिनाम कुलपुत्र कश्चिद् एव राजा भवेच्, चक्रवर्त्ती चतुर्द्वीपेश्वरः, स चतुर्षु द्वीपक्षेत्रेषु तिलं वापयेत्; 3. सर्वशूर आह: बहूनि भगवन् बहूनि सुगत!
[ससू(च्) 73] 1. स भगवान् आह: ततः सर्वशूर कश्चित् सत्वो भवेद् यस् तानि तिलफलकान्य् एकराशिं कुर्याद्, अन्यतराः पुरुषस् तिलफलराशेर् एकैकं तिलफलकं गृह्य द्वितीये पार्श्वे स्थापयेत्; तत् किं मन्यसे सर्वशूर, शक्नुयात् स सत्वस् तानि तिलफलकानि गणयितुं वोपमां कर्तुम्? 2. सर्वशूरो बोधिसत्व आह: नो हीदं भगवन्, नो हीदं सुगत! न शक्यं तानि तिलफलकानि गणयितुं.
[ससू(च्) 74] 1. भगवान् आह: एवम् एव सर्वशूरास्य संघाटसूत्रस्य धर्मपर्यायस्य यत् पुण्यस्कन्धं तन् न शक्यम् अनुपम्यं कर्तुम्, अन्यत्र तथागतेन. 2. तद्यथा: यावन्तस् ते तिलफलकास् तावान्तस् तथागता भवेयुः; ते सर्वे ऽस्य संघाटस्य धर्मपर्यायस्यनामंपरिकीर्तेयेयुः, श्रवणकुशलमूलपुण्यं च परिकीर्तयेयुर्; न शक्यम् उपमां कर्तुम्. 3. कः पुनर् वादो यो लिखिष्यति वाचयिष्यति.
[ससू(च्) 75] 1. सर्वशूरो बोधिसत्व आह: कियन्तं भगवन् लिखतः पुण्यं भवति य इमन् धर्मपर्यायं लिखयति? 2. भगवान् आह: शृणु कुलपुत्र, तद्यथापिनाम कुलपुत्र कश्चिद् एव पुरुषो भवेद् यस् त्रिसाहस्रमहासाहस्र्यां लोकधातौ तृणं वा, तं सर्वं अंगुलिमात्रं च्छिन्द्यात्.
[ससू(च्) 76] 1. द्वितीयाम् उपमां शृणु सर्वशूर: 2. तद्यथापिनाम यावन्तस् त्रिसाहस्रमहासाहस्र्यां लोकधातौ शिलान् वा, प्रपातान्, मृत्तिकान् वा, परमाणुरजो वा, ते सर्वे राजानश् चक्रवर्तिनो भवेयुश्, चतुर्द्वीपेश्वराः, सप्तरत्नसमन्वागताः; तत् किं मन्यसे सर्वशूर, यस् तेषां तावतां राज्ञां चक्रवर्तिनां पुण्यस्कन्धो न शक्यं तस्योपमां कर्तुं सर्वसत्वैर् अपि? 3. सर्वशूरो बोधिसत्व आह: न शक्यं भगवन्न्, अन्यत्र तथागतात्.
[ससू(च्) 77] 1. भगवान् आह: एवम् एव सर्वशूर न शक्यं संघाटसूत्रस्य धर्मपर्यायस्य लिख्यमानस्य पुण्यस्कन्धोपमां कर्तुम्. 2. यावन्तं तेषां राज्ञां चक्रवर्तिनां पुण्यम्, अतो बहुतरं पुण्यं प्रसवति य इतो धर्मपर्यायाद् एकाक्षरम् अपि लिखित्वा स्थापयेद्; बहुतरं तस्य पुण्यं वदामि, न त्व् एव तेषां राज्ञां चक्रवर्तिनां.
[ससू(च्) 78] 1. एवम् एव सर्वशूर, बोधिसत्वस्य महासत्वस्य महायानसद्धर्मधारकस्य प्रतिपत्तिस्थितस्य, यत् पुण्यं तन् न शक्यं राजभिश् चक्रवर्तिभिर् अभिभवितुं. 2. एवम् एवास्य संघाटस्य धर्मपर्यायस्य लेखनाद्, यत् पुण्यं, तन् न शक्यम् उपमां कर्तुं. 3. इमं सर्वशूर संघाटं सूत्रं पुण्यनिधानानि दर्शयति; 4. सर्वक्लेशान् उपशमयति; 5. सर्वधर्मोल्कां ज्वालयति; 6. सर्वमारान् पापीमतः पराजयति; 7. सर्वबोधिसत्वभवनान्य् उज्वालयति; 8. सर्वधर्मनिर्हारान् अभिनिर्हरति.
[ससू(च्) 79] 1. एवम् उक्ते सर्वशूरो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: इह भगवन् ब्रह्मचर्यं परमदुष्करचर्या. 2. तत् कस्य हेतोः? दुर्लभा भगवंस् तथागतचर्या, एवम् एव दुर्लभा ब्रह्मचर्या. 3. यदा च ब्रह्मचर्यं चरिष्यति तदा तथागतं संमुखं द्रक्ष्यति, रातृन्दिवं च तथागतदर्शनं भविष्यति; 4. यदा च तथागतं पश्यति तदा बुद्धक्षेत्रं पश्यति; 5. यदा बुद्धक्षेत्रं पश्यति तदा सर्वधर्मनिधानानि पश्यति; 6. यदा सर्वधर्मनिधानानि पश्यति तदास्य मरणकालसमये त्रासं नोत्पद्यते; 7. न स जातु मातुः कुक्षाव् उपपत्स्यते; 8. न तस्य जातु शोको भविष्यति; 9. न च तृष्णापाशेन बद्धो भविष्यति.
[ससू(च्) 80] 1. एवम् उक्ते भगवान् सर्वशूरं बोधिसत्वं महासत्वम् एतद् अवोचत्: दुर्लभः सर्वशूर तथागतानाम् उत्पादः? 2. आह: दुर्लभो भगवन् दुर्लभः सुगत! 3. भगवान् आह: एवम् एव सर्वशूर दुर्लभो ऽयं संघातो धर्मपर्यायः. 4. येषां खलु पुनः सर्वशूरायं संघाटो धर्मपर्यायः श्रोत्रावभासम् आगमिष्यति, सो ऽशीति कल्पां जात्या जातिस्मरो भविष्यति; 5. षष्टि कल्पसहस्राणि चक्रवर्तिराज्यं प्रतिलप्स्यते; 6. अष्टौ कल्पसहस्राणि शक्रत्वं प्रतिलप्स्यते; 7. पंचविंशतिः कल्पसहस्राणि शुद्धावासकायिकानान् देवानां सहभाव्यतायाम् उपपत्स्यते; 8. अष्टातृंशत् कल्पसहस्राणि महाब्रह्मा भविष्यति;
[ससू(च्) 81] 1. नवानवतिः कल्पसहस्राणि विनिपातं न गमिष्यति; 2. कल्पशतसहस्रं प्रेतेषु नोपपत्स्यते; 3. अष्टाविंशति कल्पसहस्राणि तिर्यक्षुर् नोपपत्स्यते; 4. त्रयोदश कल्पसहस्राण्य् असुरकायिकेषु नोपपत्स्यते; 5. न शस्त्रेण कालं करिष्यति, न विषेण, नाग्निना; 6. न चास्य परोपक्रमभयं भविष्यति;
[ससू(च्) 82] 1. पंचविंशतिः कल्पसहस्राणि न दुष्प्रज्ञो भविष्यति; 2. सप्त कल्पसहस्राणि प्रज्ञाचरितो भविष्यति; 3. नव कल्पसहस्राणि प्रासादिको भविष्यति, दर्शनीयः; यथा तथागतस्यार्हतः सम्यक्संबुद्धस्यरूपकायपरिनिष्पत्तिस् तथा तस्य भविष्यति; 4. पंचदश कल्पसहस्राणि न स्त्रीभावेषूपपत्स्यते; 5. षोडश कल्पसहस्राणि व्याधिः काये नाक्रमिष्यति; 6. पंचतृंशत् कल्पसहस्राणि दिव्यचक्षुर् भविष्यति;
[ससू(च्) 83] 1. एकोनविंशत् कल्पसहस्राणि नागयोनिषु नोपपत्स्यते; 2. षट् कल्पसहस्राणि न क्रोधाभिभूतो भविष्यति; 3. सप्त कल्पसहस्राणि दरिद्रकुलेषु नोपपत्स्यते; 4. अशीतिः कल्पसहस्राणि द्वौ द्वीपौ परिभुंक्ते; 5. यदा दरिद्रो भवति तदा ईदृशं सुखं प्रतिलप्स्यते: 6. द्वादश कल्पसहस्राणि अन्धयोनिषु नोपपत्स्यते; 7. त्रयोदश कल्पसहस्राणि अपायेषु नोपपत्स्यते; 8. एकादश कल्पसहस्राणि क्षान्तिवादी भविष्यति; 9. मरणकालसमये चरिमविज्ञाननिरोधे वर्तमाने, न विपरीतसंज्ञी भविष्यति; 10. न च क्रोधाभिभूतो भविष्यति;
[ससू(च्) 84] 1. स पूर्वस्यान् दिशि द्वादशगंगानदीबालिकासमान् बुद्धान् भगवतः संमुखन् द्रक्ष्यति; 2. दक्षिणस्यां दिशि विंशति बुद्धकोटी संमुखन् द्रक्ष्यति; 3. पश्चिमस्यान् दिशि पंचविंशतिगंगानदीबालिकासमान् बुद्धान् भगवतः संमुखं द्रक्ष्यति; 4. उत्तरस्यान् दिशि विंशतिगंगानदीबालिकासमान् बुद्धां भगवतः संमुखं द्रक्ष्यति; 5. ऊर्ध्वायां दिशि नवति कोटीसहस्राणि बुद्धानां भगवतां संमुखं द्रक्ष्यति; 6. अधस्ताद्दिशि कोटीशतं गंगानदीबालिकासमान् बुद्धान् भगवतः संमुखन् द्रक्ष्यति;
[ससू(च्) 85] 1. ते च सर्वे तथागतास् तं कुलपुत्रम् आश्वासयन्ति: मा भैः कुलपुत्र, तव, संघाटं सूत्रन् धर्मपर्यायं श्रुत्वा, इयन्तः सांपरायिकानि गुणानि सुखानि च भविष्यन्ति! 2. पश्यसि त्वं भोः कुलपुत्रेमान्य् अनेकानि गंगानदीबालिकासमानि तथागतकोटीनयुतशतसहस्राणि? 3. आह: पश्यामि भगवन् पश्यामि सुगत. 4. भगवान् आह: एते भोः कुलपुत्र तथागतास् तव सकाशम् उपसंक्रान्ता दर्शनाय.
[ससू(च्) 86] 1. आह: शृणु कुलपुत्र, त्वया मानुष्यकम् आत्मभावं प्रतिलभ्य संघाटं धर्मपर्यायं श्रोत्रावभासम् आगतं; तेन त्वया एतावत् पुण्यस्कन्धं प्रसूतं. 2. आह: यदि मम भगवन्न् एतावान् पुण्यस्कन्धः, कः पुनर् वादो यः सकलसमाप्तं श्रोष्यति!
[ससू(च्) 87] 1. आहा: अलम् भोः कुलपुत्र! चतुष्पदिकाया गाथायाः श्रुतायाः पुण्यं वर्णयामि. 2. तद्यथा कुलपुत्र, त्रयोदशगंगानदीबालिकासमानां तथागतानां अर्हतां सम्यक्संबुद्धानां यः पुण्यस्कन्धस्, ततो बहुतरं पुण्यस्कन्धं प्रसवति यश् चतुष्पदिकाम् अपि गाथाम् इतो धर्मपर्यायाच् छ्रोष्यति; 3. यश् च त्रयोदशगंगानदीबालिकासमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पूजयति, यश् चेतः संघाटाद् धर्मपर्यायाद् अन्तशश् चतुष्पादिकाम् अपि गाथां श्रोष्यति, अयं ततो बहुतरं पुण्यस्कन्धं प्रसविष्यति. 4. कः पुनर् वादो यः सकलसमाप्तं श्रोष्यति!
[ससू(च्) 88] 1. शृणु कुलपुत्र, यश् चेमं संघाटं सूत्रं धर्मपर्यायं सकलसमाप्तं श्रोष्यति तस्य कियन्तं पुण्यस्कन्धं प्रसविष्यति. 2. तद्यथापिनाम कश्चिद् एव पुरुषः एव पुरुषः सर्वस्यां तृसाहस्रमहासाहस्र्यां लोकधातौ तिलं वापयेद्; यावन्तस् ते तिलफलकास् तावन्तो राजानश् चक्रवर्तिनो भवेयुर्; अथ कश्चिद् एव पुरुषो भवेद् आढयो महाभोगः; 3. अथ खलु स पुरुषस् तेषां सर्वेषां राज्ञां चक्रवर्तिनां दानन् दद्यात्; यश् चैकस्य स्रोतआपन्नस्य दानम् दद्याद्, अयं ततो बहुतरं पुण्यस्कन्धं प्रसवति.
[ससू(च्) 89] 1. ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्वास् ते सर्वे स्रोतआपना भवेयुस्, तेषां सर्वेषां दानन् ददतो यत् पुण्यस्कन्धं, अयं ततो बहुतरं पुण्यस्कन्धं प्रसवति य एकस्य सकृदागामिनो दानन् दद्याद्. 2. ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्वास् ते सर्वे सकृदागामिनो भवेयुः, तेषां सर्वेषां दानन् ददतो यः पुण्यस्कन्धः, अयन् ततो बहुतरं पुण्यस्कन्धं प्रसवति य एकस्यानागामिनो दानान् दद्याद्. 3. ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्वास् ते सर्वे ऽनागामिनो भवेयुः, तेषां सर्वेषां दानन् ददतो यः पुण्यस्कन्धं, अयं ततो बहुतरं पुण्यस्कन्धं प्रसवति य एकस्यार्हतो दानन् दद्याद्. 4. ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्वास् ते सर्वे ऽर्हन्तो भवेयुः, तेषां सर्वेषां दानन् ददतो यः पुण्यस्कन्धः, अयं ततो बहुतरं पुण्यस्कन्धं प्रसवति य एकस्य प्रत्येकबुद्धस्य दानन् दद्याद्. 5. ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्वास् ते सर्वे प्रत्येकबुद्धा भवेयुस्, तेषान् सर्वेषां दानन् ददतो यः पुण्यस्कन्धः अयं ततो बहुतरं पुण्यस्कन्धं प्रसवति य एकस्य बोधिसत्वस्य दानन् दद्याद्. 6. ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्वास् ते सर्वे बोधिसत्वा भवेयुस्, तेषां सर्वेषां दानन् ददतो यः पुण्यस्कन्धः, अयं ततो बहुतरं पुण्यस्कन्धं प्रसवति य एकस्य तथागतस्य चित्तं प्रसादयेद्.
[ससू(च्) 90] 1. यश् च त्रिसाहस्रमहासाहस्र्यां लोकधातौ तथागतपरिपूर्णायां चित्तं प्रसादयेद्, अयम् एव ततो बहुतरं पुण्यस्कन्धं प्रसविष्यति य इमं संघाटसूत्रं धर्मपर्यायं श्रोष्यति. 2. कः पुनर् वादः सर्वशूर य इमन् धर्मपर्यायं लिखिष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति. 3. कः पुनर् वादः सर्वशूर य इमं संघाटसूत्रं धर्मपर्यायं चित्तप्रसादेन नमस्करिष्यति.
[ससू(च्) 91] 1. तत् किं मन्यसे सर्वशूर? शक्यम् इदं सूत्रं बालपृथग्जनैः श्रोतुं? 2. ये च श्रोष्यन्ति न च प्रसादम् उत्पादयिष्यन्ति. 3. शृणु सर्वशूर, सन्ति केचित् सर्वशूर बालपृथग्जनाः सत्वाः ये शक्नुयुर् महासमुद्रे गाधं लब्धुम्? 4. आह: नो हीदं भगवन्!
[ससू(च्) 92] 1. भगवान् आह: अस्ति पुनः सर्वशूर कश्चित् सत्वो य एकपाणितलेन समुद्रं क्षपयेद्? 2. आह: नो हीदं भगवन्, नो हीदं सुगत! 3. भगवान् आह: यथा सर्वशूर नास्ति स कश्चित् सत्वो यः शक्नुयाद् एकपाणितलेन महासमुद्रं शोषयितुं, एवम् एव सर्वशूर ये हीनाधिमुक्तिकाः सत्वाः न शक्यं तैर् अयन् धर्मपर्यायः श्रोतुं. 4. यैः सर्वशूराशीतिर् गंगानदीबालिकासमानि तथागतकोटीनयुतशतसहस्राणि न दृष्टानि, न तैः शक्यम् अयं संघाटं धर्मपर्यायं लिखितुं. 5. यैर् नवतिगंगानदीबालिकासमानि तथागतानि न दृष्टानि, न तैः शक्यम् अयन् धर्मपर्यायः श्रोतुम्.
[ससू(च्) 93] येन तथागतकोटीशतसहस्राणि न दृष्टानि, त इमन् धर्मपर्यायं श्रुत्वा प्रतिक्षिपन्ति. 2. यैः सर्वशूरगंगानदीबालिकासमानितथागतकोटीशतानि दृष्टानि, त इमन् धर्मपर्यायं श्रुत्वा प्रसादचित्तम् उत्पादयन्ति, हर्षयन्ति, यथाभूतं प्रजानन्ति. 3. य इमं संघाटं धर्मपर्यायं यथाभूतं श्रद्दधन्ति न प्रतिक्षिपन्ति.
[ससू(च्) 94] 1. शृणु सर्वशूर, ये केचिद् अस्मात् संघाटाद् धर्मपर्यायाद् एकाम् अपि चतुष्पदिकां गाथां लिखिष्यन्ति तेषां सर्वशूर सत्वानां, ततः पश्चात् पंचनवति कोटीसहस्रानि लोकधातूनाम् अतिक्रम्य यथा सुखावतीलोकधातुस्, तथा तेषां बुद्धक्षेत्रं भविष्यति; 2. तेषां च सर्वशूर सत्वानां चतुरशीतिः कल्पसहस्राण्य् आयुष्प्रमाणं भविष्यति.
[ससू(च्) 95] 1. शृणु सर्वशूर, ये बोधिसत्वा महासत्वा अस्मात् संघाटाद् धर्मपर्यायाद् अन्तशश् चतुष्पदिकाम् अपि गाथां श्रोष्यन्ति. 2. तद्यथा सर्वशूर कश्चित् सत्वो भवेद् यः पंचानन्तर्याणि कर्माणि कुर्यात्, कारयेद् वा, क्रियमाणानि वानुमोदेत्, स इतः संघाटाद् धर्मपर्यायाच् चतुष्पदिकाम् अपि गाथां शृणुयात्, तस्य तानि पंचानन्तर्याणि कर्माणि परिक्षयं गच्छेयुः.
[ससू(च्) 96] 1. शृणु सर्वशूर, पुनर् अपरं गुणम् आमन्त्रयामि: 2. तद्यथापिनाम कश्चित् सत्वो भवेद् यः स्तूपभेदं कारयेत्, संघभेदं च, 3. बोधिसत्वं समाधेर् उच्चालयेत्, 4. बुद्धज्ञानस्यान्तरायं कुर्यात्, 5. मातापितरं जीविताद् व्यवरोपयेद्
6. अथ स सत्वः पश्चात् परिदेवति, शोचति: नष्टो ऽहम् अनेन कायेन, नष्टं मे परलोकम् इति, कल्पम् एवाहं नष्टः. 7. ततो ऽस्य महाचिन्तायासं भवेत, दुःखां वेदनां वेदयेत, कटुकां वेदनां वेदयेत; 8. तस्य सर्वशूर सत्वस्य सर्वसत्वाः परिवर्जयन्ति, जुगुप्सन्ति च: 9. दग्धो नष्ट एष सत्व, लौकिकलोकोत्तराद् धर्मा नष्टो ऽनेकानि कल्पानि, यथा दग्धस्थूणा.
[ससू(च्) 97] 1. एवम् एवायं पुरुषः: यथा सुचित्रं गृहं दग्धस्थूणं न शोभते, एवम् एवायं स पुरुष इह लोके न शोभते; 2. यत्र यत्र च गच्छति तत्र तत्र सत्वैः परिभाष्यते, प्रहरन्ति च; 3. क्षुत्पिपासार्दितो ऽपि न किंचिल् लभते; 4. ततो दुःखां वेदनां वेदयति.
[ससू(च्) 98] 1. स क्षुत्पिपासाहेतुनापरिभाषाहेतुनाप्रहारहेतुना, स्तूपभेदं च, पंचानन्तर्याणि च कर्माणि समनुस्मरति; 2. स ततो दुःखान् निर्वेदचित्तम् उत्पादयति: कुत्राहं यास्यामि, को मे त्रात भविस्यति?
[ससू(च्) 99] 1. स एवं चिन्तयति: गमिष्याम्य् अहं पर्वतगिरिकन्दरेषु, प्रविशामि, तत्र मे कालक्रिया भविष्यति, न च मे इह कश्चित् त्रातास्ति. आह च:
(1) कृतं मे पापकं कर्म दग्धस्थूणं निरन्तरम् ।
नेमं लोके शोभयिष्ये न शोभयिष्यामि परत्र च ।
अन्तर्गृहे न शोभामि न शोभामि च बाहिरे ॥
(2) दोषहेतोः कृतं पापं तेन यास्यामि दुर्गतिम् ।
परत्र दुःखितः कुत्र वसिष्यामि ह दुर्गतौ ॥
(3) शृण्वन्ति देवता वाचम् अश्रुकण्ठं प्ररोदति ।
निराशः परलोके प्रयास्यामीह दुर्गतिं ॥
2. तं देवता आहुः:
(4) मूढो ऽसि गच्छ पुरुष मैवं चिन्तय दुःखितः ।
शरणो न च मे त्राणं दुःखां विन्दामि वेदनाम् ॥
(5) मातृघाटं पितृघाटं पंचानन्तर्याञ् च मे कृतम् ।
पर्वते मूर्ध्नि गच्छामि तत आत्मां त्यजाम्य् अहम् ॥
(6) मा गच्छ मूढपुरुष कर्म मा कुरु पापकं ।
बहु त्वया कृतं पापं व्यापन्नेन हि चेतसा ॥
(7) कुर्वन्ति ये आत्मघातं नरकं यान्ति दुःखिताः ।
ततः पतन्ति भूमीषु क्रन्दन्ति शोकवेदनाः ॥
(8) न तेन वीर्येण भवन्ति बुद्धा भवन्ति नैवापि च बोधिसत्वा ॥
न श्रावकं लभ्यति मोक्षयानम् अन्यस्य वीर्यस्य कुरुष्व यत्नम् ॥
(9) गच्छस्व तं पर्वतु येन सो ऋषि गत्वा च तं दृष्ट्व ऋषिं महात्मा ।
वन्दित्व पादौ शिरसा च तस्य त्राणं भवाही मम अग्रसत्व ॥
(10) देशेहि धर्मं कुशलं मुहूर्त्तम् भीतो ऽस्मि त्रस्तो अतिदुःखपीडितः ।
ऋषिर् वदन्तं शृणु सत्वसार निषद्य चित्तस्य क्षणं कुरुष्व ॥
(11) भीतः स त्रस्तो अतिदुःखपीडितस् ततो निषण्णः क्षणिको मुहूर्तम् ।
देशेमि पापं कृत यन् मया बहू ऋषिर् हि वाचम् इदम् अब्रवीति ॥
4. ऋषिर् आह:
(12) भुंजाहि तं भोजनु यद् ददामि दुःखेन च क्रन्दसि शोकपीडितः ।
क्षुधा पिपासाय च पीडितस् त्वं निराशकश् च त्रिभवाद् भविष्यसि ॥
(13) भोजनान्य् उपनामित्वा ऋषिः सत्वं प्रसादयन् ।
मृष्टं भुंज मनापं च शरीरे तर्पणार्थिकं ॥
(14) पश्चात् ते धर्म भाषामि सर्वपापक्षयंकरम् ।
तस्य तद् भोजनं मृष्टं मुहूर्तं भुक्तवान् असौ ॥
(15) भुक्त्वा हस्तौ च प्रक्षाल्य कृत्वा प्रदक्षिणं ऋषिं ।
पर्यंकेन निषीदित्वा वद यत् पापकं कृतम् ॥
(16) मातृघातं पितृघातं स्तूपभेदं मया कृतं ।
बोधिसत्वस्य बुद्धत्वे अन्तरायं कृतं मया ॥
(17) तस्य तद् वचनं श्रुत्वा ऋषिर् वाक्यम् अथाब्रवीत् ।
असाधुस् तव भो पुरुष यत् कृतं पापकं त्वया ।
देशेहि पापकं कर्म कृतं कारापितं च यत् ॥
5. अथ खलु तस्मिन् काले स पुरुषः शोकशल्यसमर्पितो, भीतस्, त्रस्त, उद्विग्नः: को मे त्राता भविष्यति?
(18) कृतं मे पापकं कर्म दुःखां वेत्स्यामि वेदनां ।
को मे स्यात् त्रायको नाथो यो मे दुःखात् प्रमोचयेत् ॥
6. अथ खलु स पुरुषस् तस्य ऋषेर् जानुद्वयं भूमौ निपात्याह च:
(19) देशेयं पापकं कर्म यत् कृतं कारितं मया ।
मा फलं पापकं भोतु मा मे स्याद् दुःखवेदना ॥
(20) ऋषिस् त्राणं भवेन् मह्यम् आसन्नो ऽहं भवेन् तव ।
निष्कौकृत्यस्य शान्तस्य शम्यन्तां पापकान् मम ॥
[ससू(च्) 100] 1. अथ खलु स रिषिस् तेन कालेन तेन समयेन तं पुरुषम् एतद् अवोचत्, एवं चाश्वासयति: 2. मा भैः पुरुष, अहं ते त्राणं भविष्याम्य्, अहन् ते गतिर्, अहं परायणं भविष्यामि; 3. संमुखं धर्मं शृणु. श्रुतं त्वया किंचित् संघाटं नाम धर्मपर्यायं? 4. स आह: न मे कदाचिच् छ्रुतं. 5. ऋषिर् आह: को ऽग्निदग्धस्य सत्वस्य धर्मन् देशयत्य् अन्यत्र यः करुणाविहारितया सत्वानां धर्मन् देशयति? 6. आह: शृणु कुलपुत्र,
[ससू(च्) 101] 1. भूतपूर्वं, असंख्येयैः कल्पैर् असंख्येयतरैर् यदासीत् तेन कालेन तेन समयेन, विमलचन्द्रो नाम राजाभूद्, धार्मिको, धर्मराजा. 2. तस्य खलु पुनः कुलपुत्र राज्ञो विमलचन्द्रस्य गृहे पुत्रो जातः.
[ससू(च्) 102] 1. अथ स राजा विमलचन्द्रो लक्षणनैमित्तिकां छास्त्रपाठकान् ब्राह्मणान् सन्निपात्यैवम् आह: 2. किं ब्राह्मणाः कुमारस्य निमित्तं पश्यथ, शोभनम् अशोभनं वेति? 3. अथ नैमित्तिका ब्राह्मणाः कथयत्य्: असाधुर् अयं महाराज कुमारो जातः, असाधुर् इति. 4. राजा श्रुत्वा ससंभ्रमं पप्रच्छ: किमिदं ब्राह्मणा? 5. नैमित्तिकाः कथयन्त्य्: अयं देव राजकुमारो यदि सप्त वर्षाणि जीवति स एष मातापितरं जीविताद् व्यावरोपयिष्यति. 6. ततो स राजा एवम् आह: वरं मे जीवितान्तरायो भवतु मा चाहं पुत्रं वधेयं. 7. तत् कस्मात्? कदाचित् कर्हचिल् लोके मनुष्योत्पादं लभ्यते. 8. नाहं तथा करिष्यामि यद् इमं मानुष्यकं कायं विरागयिष्यामि.
[ससू(च्) 103] 1. अथ स कुमारो वर्धते: यद् अन्ये वर्षद्वयेन वर्धन्ते तदासाव् एकेन मासेन वर्धते; 2. जानाति च स राजा विमलचन्द्रो: ऽयं कुमारो मम कर्मोपचयेन वर्धते. 3. ततो राजा तस्य कुमारस्य पट्टम् आबन्ध्यैवम् आह: तव राज्यं भवतु, विपुला च कीर्ति, राज्यभोगैश्वर्यं च कारय धर्मेण, मा अधर्मेण. 4. ततः पट्टं बध्वा, राजेति नामधेयम् अकरोत्. 5. स च राजा विमलचन्द्रो न भूयः स्वविषये राज्यं कारयत्य्.
[ससू(च्) 104] 1. अथ ते त्रिंशद् अमात्यकोट्यो, येन स राजा विमलचन्द्रस् तेनोपसंक्रान्ता, उपेत्य, तं राजानं विमलचन्द्रम् एवम् आहुः: कस्मात् त्वं भोः महाराज स्वविषये न भूयो राज्यं कारयसि? 2. राजाह: बहून्य् असंख्येयानि कल्पानि, यन् मया राज्यभोगैश्वर्याधिपत्यं कारितं, न च मे कदाचिद् विषयेषु तृप्तिर् आसीत्. 3. तेन च कालेन तेन समयेन न चिरेण कालान्तरेण स पुत्रस् तं मातापितरं जीविताद् व्यवरोपयति, 4. तेन च तत्र पंचानन्तर्याणि कर्मान्य् उपचितानि. 5. अहं च भोः पुरुष तावच् चिरं कालसमयम् अनुस्मरामि यथाद्य श्वो वा.
[ससू(च्) 105] 1. यदा तस्य राज्ञो दुःखा वेदना उत्पन्ना तदा स राजा विप्रतिसारीभूतो ऽश्रुकण्ठः परिदेवति: पापं मे कर्म कृतम् इति! अवीचौ महानरके दुःखां वेदनां प्रत्यनुभविष्यामीति! 2. ततो ऽहं कारुण्यचित्तम् उत्पाद्य तत्र गत्वा तस्य राज्ञो धर्मन् देशयितवान्; 3. अथ स राजा तं धर्मं श्रुत्वा तस्य तानि पंचानन्तर्याणि कर्माणि क्षिप्रं निरवशेषं परिक्षयं गतानि. आह:
(1) संघाटं धर्मपर्यायं सूत्रराजं महातपाः ।
ये श्रोष्यन्ति इमन् धर्मन् पदं प्राप्स्यन्त्य् अनुत्तरम् ॥
(2) सर्वपापक्षयं भवति सर्वक्लेशांच् छमिष्यति ।
शृणु धर्मं प्रवक्ष्यामि येन क्षिप्रं विमोक्षसे ॥
(3) चतुष्पदायां गाथायां भाष्यमाणं निरन्तरं ।
सर्वपापक्षयं कृत्वा स्रोतापन्नो भविष्यसि ॥
(4) ततोदानं उदानेमि सर्वपापप्रमोचनं ।
मोचिता दुःखिता सत्वा नारकाद् भयभैरवात् ॥
(5) ततः स पुरुषोत्थाय आसनाद् अञ्जलीकृतः ।
प्रणम्य शिरसा तस्य साधुकारं प्रयच्छति ॥
(6) साधु कल्याणमित्राणि साधु पापविनाशक ।
साधु संघाटनिर्देशं ये श्रोष्यन्ति महानयं ॥
[ससू(च्) 106] 1. अथ खलु तेन कालेन तेन समयेनोपर्य् अन्तरिक्षे स्थितानि द्वादश देवपुत्रसहस्राणि कृतांजलिपुटानि, तम् ऋषिम् उपगम्य, पादौ शिरसा प्रणम्य, एवम् आहुः: भगवन्, केवच् चिरं स्मरसि महातप? 2. एवं चत्वारः कोटीर् नागराज्ञाम् आगत्य, अष्टादश कोटीसहस्राणि यक्षराज्ञाम् आगत्य, येन स ऋषिस् तेनांजलिं प्रणाम्य, एवम् आहुः: केवच् चिरं स्मरसि?
[ससू(च्) 107] 1. महात्मा ऋषिर् आह: शतम् असंख्येयकल्पकोटीनयुतसहस्राणि समनुस्मरामि. 2. आहु: केन कुशलकर्मणा मुहूर्तमात्रेणैवं पापं कर्म प्रशान्तम्? 3. आह: संघाटं धर्मपर्यायं श्रुत्वा, अनेन कुशलकर्मणा सर्वपापकर्म प्रशान्तम्;
[ससू(च्) 108] 1. ये च तत्र सत्वाः सन्निपतिताः, यैर् इमं धर्मपर्यायं श्रुत्वा श्रद्दधानता वा कृता, ते सर्वे व्याक्रियन्ते ऽनुत्तरायां सम्यक्संबोधौ; 2. येन च पुरुषेण तानि पंचानन्तर्याणि कर्माणि कृतानि, तेनेमं संघाटं धर्मपर्यायं श्रुत्वा मुहूर्तमात्रेण तानि पंचानन्तर्याणि कर्माणि निरवशेषं परिक्षयं पर्यादानं कृताणि; 3. तस्यानेकानि कल्पकोटीनयुतशतसहस्राणि सर्वदुर्गतिद्वाराणि पिथितानि भवन्ति; 4. द्वात्रिंशद् देवलोकद्वाराण्य् अपावृतानि भवन्ति; 5. य इतः संघाटाद् धर्मपर्यायाद् अन्तशश् चतुष्पदिकाम् अपि गाथां श्रोष्यति, तस्येतादृशानि कुशलमूलानि भविष्यन्ति; 6. कः पुनर् वादो यः संघाटसूत्रं सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर्वाद्यांजलिकर्मप्रणामं वा करिष्यति, एकां वारां अनुमोदिष्यत्य्, एवं च वक्ष्यति: साधु सुभाषितम् इति!
[ससू(च्) 109] 1. अथ खलु सर्वशूरो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: कियन्तं भगवन्न् अञ्जलिप्रणामात् पुण्यस्कन्धं प्रसवति ये ते संघाटं धर्मपर्यायं भाष्यमाणं श्रुत्वाञ्जलिं कृत्वा प्रणमन्ति? 2. भगवान् आह: शृणु कुलपुत्र, येन पंचानन्तर्याणि कर्माणि कृताणि, कारितानि, क्रियमाणानि वानुमोदितानि, यदि स इतः संघाटाद् धर्मपर्यायाद् अन्तशश् चतुष्पदिकाम् अपि गाथां श्रुत्वाञ्जलिं प्रणामयिष्यति, तस्य तानि सर्वाणि पंचानन्तर्याणि कर्माणि क्षयं गतानि भविष्यन्ति; 3. कः पुनर् वादः सर्वशूर यः सकलसमाप्तम् एवायं धर्मपर्यायं श्रोष्यत्य्: अयं ततो बहुतरं पुण्यस्कन्धं प्रसविष्यति.
[ससू(च्) 110] 1. उपमां ते कुलपुत्र करिष्यामि अस्य संघाटसूत्रार्थस्य विज्ञप्तये: 2. तद्यथापिनाम सर्वशूरानवतप्तस्य नागराजस्य भवने न कदाचित् सूर्यो ऽवभासयति, ततश् च पंच महानद्यः प्रवहन्ति. अथ कश्चिद् एव पुरुषो भवेद् यस् तासां पंचानां महानदीनाम् उदकस्य बिन्दूनि गणयेत्. 4. तत् किं मन्यसे सर्वशूर, शक्यं तेषाम् उदकविन्दुनां गणनायोगेन पर्यन्तम् अधिगन्तुम्? 5. आह: नो हीदं भगवन्, नो हीदं सुगत! 6. भगवान् आह: एवम् एव सर्वशूर न शक्यं संघाटसूत्रस्य धर्मपर्यायस्य कुशलमूलं, कल्पेन वा, कल्पशतेन वा, कल्पसहस्रेण वा, कल्पकोटीनयुतशतसहस्रेण वा, गणनया पर्यन्तम् अधिगन्तुं.
[ससू(च्) 111] 1. तत् किं मन्यसे सर्वशूर, दुष्करं तस्य य इमं संघाटं धर्मपर्यायं मुहूर्तं प्रकाशयेत? 2. आह: दुष्करं भगवं! 3. भगवान् आह: अतः सुदुष्करतरं सर्वशूर तस्य य इमं संघाटं धर्मपर्यायं शक्ष्यति श्रोतुम्.
[ससू(च्) 112] 1. तद्यथा अनवतप्तात् पंच महानद्यः प्रवहन्ति, तासां पंचानां महानदीनां प्रवहन्तीनाम् उदकविन्दून् न शक्यं गणनया पर्यन्तम् अधिगन्तुम्, एवम् एवास्य धर्मपर्यायस्य पुण्यस्कन्धस्य न शक्यं पर्यन्तम् अधिगन्तुम्. सर्वशूर आह: कतमास् ता भगवन् पंच महानद्यः? 3. भगवान् आह: तद्यथा: गंगा, सीता, वक्षुर्, यमुना, चन्द्रभागा च. 4. इमा सर्वशूर पंच महानद्यो महासमुद्रे प्रविशन्ति; 5. एकैका च महानदी पंचनदीशतपरिवारा.
[ससू(च्) 113] 1. पुनर् अपरं सर्वशूर, पंचेमा महानद्यः आकाशे प्रवहन्ति या प्रजां प्रह्लादयन्ति; 2. ताश् च पंच महानद्यः एकैका सहस्रपरिवाराः. 3. आह: कतमास् ता भगवन् पंच महानद्यः सहस्रापरिवाराः? 4. भगवान् आह: सुन्दरी नाम नदी सहस्रपरिवारा, शंखा नाम नदी सहस्रपरिवारा, वहन्ती नाम नदी सहस्रपरिवारा, चित्रसेना नाम नदी सहस्रपरिवारा, धर्मवृत्ता नाम नदी सहस्रपरिवारा. 5. इमास् ता सर्वशूर पंच महानद्यः सहस्रपरिवारा या जंबुद्वीपे औत्सुक्यम् आपद्यन्ते, याः कालेन कालं जंबुद्वीपे बिन्दुभिर् वर्षधाराः प्रमुंचन्ति; 6. तेन पुष्पफलसस्यान्य् अभिरुह्यन्ति. 7. यदा जंबुद्वीपे वर्षधाराः प्रपतन्ति, तदा उदकं जायते, जातं चोदकं, सर्वक्षेत्रारामेषु तृप्तेषु, सत्वाः सुखिनो भवन्ति.
[ससू(च्) 114] 1. तद्यथापिनाम सर्वशूर प्रजापति सर्वजंबुद्वीपे सुखं कारयति, एवम् एव सर्वशूरायं संघाटो धर्मपर्याय बहुजनहिताय जंबुद्वीपे प्रकाशितः. 2. यथा देवानां त्रायस्त्रिंशतां आयुष्प्रमाणं न तथा मनुष्याणां. 3. कतमे सर्वशूर त्रायस्त्रिंशा देवा यत्र शक्रो देवानाम् इन्द्रः प्रतिवसति. 4. ते त्रायस्त्रिंशा नाम देवाः सन्ति तद्यथा सर्वशूर सत्वा ये वाक्सुचरितं भाषन्ते. 5. तेषां न शक्यं पुण्यस्कन्धस्योपमां कर्तुं.
[ससू(च्) 115] 1. सन्ति सर्वशूर सत्वा ये वाग्दुश्चरितं भाषन्ते; 2. न शक्यं तेषाम् अपुण्यस्कन्धस्योपमां कर्तुम् यत् ते सत्वाः नरकतिर्यक्प्रेतदुःखां वेदनां वेदयन्ति; 3. न च कश्चित् तेषां त्राता भवति; तत्र ते निराशाः परिदेवन्ते नरकेषु प्रपतमानाः; 4. तद् अकल्याणमित्रवशेन द्रष्टव्यं. 5. ये सत्वा वाक्सुचरितं भाषन्ते तेषां न शक्यं पुण्यस्कन्धस्योपमां कर्तुं; 6. तत् कल्याणमित्रवशेन द्रष्टव्यं.
[ससू(च्) 116] 1. यदा कल्याणमित्रं पश्यति, तदा तथागतो दृष्टो भवति; 2. यदा तथागतं पश्यति, तदा तस्य सर्वपापक्षयो भवति; 3. यदा सर्वपापक्षयो भवति, तदा प्रजापतिर् जंबुद्वीपे औत्सुक्यं करोति; 4. यदा प्रजापतिर् जंबुद्वीपे औत्सुक्यं करोति, तदा जंबुद्वीपकानां सत्वानां सुखस्य न शक्यम् उपमां कर्तुम्. 5. एवम् एवायं सर्वशूर संघाटो धर्मपर्यायो जंबुद्वीपे बुद्धकृत्यं करोति; 6. तदा न शक्यं तेषां सत्वानां पुण्यस्कन्धस्योपमां कर्तुम्.
[ससू(च्) 117] तद्यथापिनाम सर्वशूर, यत्रेमाः पंच महानद्यः संभेदं समवसरणं गच्छन्ति, तत्र न शक्यम् उदकस्य प्रमाणम् उद्ग्रहीतुं, एतावद् उदककुंभा वा, उदककुंभशतानि वा, उदककुंभसहस्राणि वा, उदककुंभशतसहस्राणि वा. अपि तु बहुत्वाद् उदकस्य महान् उदकस्कन्ध: इति संख्यां गच्छति.
[ससू(च्) 118] एवम् एव सर्वशूर यदा जंबुद्वीपका सत्वा इमं संघाटं धर्मपर्यायं श्रोष्यन्ति, श्रुत्वा चोद्ग्रहीष्यन्ति धारयिष्यन्ति, वाचयिष्यन्ति, पर्यवाप्स्यन्ति, परेषां च विस्तरेण संप्रकाशयिष्यन्ति, प्रतिपत्त्या च संपादयिष्यन्ति, तदा न शक्यं तेषां सत्वानां पुण्यस्कन्धस्य प्रमाणं उद्ग्रहीतुम्. अपि तु बहुत्वात् पुण्यस्य महान् पुण्यस्कन्ध: इति संख्यां गच्छति.
[ससू(च्) 119] 1. ये सर्वशूर सत्वाः संघाटं धर्मपर्यायं न श्रोष्यन्ति, न तैः शक्यम् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम्; 2. न शक्यं धर्मचक्रं प्रवर्तयितुम्; 3. न शक्यं धर्मगण्डी पराहनितुम्; 4. न शक्यं तैर् धर्मसिंहासनम् अभिरोढुं; 5. न शक्यं निर्वाणधातुम् अनुप्रवेष्टुं; 6. न शक्यम् अप्रमेयै रश्मिभिर् अवभासयितुम्; 7. य इमं सर्वशूर संघाटं धर्मपर्यायं न श्रोष्यन्ति, न शक्यं तैर् बोधिमण्डे निषत्तुं.
[ससू(च्) 120] 1. सर्वशूर आह: पृच्छामि भगवं, पृच्छामि सुगत कंचिद् एव कौतुहलम्. 2. भगवान् आह: पृच्छ त्वं सर्वशूर, यद् यद् एवाकांक्षस्य् अहं ते निष्कांक्षं करिष्यामि. 3. सर्वशूर आह: कतमः स भगवन् ऋषिर् अभूद् येन ते सत्वाः पंचभिर् आनन्तर्यैः कर्मभिः परिमोक्षिताः, अवैवर्तिकभूमौ च प्रतिष्ठापिताः? 4. भगवान् आह:
(1) सूक्ष्मं वचन बुद्धानां सर्वशूर शृणोहि मे ।
संघाटदर्शनं सूत्रं ऋषिरूपेण दर्शितम् ॥
(2) संघाटो बुद्धरूपं च दर्शयत्य् अनुकम्पया ।
यथा बालिक गंगाया रूपं दर्शयते तथा ॥
(3) बुद्धो दर्शयते रूपं धर्मन् देशयते स्वयम् ।
बुद्धं य इच्छते द्रष्टुं लोकनाथं जिनोत्तमं ॥
(4) संघाटस् तेन श्रोतव्यः संघाटं बुद्धसादृशं ।
बुद्धस् तत्र भवेन् नित्यं संघाटं यत्र तिष्ठति ॥
[ससू(च्) 121] 1. तत्र खलु भगवान् पुनर् अपि सर्वशूरं बोधिसत्वम् आमन्त्रयते स्म: 2. भूतपूर्वं सर्वशूरातीते ऽध्वनि नवानवत्य् असंख्येयान् कल्पान् अनुस्मरामि; 3. तत्र द्वादश बुद्धकोट्यो बभूवन्, रत्नोत्तमनामानस्, तथागता, अर्हन्तः, सम्यक्संबुद्धाः. 4. अहं तेन कालेन तेन समयेन प्रदानशूरो ऽभूवं चन्द्रो नाम. 5. ते च मे द्वादश बुद्धकोट्य पर्युपासिताः; खादनीयभोजनीयमाल्यगन्धविलेपनेन, यथासुखं, प्रणीतेनाहारेण, सर्वसुखोपधानेनोपस्थिताः; उपस्थाप्य च, 6. तत्रैव मया सर्वशूर व्याकरणम् अनुत्तरायां सम्यक्संबोधौ प्रतिलब्धम्.
[ससू(च्) 122] 1. अनुस्मराम्य् अहं सर्वशूर: अष्टादश बुद्धकोट्य, सर्वे रत्नावभासनामानस् तथागता लोक उत्पन्ना अभूवन्. 2. तत्राहम् अपि प्रदानशूरो ऽभूवं गर्भसेनो नाम. 3. ते चाष्टादश बुद्धकोट्यो मया पर्युपासिताः, पूजिताश् च, यथा तथागतानां प्रत्यर्हं गन्धमाल्यविलेपनालंकारविभूषणैः. 4. तत्र च मे व्याकरणम् अनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं.
[ससू(च्) 123] 1. अनुस्मराम्य् अहं सर्वशूर: विंशति बुद्धकोट्यः शिखिसंभवनामानस्, तथागता, अर्हन्तः, सम्यक्संबुद्धा लोक उदपद्यन्त. 2. पूजिता मे ते बुद्धा भगवन्तो यथा प्रत्यर्हेण पूजसत्कारेण. 3. तत्रैव च मे व्याकरणम् अनुत्तरायां सम्यक्संबोधौ प्रतिलब्धम्; 4. न चाद्यापि कालसमयम् अभूद् व्याकरणाय.
[ससू(च्) 124] 1. अनुस्मराम्य् अहं सर्वशूर: विंशत्य् एव बुद्धकोट्यः काश्यपनामानस्, तथागता, अर्हन्तः, सम्यक्संबुद्धा लोक उदपद्यन्त. 2. तत्राहम् अपि प्रदानशूरो ऽभूवं. 3. कृतं मे तेषां तथागतानाम् उपस्थानं; गन्धेन, माल्येन, विलेपनेन, तथागतगुरूपस्थानेनोपस्थिताः; यथा तथागतानां गुरुगौरवं कर्तव्यं तथा कृतं. 4. तत्रैव च मे व्याकरणम् अनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं.
[ससू(च्) 125] 1. अनुस्मराम्य् अहं सर्वशूर: षोडश बुद्धकोट्यो ऽभूवन्, विमलप्रभासनामानस्, तथागता, अर्हन्तः, सम्यक्संबुद्धाः. 2. तेन च कालेन तेन समयेनाहं गृहपतिर् अभूवम्, आढ्यो महाधनो, महाभोगः, सर्वस्वपरित्यागी. 3. ते च मया षोडश बुद्धकोट्यः पूजिता, आस्तरणप्रावरणेन, गन्धेन, माल्येन, विलेपनेन, विभूषणाच्छादनेन च; यथा तथागतानां गुरूपस्थानं कर्तव्यं तथा च मया कृतं. 4. तत्रैव च मे व्याकरणम् अनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं; 5. न च मे कालं न समयम् अभूद् व्याकरणाय.
[ससू(च्) 126] 1. शृणु सर्वशूर, अनुस्मराम्य् अहं: पंचनवतिर् बुद्धकोट्यो लोक उत्पन्नान्य् अभूवन्, सर्वे शाक्यमुनिनामानस्, तथागता, अर्हन्तः, सम्यक्संबुद्धाः. 2. अहं च तेन कालेन तेन समयेन च राजाभूवं, धार्मिको, धर्मराजा. 3. पर्युपासिता मे ते पंचनवतिर् बुद्धकोट्यः शाक्यमुनिनामधेयास् तथागताः, गन्धेन, माल्येन, विलेपनेन, आस्तरणप्रवरणेन, च्छत्रध्वजपताकाभिश् च. 4. तत्रैव च मे व्याकरणम् अनुत्तरायां सम्यक्संबोधौ प्रतिलब्धम्.
[ससू(च्) 127] 1. अनुस्मराम्य् अहं सर्वशूर: नवति बुद्धकोट्यः क्रकत्सुदनामानस्, तथागता, अर्हन्तः, सम्यक्संबुद्धा, लोक उदपद्यन्त. 2. अहं च तेन कालेन तेन समयेन ब्राह्मणकुमारो ऽभूवम्, आढ्यो, महाधनो, महाभोगः, प्रदानदाता, सर्वस्वपरित्यागी. 3. ते च मया तथागता सर्वे उपस्थिताः, गन्धेन, माल्येन, विलेपनेन, आस्तराणप्रावरणेन, विभूषणाच्छादनेन; यादृशं च तथागतानाम् उपस्थानं तथा तेषां मया प्रत्यर्हम् उपस्थानं कृतं. 4. तत्रैव च मे व्याकरणम् अनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं; 5. न च मे कालं न समयं व्याकरणाय.
[ससू(च्) 128] 1. अनुस्मराम्य् अहं सर्वशूर: अष्टादश बुद्धकोट्यो लोक उदपद्यन्त, सर्वे कनकमुनिनामानस्, तथागता, अर्हन्तः, सम्यक्संबुद्धाः. 2. अहं च तेन कालेन तेन समयेन प्रदानशूरो ऽभूवम्. 3. पर्युपासिता मे ते तथागता अर्हन्तः सम्यक्संबुद्धाः, पूजिताश् च गन्धेन, माल्येन, विलेपनेन, आस्तरणप्रावरणेन, विभूषणेन; यथा तथागतानां गुरूपस्थानां तथा मे उपस्थिताः. 4. तत्रैव च मे व्याकरणम् अनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं; 5. न च मे कालं न समयं व्याकरणाय.
[ससू(च्) 129] 1. अनुस्मराम्य् अहं सर्वशूर: त्रयोदश बुद्धकोट्यो लोक उदपद्यन्त, सर्वे ऽवभासश्रीनामानस्, तथागता, अर्हन्तः, सम्यक्संबुद्धाः. 2. ते च मे तथागताः पूजिता, आस्तरणप्रावरणेन, गन्धेन, माल्येन, विलेपनाच्छादनविभूषणेन; यथा तथागतानां गुरूपस्थानं कृतं तादृशम् उपस्थानम् उपस्थिताः. 3. तैश् च तथागतैर् नानाधर्ममुखानि भाषितानि अर्थविनयविनिश्चयात्. 4. तत्रैव च मे व्याकरणम् अनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं; 5. न चाद्यापि समयं व्याकरणाय.
[ससू(च्) 130] 1. अनुस्मराम्य् अहं सर्वशूर: पंचविंशति बुद्धकोट्यः पुष्यनामानस्, तथागता, अर्हन्तः, सम्यक्संबुद्धा लोक उदपाद्यन्त. 2. अहं च तेन कालेन तेन समयेन प्रव्रजितो ऽभूवम्. 3. पर्युपासिता मे ते तथागता; यथानन्द एतर्हि ममोपस्थानम् उपतिष्ठति, तादृशं च मे ते तथागता उपस्थिताः. 4. तत्रैव च मे व्याकरणम् अनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं; 5. न चाद्यापि समयम् अभूद् व्याकरणाय.
[ससू(च्) 131] 1. अनुस्मराम्य् अहं सर्वशूर: अष्टादश बुद्धकोट्यो विपश्यिनामानस्, तथागता, अर्हन्तः, सम्यक्संबुद्धा लोक उदपद्यन्त. 2. पर्युपासिता मे ते तथागता अर्हन्तः सम्यक्संबुद्धाः, आभरणप्रावरणेन, आच्छादनगन्धमाल्यविलेपनेन; यथा तथागतोपस्थानं तथा मे उपस्थिता. 3. अहं च तेन कालेन तेन समयेन प्रव्रजितो ऽभूवम्. 4. तत्रैव चाहं व्याकरणम् अनुत्तरायां सम्यक्संबोधौ प्रतिलब्धवान्; 5. न चाद्यापि समयं व्याकरणाय, न चिरेण कालेन.
[ससू(च्) 132] 1. यः पश्चिमको विपश्यी लोक उत्पन्नः स इमं संघाटं धर्मपर्यायं भाषितवान्. 2. तम् अहं ज्ञात्वा, तस्मिन् समये, जंबुद्वीपे सप्तरत्नवर्षं प्रवृष्टवान्. तदा ते जांबुद्वीपकाः सत्वा अदरिद्रा संवृत्ताः. 3. तत्रैव चाहं व्याकरणम् अनुत्तरायां सम्यक्संबोधौ प्रतिलब्धवान्; 4. ततश् चिरेण कालसमयेनाद्यापि च मां न व्याकरोत्य् अनुत्पत्तिकधर्मक्षान्तिव्याकरणेन.
[ससू(च्) 133] 1. आह: कतमः स भगवन् कालः, कतमः स समयः? 2. भगवान् आह: शृणु सर्वशूर, ततो ऽप्य् असंख्येयैः कल्पैर् दीपंकरो नाम तथागतो, ऽर्हन्, सम्यक्संबुद्धो लोक उदपादि. 3. ततो ऽहं सर्वशुर तेन कालेन तेन समयेन मेघो नाम माणवको ऽभूवम्. 4. यदा स दीपंकरस् तथागतो लोक उत्पन्नः, तदाहम् अपि तस्मिन् काले तस्मिन् समये ब्रह्मचर्यम् अचार्षं माणवकरूपेण. 5. ततो ऽहं, भगवन्तन् दीपंकरन् तथागतं दृष्ट्वा, प्रसादप्रतिलब्धः सप्तभिर् उत्पलैर् अवकीर्णवाम्, तच् च तथागतावरोपितं कुशलमूलम् अनुत्तरायां सम्यक्संबोधौ परिणामितम्. 6. स च मान् दीपंकरस् तथागतो व्याकार्षीद्: भविष्यसि त्वं माणवकानागते ऽध्वन्य् असंख्येयैः कल्पैः शाक्यमुनिर् नाम तथागतो, ऽर्हन्, सम्यक्संबुद्ध इति.
[ससू(च्) 134] 1. ततो ऽहं सर्वशूर, द्वादशतालमात्रं विहायसम् अन्तरीक्षे स्थित्वा, अनुत्पत्तिकधर्मक्षान्तिं प्रतिलब्धवान्. 2. यच् च मे सर्वशूरासंख्येयेषु कल्पेषु ब्रह्मचर्यं चीर्णं, यच् च पारमिताप्रतिसंयुक्तं कुशलमूलं, तत् सर्वम् आमुखीभूतम् इवानुस्मरामि यथाद्य श्वो वा. 3. तत्र मया सर्वशूरानेकानि सत्वकोटीनयुतशतसहस्राणि कुशलेषु धर्मेषु प्रतिष्ठापितानि. 4. कः पुनर् वादः सर्वशूर, य एतर्ह्य् अहम्, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः, सर्वसत्वहितैषी, कारुणिकः, सत्वानां निरोधधर्मन् देशयिष्यामि.
[ससू(च्) 135] 1. नैतत् स्थानं विद्यते. तत् कस्य हेतोः? 2. बहुप्रकारं चाहं सर्वशूर सत्वानान् धर्मन् देशयामि: यथारूपवैनेयानां सत्वानां, तथारूपेण धर्मन् देशयामि. 3. देवरूपेण देवलोके धर्मन् देशयामि; 4. नागभवने नागरूपेण धर्मन् देशयामि; 5. यक्षभवने यक्षरूपेण धर्मन् देशयामि; 6. प्रेतभवने प्रेतरूपेण धर्मन् देशयामि; 7. मनुष्यलोके मनुष्यरूपेण धर्मन् देशयामि; 8. बुद्धवैनेयानां सत्वानां बुद्धरूपेण धर्मन् देशयामि; 9. बोधिसत्वावैनेयानां सत्वानां बोधिसत्वरूपेण धर्मन् देशयामि; 10. येन येन रूपेण सत्वा विनयं गच्छन्ति, तेन तेन रूपेणाहं सत्वानान् धर्मन् देशयामि; एवं बहुप्रकारम् अहं सर्वशूर सत्वानान् धर्मन् देशयामि.
[ससू(च्) 136] 1. तत् कस्य हेतोर्? यथैव सर्वशूर सत्वा बहुप्रकारं धर्मं शृण्वन्ति, तथैव ते सत्वसारा बहुप्रकारं कुशलमूलानि करिष्यन्ति, 2. दानानि च ददन्ति, पुण्यानि च कुर्वन्ति, स्वार्थे च प्रतिजागरन्ति, मरणानुस्मृतिं च भावयिष्यन्ति; 3. ते चैवंरूपं कुशलं कर्माभिसंस्कारं करिष्यन्ति; 4. तेन च धर्मश्रवणहेतुना तत् पूर्वकं कुशलमूलं संस्मरिष्यन्ति. 5. तेषां तद् भविष्यति दीर्घरात्रम् अर्थाय हिताय सुखाय देवानां च मनुष्याणां च. 6. एवं हि सर्वशूर संघाटसूत्रस्य धर्मपर्यायस्य सहश्रवणमात्रेणैवम् अप्रमेया गुणानुशंसा भविष्यन्ति.
[ससू(च्) 137] 1. अथ ते सत्वाः परस्परम् एवम् आहुः: 2. अस्त्य् अन्यः कश्चित् कुशलमूलो यस्य कृतत्वाद् उपचितत्वाद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते, सर्वसत्वहितैषिणश् च भवन्ति?
[ससू(च्) 138] 1. अथ भगवांस्, तेषां सत्वानां चेतसैव चेतःपरिवितर्कम् आज्ञाय, तान् एतद् अवोचत्: अस्ति कुलपुत्रा! 2. ये धर्मं पत्तीयन्ति ते एवं वक्ष्यन्ति: अस्ति धर्मो यथाभूतः. 3. तेषां महाफलं, सुखविपाकम्, अनुत्तरं धर्मसुखं भविष्यति.
[ससू(च्) 139] 1. ये पुनः सत्वा मोहमूढास् त एवं वक्ष्यन्ति: न सन्ति धर्माः, नास्ति कश्चिद् धर्माणां पारगः. 2. स, तेषां महाफलं कटुकविपाकम्, अपायेषूपपत्स्यते, पुनः पुनश् च ते मोहपुरुषा अपायभूमिपरायणा भविष्यन्ति.
[ससू(च्) 140] अष्टौ कल्पान् नैरायिकान् दुःखां वेदनाम् अनुभविष्यन्ति; द्वादश कल्पानि प्रेतयोनिषु दुःखां वेदनाम् वेदयिष्यन्ति; 3. षोडश कल्पान्य् असुरेषूपपत्स्यन्ते; 4. नव कल्पसहस्रानि भूतपिशाचयोनिषूपपत्स्यन्ते; 5. चतुर्दश कल्पसहस्राणि अजिह्वका भविष्यन्ति; 6. षोडश कल्पसहस्राणि मातुगर्भे कालं करिष्यन्ति; 7. द्वादश कल्पसहस्राणि मांसपिण्डा भविष्यन्ति; 8. एकादश कल्पसहस्राणि जात्यन्धभूताः प्रजास्यन्ति, दुःखां वेदनां वेदयमाना.
[ससू(च्) 141] 1. जात्यन्धं च दृष्ट्वा तदा मातापितृभ्याम् एवं भविष्यति: निरास्वादम् अस्माभिर् दुःखम् अनुभूतं; निरास्वादम् अस्माकां पुत्रो जातः; निरास्वादं नवामासाः कुक्षौ धारितः. 2. शीतोष्णां वेदनां वेदयमानैः क्षुत्पिपासासुःखानि च प्रत्यनुभूतानि, बहूनि च दृष्टधर्मवेदनीयान्य्, अन्यानि च दुःखानि प्रत्यनुभूतानि. 3. तत्यथापिनामसर्वशूरजात्यन्धं पुत्रं दृष्ट्वा मातापित्रोर् नौत्सुक्यं भवति, महती च निराशता भविष्यति, एवम् एव सर्वशूर निराशाः सद्धर्मप्रतिक्षेपकाः सत्वाः; 4. नरकतिर्यक्प्रेतपरायणाः, ते च तस्मिन् मरणकालसमये महाशोकाशल्यसमर्पिता भविष्यन्ति.
[ससू(च्) 142] 1. ये तु सर्वशूर सत्वा एवं वाचं भाषन्ते: अस्ति धर्मः, अस्ति धर्माणां पारगः, ते तेन कुशलमूलेन विंशति कल्पान्य् उत्तरकुरुषूपपत्स्यन्ते; 2. पंचविंशति कल्पसहस्राणि त्रायस्त्रिंशतां देवानां सहभाव्यतायाम् उपपत्स्यन्ते; 3. त्रायस्त्रिंशद्भ्यो देवेभ्यश् च्यवित्वा उत्तरकुरुषूपपत्स्यन्ते; 4. न च मातुः कुक्षाव् उपपत्स्यन्ते; 5. लोकधातुशतसहस्रं च द्रक्ष्यन्ति; सर्वे च तां लोकधातवः सुखावतीनामानः सर्वबुद्धक्षेत्रसन्दर्शनन् दृष्ट्वा, तत्रैव प्रतिष्ठानां कृत्वा, तत्रैव बोधिम् अभिसम्भोत्स्यन्ते.
[ससू(च्) 143] 1. एवं हि सर्वशूर महाप्रभावो ऽयं संघाटो धर्मपर्यायः: 2. ये ऽस्मिंश् चित्तप्रसादं करिष्यन्ति न ते जातु विषमपरिहारेण कालं करिष्यन्ति; परिशुद्धशीलसमवागतास् ते सत्वा भविष्यन्ति.
[ससू(च्) 144] 1. सन्ति सर्वशूर सत्वा य एवं कथयन्ति: रात्रिन्दिवम् तथागतो बहूनि सत्वानि संसारात् परिमोचयन्ति, अद्यापि सत्वधातुः क्षयं न गच्छन्ति. 2. बहवो बोधाय प्रणिधानं कुर्वन्ति, बहवः स्वर्गलोक उपपद्यन्ते, बहवो निर्वृतिम् अनुप्राप्नुवन्ति; अथ केन हेतुना सत्वानां क्षयो न भवति?
[ससू(च्) 145] 1. अथान्यतीर्थिकचरकपरिब्राजकनिग्रन्थानाम् एतद् अभवत्: 2. गमिष्यामो वयं, श्रमणेन गौतमेन सार्धं विवादं करिष्यामः. 3. अथ खलु चतुर्नवति ब्राह्मणान्यतीर्थिकचरकपरिब्राजकाः, अनेकानि च निग्रन्थशतानि, येन राजगृहं तेनोपसंक्रामन्ति. 4. तेन च कालेन तेन समयेन भगवान् स्मितां प्रादुश्चकार.
[ससू(च्) 146] 1. अथ खलु मैत्रेयो बोधिसत्वो महासत्व उत्थायासनाद्, एकांसम् उत्तरासंगं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, येन भगवांस् तेनांजलिं प्रणम्य, भगवन्तम् एतद् अवोचत्: 2. को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणाय? नाहेतुं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धा स्मितं प्रादुष्कुर्वन्ति.
[ससू(च्) 147] 1. भगवान् आह: शृणु कुलपुत्र, अद्येह राजगृहे महानगरे राजगृहे महासन्निपातो भविष्यति. 2. आह: के भगवन्न् इहायास्यन्ति, देवा वा, नागा वा, यक्षा वा, मनुष्या वा, अमनुष्या वा? 3. भगवान् आह: सर्व एते मैत्रेयाद्येहागमिष्यन्ति: देवनागयक्षमनुष्यामनुष्याः, चतुरशीतिश् च सहस्राणि ब्राह्मणानाम् इहायास्यन्ति;
[ससू(च्) 148] 1. नवति कोटीसहस्राणि तीर्थिकचरकपरिब्राजकनिग्रन्थानाम् इहायास्यन्ति. ते मया सार्धं विवादं करिष्यन्ति. 2. तेषां सर्वेषां विवादशमनाय धर्मन् देशयिष्यामि. 3. सर्वे च ते ब्राह्मणा अनुत्तरायां सम्यक्सम्बोधौ चित्तम् उत्पादयिष्यन्ति. 4. नवति कोटीशतसहस्राण्य् अन्यतीर्थिकचरकपरिब्राजकनिग्रन्थाः सर्वे स्रोतआपत्तिफलं प्राप्स्यन्ति.
[ससू(च्) 149] अष्टादश कोटीसहस्राणि नागराज्ञाम् आगमिष्यन्ति ये ममान्तिकाद् धर्मं श्रोष्यन्ति; श्रुत्वा च सर्वे ऽनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादयिष्यन्ति.
[ससू(च्) 150] 1. षष्टि कोटीसहस्राणि शुद्धावासकायिकानां देवपुत्राणाम् आगमिष्यन्ति; 2. तृंशत् कोटीसहस्राणि माराणां पापीमतां सपरिवाराणाम् आयास्यन्ति; 3. द्वादश कोटीसहस्राणि असुरराज्ञाम् आगमिष्यन्ति; 4. पंचमात्राणि च राजशतानि सपरिवाराण्य् आयास्यन्ति धर्मश्रवणाय. 5. ते सर्वे ममान्तिकाद् धर्मं श्रुत्वानुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादयिष्यन्ति.
[ससू(च्) 151] अथ खलु मैत्रेयो बोधिसत्वो महासत्वो भगवतः पादौ शिरसा वन्दित्वा, भगवन्तं तृष् प्रदक्षिणीकृत्वा, तत्रैवान्तर्धिततः.
[ससू(च्) 152] 1. अथ खलु सर्वशूरो बोधिसत्वो महासत्व उत्थायासनाद्, एकांसम् उत्तरासंगं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, येन भगवांस् तेनांजलिं प्रणम्य, भगवन्तम् एतद् अवोचत्: 2. किन् नामानि भगवन् पंचमात्राणि राजशतानि?
[ससू(च्) 153] 1. भगवान् आह: शृणु सर्वशूर, नन्दो नाम राजा, 2. सुनन्दो नाम राजा, 3. उपनन्दो नाम राजा, 4. जिनर्षभो नाम राजा, 5. ब्रह्मसेनो नाम राजा, 6. ब्रह्मघोषो नाम राजा, 7. सुदर्शनो नाम राजा, 8. जयसेनो नाम राजा, 9. नन्दसेनो नाम राजा, 10. बिंबिसारो नाम राजा, 11. प्रसेनजिन् नाम राजा, 12. विरूढको नाम राजा; 13. एवंप्रमुखानि पंचमात्राणि राजशतानि, एकैको राजा विंशतिकोटीसहस्रपरिवारः. 14. ते सर्वे ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, स्थापयित्वा राजा विरूढकः.
[ससू(च्) 154] 1. पूर्वस्यान् दिशि तृंशत् कोटीसहस्राणि बोधिसत्वानाम् आगच्छन्ति; 2. दक्षिणायां दिशि पंचाशत् कोटीसहस्राणि बोधिसत्वानाम् आगच्छन्ति; 3. पश्चिमायान् दिशि षष्टि कोटीसहस्राणि बोधिसत्वानाम् आगच्छन्ति; 4. उत्तरस्यान् दिशि अशीति कोटीसहस्राणि बोधिसत्वानाम् आगच्छन्ति; 5. अधस्ताद्दिशि नवति कोटीसहस्राणि बोधिसत्वानाम् आगच्छन्ति; 6. ऊर्ध्वायान् दिशि शतकोटीसहस्राणि बोधिसत्वानाम् आगच्छन्ति; 7. सर्वे च दशभूमिप्रतिष्ठिताः.
[ससू(च्) 155] अथ ते सर्वे बोधिसत्वा, येन राजगृहं महानगरं, येन च गृद्ध्रकूटपर्वतो, येन भगवांस् तेनोपसंक्रान्ता भगवतो दर्शनाय वन्दनाय, सर्वे च ते बोधिसत्वा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः.
[ससू(च्) 156] 1. अथ खलु भगवान् सर्वशूरं बोधिसत्वं महासत्वम् आमन्त्रयति स्म: 2. गच्छ त्वं सर्वशूर दशसु दिक्षु सर्वलोकधातुषु, बोधिसत्वानाम् एवं वद: 3. अद्य तथागतो राजगृहे महानगरे धर्मन् देशयति. तद् यूयं सर्वे दशसु दिक्षु लोकधातुषु स्थिता अञ्जलीन् प्रणामयथ. 4. अनुश्राव्य च मुहूर्तमात्रेण च पुनर् एव निवर्तयस्व धर्मश्रवणाय.
[ससू(च्) 157] अथ खलु सर्वशूरो बोधिसत्वो महासत्व उत्थायासनाद्, भगवतः पादौ शिरसाभिवन्द्य, भगवन्तं तृष् प्रदक्षिणीकृत्य, ऋद्धिबलेनान्तर्धितः.
[ससू(च्) 158] 1. अथ खलु सर्वशूरो बोधिसत्वो महासत्वो, दशसु दिक्षु लोकधातुषु गत्वा, बोधिसत्वानाम् आरोचयति: 2. अद्य मार्षा शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धः सहायां लोकधातौ राजगृहे महानगरे सत्वानान् धर्मन् देशयति. 3. तद् यूयं साधुकारम् अनुप्रयच्छथ, तद् युष्माकम् अद्यैव हिताय सुखाय महालाभो भविष्यति.
[ससू(च्) 159] 1. अथ खलु सर्वशूरो बोधिसत्वो महासत्वो, दशसु दिक्षु लोकधातुषु गत्वा, सर्वबुद्धान् पर्युपास्य, बोधिसत्वानाम् आरोचयित्वा, तद्यथापिनाम बलवान् पुरुषो ऽच्छटासंघाटं कुर्याद्, अत्रान्तरे सर्वशूरो बोधिसत्वो महासत्वो, येन राजगृहं महानगरं, येन च भगवांस्, तेनागत्य, भगवतः पुरतः स्थितः. 2. तत्र च सर्वे ब्राह्मणान्यतीर्थिकचरकपरिब्राजकनिग्रन्थाः सन्निपतिताः; 3. बहवश् च देवनागमनुष्यामनुष्याः, पंचमात्राणि च राजशतानि सपरिवाराणि सन्निपतितानि; 4. त्रिंशत् कोटीसहस्राणि माराणां पापीयसां सपरिवाराः सन्निपतिता.
[ससू(च्) 160] 1. तेन खलु पुनः समयेन राजगृहं महानगरं प्रकंपितम्. 2. अथ खलु दशसु दिक्षु लोकधातुषु दिव्यं चन्दनचूर्णं प्रवर्षितं; 3. दिव्यं च पुष्पवर्षं प्रवर्षितं. 4. तद् भगवतो मूर्धसन्धौ कूटागारः संस्थितः. 5. तेन खलु पुनः समयेन तथागतस्य पुरतः शक्रो देवानाम् इन्द्रः स्थितो ऽभूत्. स वज्रेण भूमिं पराहनत्.
[ससू(च्) 161] 1. अथ खलु तस्मिन् समये चतुर्दिशं चत्वारो वातराजान उत्थाय प्रवान्ति, 2. ये च राजगृहे महानगरे संकरा वा, पांसवो वा, बालिका वा, तत् सर्वं नगराद् बहिः प्रक्षिपन्ति; 3. दशसु दिक्षु लोकधातुषु गन्धोदकवर्षं प्रवर्षन्ति; 4. दशसु दिक्षु लोकधातुषूत्पलपद्मकुमुदपुण्डरीकाणि प्रवर्षन्ति; 5. ते च पुष्पास् तेषां सत्वानाम् उपरि मुर्ध्नि पुष्पच्छत्राणि तस्थिरे, तथागतस्य चोपरि मुर्ध्नि. 6. उपर्य् अन्तरीक्षे चतुरशीतिः कूटागारसहस्राणि संस्थितानि, 7. तेषु च चतुरशीतिषु पुष्पकूटागारसहस्रेषु चतुरशीति सहस्राण्य् आसनानां प्रज्ञप्तानि सप्तरत्नमयानि प्रादुर्भूतानि, 8. सर्वत्र चासने तथागतो निषण्णो धर्मन् देशयति. 9. अथ खल्व् अयं त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं प्रकम्पितः.
[ससू(च्) 162] 1. अथ खलु सर्वशूरो बोधिसत्वो महासत्वो, येन भगवांस् तेनांजलिं प्रणम्य, भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययो यद् इमान्य् एवंरूपाणि राजगृहे महानगरे प्रातिहार्याणि सन्दृश्यन्ते? 2. भगवान् आह: तद्यथा कश्चिद् एव पुरुषः स्याच्, चञ्चलश्, चपलो, ऽहंकारममकारस्थितः; स च दरिद्रो भवेत्. 3. तस्य राजा शीर्षं परिमार्जयेद्; अथ स पुरुषो ऽधिमानाद्, यावाद् राजद्वारं गत्वा, बलसा तं राजकुलं प्रवेष्टुम् इच्छेद्. अथ ते राजामात्यपार्षद्यास् तं पुरुषं गृह्णीयुर्, बहुभिश् च प्रकारैस् ताडयेयुर्.
[ससू(च्) 163] 1. अथ तेन कालेन तेन समयेन स राजा शृणुयाद् एतां प्रकृतिं: स दरिद्रपुरुषो बलसाभ्यन्तरं प्रवेष्टुकाम. इति श्रुत्वा चास्यैवं भवेद्: अवश्यम् अयं मम घातयितुकामः. 2. ततः स राजा रुष्टस् तान् पार्षद्यान् एवं वदेद्: गच्छन्तु भवन्त, एतं पुरुषं पर्वतविवरं नीत्वा जीविताद् व्यपरोपयथ सर्वपरिवारं; 3. मातापितृपुत्रदुहितृदासीदासकर्मकराणां च व्यसनम् आपादयथ. 4. अथ ते सर्वे जीविताद् व्यवरोपिताः, 5. तस्य च सर्वे स्वजनबन्धुवर्गाः परमशोकशल्यसमर्पिता भवेयुः.
[ससू(च्) 164] 1. एवम् एव सर्वशूर तथागतो ऽर्हन् सम्यक्संबुद्धः सत्वानान् धर्मन् देशयति. 2. तत्र, यथा स पुरुषो ऽधिमानिक, एवं बालपृथग्जनास्: तथागतं रूपवर्णलिंगसंस्थानतो निमित्तम् उद्गृह्य, तथागतकायम् इति संजानन्ति.
[ससू(च्) 165] 1. तत्र ते बहून् धर्मां च्छ्रुत्वाधिमाने पतन्ति, नानाप्रलापान् प्रलपन्ति. 2. अहंकारममकारेणाभिभूताः स्वयम् एव धर्मं न शृण्वन्ति न प्रकाशयन्ति. 3. यः कश्चित् सूत्रं वा गाथां वान्तशो दृष्टान्तं वा तेषां आरोचयति, तत् ते न गृह्णन्ति, न श्रोत्रम् अवदधन्ति: वयं स्वयं जानीमह इति: 4. तत् कस्य हेतोर्? यथापिनमाधिमानत्वात् तेन बाहुश्रुत्येन प्रमादम् आपद्यन्ते.
[ससू(च्) 166] 1. ये बालपृथग्जनैः सार्धं समवधानं कुर्वन्ति न ते तथारूपं धर्मोपसंहितं वचनं श्रोष्यन्ति; 2. ते तेन बाहुश्रुत्येन प्रमत्ता भविष्यन्ति; 3. ते तथारूपाः पुरुषाः स्वकाव्यानि स्थापयन्ति, स्वकानि ग्रन्थानिदानानि स्थापयन्ति; 4. ते सर्वलोकं चात्मानं च विसंपादयन्ति; 5. व्यर्थं च राष्ट्रपिण्डं प्रभूतं परिभोक्ष्यन्ति, भुक्त्वा च न सम्यक् परिणमयिष्यन्ति. 6. मरणकालसमये तेषां महासन्त्रासो भविष्यति.
[ससू(च्) 167] 1. ते च सत्वास् तं वक्ष्यन्ति: बहवस् त्वया वयं शिल्पज्ञानं शिक्षापिताः कथं त्वं स्वम् आत्मानं न शक्नुषे संस्थापयितुं? 2. स तेषां एवं वदेन्: न शक्यं मार्षा इदानीम् आत्मानं परिसंस्थापयितुं.
[ससू(च्) 168] 1. तत्र ते सत्वास्, तस्य तद् भाषितं श्रुत्वा, नानाप्रकारं परिदेवयिष्यन्ति. 2. यथा तस्यैकपुद्गलस्यार्थेन बहवो ज्ञातिसंघा जीविताद् व्यवरोपिता अनपराधिनः, स्वकर्मप्रत्ययेन, एवम् एव ते सत्वा मरणकालसमये, तेषां परिदेवतां नरकतिर्यग्योनिपरायणं आत्मानं समनुपश्यन्ते ऽकल्याणमित्रसंसर्गहेतोः. 3. तद् अहं युष्माकं ब्राह्मणानाम् अन्यतीर्थिकचरकपरिब्राजकनिग्रन्थानाम् एवं वदामि: मा यूयं प्रमत्ता भवथ! 4. तद्यथापिनामाजातपक्षः शकुनिर् न शक्नोत्य् आकाशे प्रक्रमितुं देवलोकगमनाय, एवम् एव युष्माभिर् अहंकारममकारस्थितैर् न शक्यं निर्वाणं अनुप्राप्तुं; न युष्माकं तथा ऋद्धिः संविद्यते. 5. तत् कस्य हेतोः? कर्मप्रकरणेन यूयं कुक्कुटयोन्या इवोत्पन्नाः. 6. न चिरेणायं कायो भेदनधर्मा मरणपर्यवसानो भविष्यति. 7. मरणकालसमये निरास्वादनता, परितस्यनता च भविष्यति.
[ससू(च्) 169] 1. किम् अयम् अस्माभिर् आत्मभावः सन्धारितो ये वयं न देवसुखं न प्रत्यनुभविष्याम, नापि निर्वाणपदस्था भविष्यामः? 2. निरर्थकम् अस्माभिः शरीरम् उद्वूढं! 3. का गतिर् अस्माभिः किं परायणं भविष्यति? 4. कुत्रोपपत्तिः, कुत्र वा निरोधो भविष्यतीति?
[ससू(च्) 170] 1. अथ खलु भगवां पुनर् अपि तान् अन्यतीर्थिकचरकपरिब्राजकनिग्रन्थब्राह्मणान् आमन्त्रयति: 2. मा यूयं मार्षा रत्नमयाज् जंबुद्वीपान् निराशा भविष्यध्वे! 3. मा यूयं धर्मरत्नात् परिबाह्या भविष्यथेति! 4. पृच्छथ यूयं मार्षास् तथागतं यद् यद् एवाकांक्षथाह; अहं युष्माकं सर्वाभिप्रायान् परिपूरयिष्यामि.
[ससू(च्) 171] 1. अथ खलु ते सर्वे ब्राह्मणान्यतीर्थिकचरकपरिब्राजकनिग्रन्था उत्थायासनेभ्य, एकांसानि चीवराणि प्रवृत्य, अंजलयः प्रगृह्य, भगवन्तं परिपृच्छन्ति स्म: 2. बहूनि भगवं सत्वानि रात्रिन्दिवस् तथागतः संसारात् परिमोचयति, न च सत्वधातोर् ऊनत्वं वा पूर्णत्वं वा प्रज्ञायते. 3. को भगवन् हेतुः कः प्रत्ययः यत् ते सत्वा समाना उत्पादनिरोधं दर्शयन्ति?
[ससू(च्) 172] 1. अथ खलु भगवान् भैषज्यसेनं बोधिसत्वं महासत्वम् आमन्त्रयति स्म: 2. महासन्नाहं सन्नह्यन्ति तीर्थ्या महाकौकृत्यविनोदनार्थाय. महाधर्मोल्काज्वालनायमहाप्रश्ननिदानं परिपृच्छन्ति. 3. पश्चिमे तु काले न भविष्यन्ति दहरा सत्वा वृद्धा वा ये उत्पादनिरोधं करिष्यन्ति. सन्ति भैषज्यसेन वृद्धा सत्वा दहरा इव न किंचिज् जानन्ति.
[ससू(च्) 173] 1. तद्यथापिनाम भैषज्यसेन कश्चिद् एव पुरुषः शिरः शोचयेत, नवकानि च वस्त्राणि प्रवृणुयात् स च गृहाद् बहिर् निष्क्रमेत; 2. तम् एनं सत्वा आमन्त्रयन्ति: सुप्रावृतानि ते नवकानि वस्त्राणीति. 3. अथ कश्चिद् एवापरः सत्वो भवेत्; स शिरः शोचयेत, पुराणकानि च वस्त्राणि प्रावृणुयात्; तानि च शिथिलकानि भवन्ति, न च शोभन्ते. 4. स च पुरुषः सुस्नातशिरा भवति, वस्त्रं चास्य न शोभते. 5. एवम् एव भैषज्यसेन संति वृद्धा सत्वा ये जंबुद्वीपं न शोभयन्ति. 6. दहरास् तु सत्वा उत्पादनिरोधं दर्शयन्ति.
[ससू(च्) 174] 1. अथ खलु ते सर्वे ऽन्यतीर्थिकचरकपरिब्राजकनिग्रन्थब्राह्मणा उत्थायासनाद्, भगवन्तम् एतद् अवोचन्: को भगवन्न् अस्माकं वृद्धो वा दहरो वा? 2. भगवान् आह: वृद्धा यूयं! पुनः पुनर् नरकतिर्यक्प्रेतेषु दुःखां वेदनां दृष्ट्वा तद् अद्यापि यूयं तृप्तिं नाधिगच्छथ!
[ससू(च्) 175] 1. अथ खलु ते सर्वे ब्राह्मणान्यतीर्थिकचरकपरिब्राजकनिग्रन्थाः, सर्वे च नागराजानो भगवन्तम् एतद् अवोचन्: न भूयो भगवन्न् उत्सहाम संसारे दुःखां वेदनाम् अनुभवितुं! 2. ते चान्यतीर्थिकचरकपरिब्राजकनिग्रन्थब्राह्मणा एवम् आहुः: न सन्ति दहरा सत्वा ये शक्नुयुर् धर्मतां साक्षात्कर्तुम्.
[ससू(च्) 176] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: पश्य भदन्त भगवन् कियद् दुरधिमोच्या इमे सत्वाः! 2. भगवान् आह: शृणु भैषज्यसेन, सांप्रतं तथागतः सर्वलोकप्रत्यक्षं करोति.
[ससू(च्) 177] 1. अथ खलु चतुर्नवति कोटीसहस्राणि नवकानां सत्वानां ते तथागतस्य पुरतः स्थिताः. न च तथागतं वन्दन्ति, नालपन्ति, न संलपन्ति. 2. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययो यद् एते सत्वा भगवन्तं नालपन्ति, न संलपन्ति, न वन्दन्ति, न च भगवन्तं परिपृच्छन्ति? 3. भगवान् आह: शृणु भैषज्यसेन, सत्वा एवं वदन्ति: न शक्यं नवकैः सत्वैर् धर्मता साक्षात्कर्तुम्. 4. त एते भैषज्यसेन नवकाः सत्वा युष्माभिर् द्रष्टव्याः. 5. ते च सत्वा एवं आहुर्: वयं भगवन् नवकाः सत्वा, वयं सुगत नवकाः सत्वा! 6. भगवान् आह: एषां भो सत्वानां लोकप्रत्यक्षं, सांप्रतं स्वशरीराल् लोकस्य प्रमाणं दर्शयथ.
[ससू(च्) 178] 1. तेन खलु पुनः कालेन तेन समयेन चतुर्नवति कोटीसहस्राणि नवकानां सत्वानां, कायस्य भेदाद् अन्तरीक्षे स्थित्वा, दशभूमिप्रतिलब्धा अभूवन्. 2. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: सुलब्धालाभा भगवन्न् ईदृशाः सत्वाः ये संसारे परिक्षयाय पर्यादानाय वीर्यम् आरभन्ते. 3. अद्यैव भगवन्न् इमे सत्वा उत्पन्नाः, अद्यैव भगवन्न् इमे सत्वाः परिमुक्ताः, अद्यैव सर्वे दशभूमिप्रतिष्ठिता दृष्टाः.
[ससू(च्) 179] 1. अथ खलु सर्वब्राह्मणान्यतीर्थिकचरकपरिब्राजकनिग्रन्था, नागराजानो ऽपि, माराश् च पापीमान् सपरिवार उपसंक्रान्तो विचक्षुष्करणाय, सर्वे भगवन्तम् एतद् अवोचन्न्: इह वयं भगवन्स् तथागतस्यान्तिकम् उपसंक्रान्ता विचक्षुष्करणाय. 2. ते वयं भगवन्न्, इमन् धर्मपर्यायं श्रुत्वा, प्रसादप्रतिलब्धा अभूम बुद्धे च धर्मे च. 3. तत्रास्माकं भगवन् सर्वेषाम् एवं भगवत्य्: एवंरूपं बुद्धसुखं प्रतिलभेमहे! 4. एवंरूपाश् च तथागता अर्हन्तः सम्यक्संबुद्धा लोके भवेमः.
[ससू(च्) 180] 1. भगवान् आह: एवम् एतद् भद्रमुखा! यथा यूयं तथागतस्यान्तिकम् उपसंक्रान्ताः, तैर्युष्माभिर् इमं संघाटं धर्मपर्यायं श्रुत्वा, आनुत्तरायां सम्यक्संबोधौ चित्तं उत्पादितं. 2. तेन यूयं भद्रमुखाः कुशलमूलेन न चिरेण कालेनानुत्तरां सम्यक्संबोत्स्यध्वे. अभिसंभोत्स्यध्वे.
[ससू(च्) 181] 1. समनन्तरभाषिता च तथागतेनेयं वाग्, अथ तेषां सर्वेषाम् अन्यतीर्थिकचरकपरिब्राजकनिग्रन्थब्राह्मणानाम् अनुत्पत्तिकधर्मक्षान्तिप्रतिलाभो ऽभूत्, 2. सर्वे च दशभूमिप्रतिष्ठिता बोधिसत्वाः संवृत्ताः, 3. सर्वे च ते बोधिसत्वा, उपर्य् अन्तरीक्षे सप्त तालान् वैहायसम् अभ्युद्गम्य, सप्तरत्नमयानि कूटागाराणि तथागतस्योपनामयन्ति, 4. सर्वे च नानाविकुर्वाधिष्ठानर्ध्यभिसंकारान् अभिसंस्कुर्वन्ति. 5. अथ ते, भगवत उपरि मूर्ध्नि स्थित्वा भगवन्तं नानापुष्पैर् अभ्यवकिरन्ति. 6. तथागतांश् च मनसिकुर्वन्ति, स्वकाये च बुद्धसंज्ञाम् उत्पादयन्त्य्. 7. अनेकानि च देवपुत्रकोटीनयुतशतसहस्राणि दिव्यपुष्पैस् तथागतम् अभ्यवकिरन्ति स्म.
[ससू(च्) 182] एवं च वाचम् अभाशन्त: महालाभः श्रमणो गौतमः! महाक्षेत्रो, लोकनाथः; समाधिबलाधानप्राप्तः; विज्ञो, विज्ञार्थिकः, यः ईदृशान् सत्वान् संसाराद् अनुपूर्वेणोपायकौशल्येन परिमोचयत्य्: एकेन सुभाषितमात्रेण एतावन्ति सत्वानि संसारात् परिमुच्यन्ते!
[ससू(च्) 183] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्व उत्थायासनाद्, एकांसम् उत्तरासंगं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, येन भगवांस् तेनांजलिं प्रणम्य, भगवन्तम् एतद् अवोचत्: 2. को भगवन् हेतुः कः प्रत्ययो यद् एते देवपुत्रा एवं वाचं निश्चारयन्ति, बहूनि च र्ध्यभिसंस्कारान् कुर्वन्ति, बहूनि च तथागतस्य वर्णान् अभिसंस्तुवन्ति स्म? 3. भगवान् आह: शृणु कुलपुत्र, न हि ते मां स्तुवन्ति, स्वकायम् एव स्तुन्वन्ति; 4. स्वकायम् एव धर्मराजासने स्थापयिष्यन्ति; 5. स्वकायम् एवाग्रधर्मासने प्रतिष्ठापयिष्यन्ति; 6. स्वकायाद् एव धर्मरश्मिन् निश्चारयिष्यन्ति; 7. सर्वबुद्धपरिगृहीताश् च भविष्यन्त्य् अनुत्तरास्याः सम्यक्संबोधेर् अभिसंबोधाय, अभिसंबुध्य च धर्मन् देशयिष्यन्ति.
[ससू(च्) 184] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: बहवो भदन्त भगवन् सत्वाः, बहवो भदन्त सुगत सत्वा रात्रिन्दिवं परिमुच्यन्ते; तद् अद्यापि सत्वानां क्षयो न भवति. 2. भगवान् आह: साधु साधु भैषज्यसेन यस् त्वं तथागतम् एतम् अर्थं परिप्रष्टव्यं मन्यसे. शृणु भैषज्यसेन! 3. तद्यथापिनाम भैषज्यसेन कश्चिद् एव पुरुषो भवेद्, आढ्यो, महाधनो, महाभोगः, बहुधनधान्यकोशकोष्ठागारसमन्वागतः, बहुदासदासीकर्मकरपौरुषेयानि चास्य स्युर्, बहूनि च धनस्कन्धानि, बहूनि च क्षेत्रारामाणि संविद्येरन्, बहूनि च धनधान्यानि; 4. स च पुरुषो वसन्तकाले सर्वाणि तानि धनधान्यानि वापयेत्. 5. अथ यावद् अपरेण कालसमयेन सर्वाणि तानि बीजानि परिपच्येरन्, स परिपक्वानीति विदित्वा, ततः स पुरुषस् तानि धनधान्यानि गृहस्याभ्यन्तरे पृथक् पृथक् स्थापयति; स्थापयित्वा परिभुंक्ते. 6. यावद् वसन्तकाले पुनर् एव बीजानि वापयति.
[ससू(च्) 185] 1. एवम् एव भैषज्यसेन इमे सत्वाः, पूर्वं शुभं कर्म कृत्वा, पश्चात् तेषां कर्मणां परिक्षयात्, पुनः पुनर् अपि पुण्यक्षेत्रम् अन्वेषन्ते, कुशलमूलान्य् अवरोपयन्ति. 2. कुशलमूलान्य् अवरोपयित्वा तत्र च कुशलधर्मे प्रतिपत्त्या संपादयन्ति. 3. प्रतिपत्तिसंपन्ना सर्वधर्मान् वर्धयन्ति. 4. सर्वधर्मान् वर्धयित्वा प्रीतिप्रामोद्यम् उत्पादयन्ति, 5. तेन च प्रीतिप्रामोद्यचित्तेन भैषज्यसेनानेकानि कल्पकोटीसहस्राणि न नाश्यन्ते. 6. एवम् एव भैषज्यसेन प्रथमचित्तोत्पादिको बोधिसत्वो न कदाचिद् विनाशधर्मा भवति, संक्षिप्तेन सर्वधर्मान् प्रजानाति.
[ससू(च्) 186] आह: 1. कथं भगवन् प्रथमचित्तोत्पादिको बोधिसत्वः स्वप्नं पश्यति? 2. भगवान् आह: बहूनि भैषज्यसेन प्रथमचित्तोत्पादिको बोधिसत्वः स्वप्नान्तरे भयानि पश्यति. 3. तत् कस्य हेतोर्? यदा स्वप्नान्तरे भयानि पश्यति, तदा सर्वपापकानि कर्माणि परिशोधयति. 4. न शक्यं भैषज्यसेन पापकर्मणा सत्वेन तीव्रं दुःखम् अपनयितुम्, न च पापेन स्वप्नेन दृष्टेनास्य भयं भवति.
[ससू(च्) 187] 1.भैषज्यसेन आह: कतमानि भगवन् प्रथमचित्तोत्पादिको बोधिसत्वः स्वप्नान्तरे भयानि पश्यति? 2. भगवान् आह: अग्निं भैषज्यसेन प्रज्वलितं पश्यति. ततस् तेन बोधिसत्वेनैवं वेदितव्यं: सर्वक्लेशा मे दग्धाः. 3. द्वितीयं भैषज्यसेन उदकं पश्यति, लुडितं, संप्रलुडितं. तत्र तेन प्रथमचित्तोत्पादिकेन बोधिसत्वेन न भेतव्यं. 4. तत् कस्य हेतोः? एवं हि भैषज्यसेन, सर्वपापक्षयं कृतं भवति. 5. तृतीयं भैषज्यसेन प्रथमचित्तोत्पादिको बोधिसत्वः स्वप्नं पश्यति महाभयं. 6. आह: कतमं भगवन्?
[ससू(च्) 188] 1. भगवान् आह: स्वशरीरे शीर्षं मुण्डितं पश्यति. तत्र तेन बोधिसत्वेन न भेतव्यं. 2. तेनैवं चित्तम् उत्पादयितव्यं: रागद्वेषमोहानि मे मुण्डितानि भवन्ति, 3. षड्गतिकं च मे संसारं पराजितं भविष्यति. 4. न हि तस्य नरकावासो भविष्यति, न तिर्यक्षु, न प्रेतेषु वा, नासुरेषु वा, न नागेषु, न देवेषु. 5. परिशुद्धेषु भैषज्यसेन बुद्धक्षेत्रेषु प्रथमचित्तोत्पादिको बोधिसत्व उपपत्तिं प्रतिगृह्णाति.
[ससू(च्) 189] 1. भैषज्यसेन, पश्चिमे काले पश्चिमे समये, यदि कश्चित् सत्वो बोधौ चित्तं परिणमयिष्यति, तेन महती परिभाषणा द्रष्टव्या, परिभूतवासश् च भविष्यति. 2. तत्र तेन भैषज्यसेन न परिखेदचित्तम् उत्पादयितव्यं, न विषीदितव्यं.
[ससू(च्) 190] 1. बहवो भैषज्यसेन मया धर्मा देशिताः. 2. मया च भैषज्यसेनानेकानि कल्पकोटीनयुतशतसहस्राणि दुष्करचर्या चीर्णा. 3. न मया भैषज्यसेन राज्यभोगार्थाय वा, वृत्तिभोगार्थाय वा, ऐश्वर्यभोगार्थाय वा दुष्करचर्या चीर्णा; स्वभावधर्मावबोधाय भैषज्यसेन मया दुष्करचर्या चीर्णा. 4. न च मे तावद् अनुत्तरा सम्यक्संबोधिः प्राप्ता यावन् न मयायं धर्मपर्यायः श्रुतः: 5. यस्मिंस् तु भैषज्यसेन कालसमये मयायं संघाटो धर्मपर्यायः श्रुतः, तत्रैव दिवसे अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा. 6. गंभीरो ऽयं भैषज्यसेन धर्मपर्यायः. 7. दुर्लभो ऽस्य धर्मपर्यायस्य श्रवः. 8. परमदुर्लभो भैषज्यसेन तथागतानाम् उत्पादः. परमदुर्लभो भैषज्यसेनास्य धर्मपर्यायस्य धारकः.
[ससू(च्) 191] 1. ये ते इमन् धर्मपर्यायं श्रोष्यन्ति, सर्वे ते ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. 2. कल्पसहस्रं भैषज्यसेन संसारात् पश्चान्मुखं करिष्यन्ति. 3. परिषुद्धं बुद्धक्षेत्रं प्रतिलप्स्यन्ते, निरोधमार्गं च प्रज्ञास्यन्ति. 4. भव्याश् च ते निश्रयं प्रज्ञातुं, भव्याः कुशलस्थानं प्रज्ञतुं, भव्या अभिज्ञाकुशलस्थानं प्रज्ञतुम्, भव्याः कुशलस्थाननिरोधं प्रज्ञातुम्.
[ससू(च्) 192] 1. निरोधम् एव भैषज्यसेन किमर्थम् उच्यते? 2. आह: अर्थ उच्यते भगवन् धर्मस्थानम्. 3. भगवान् आह: कतमं भैषज्यसेन धर्मस्थानं? 4. आह: धर्म उच्यते भगवन्न् आरब्धवीर्यता, आरब्धशीलता; शीलसमन्वागमता धर्मनिधानम् इत्य् उच्यते. इदं भगवन् धर्मनिधानं संभवति. 5. भगवान् आह: साधु साधु भैषज्यसेन यस् त्वं तथागतम् एतम् अर्थं परिप्रष्टव्यं मन्यसे.
[ससू(च्) 193] 1. आह: केन कारेण न भगवंस् तथागता लोक उत्पद्यन्ते? 2. भगवान् आह: ये भैषज्यसेन बाहुश्रुत्यसमन्वागमं प्रजानन्ति, ते तथागतानाम् उत्पादं प्रजानन्ति. 3. ते तथागतानाम् उत्पादं ज्ञात्वा, इदं तथागतानाम् उत्पादे सुखस्थानं प्रजानन्ति. 4. यदा च तथागता लोक उत्पद्यन्ते, तदा सत्वा सर्वधर्मान् प्रजानन्ति. लौकिकलोकोत्तरान् धर्मान् प्रजानन्ति. लौकिकलोकोत्तराणि ज्ञानानि प्रजानन्ति.
[ससू(च्) 194] 1. आह: ज्ञानम् एवं ज्ञात्वा, कतमं निर्वाणं प्रजानन्ति? 2. भगवान् आह: धर्मम् एव भैषज्यसेन प्रजानन्ति. 3. धर्मम् एव ज्ञात्वा, एवम् एव भैषज्यसेन धर्मसंग्रहं प्रजानतां प्रथमो लाभ उत्पद्यते. 4. यथाश्रुतं गृह्य, धार्मिक एव लाभो भविष्यति.
[ससू(च्) 195] तद्यथापिनाम भैषज्यसेन कश्चिद् एव पुरुषो वाणिजको भवेत्. स, लाभहेतोर् गच्छन्, परक्यस्वकस्य सुवर्णस्य पुरुषभारसहस्रं गृहीत्वा, गच्छेत्. 2. तस्य तौ मातापितराव् एवम् आहुतुः: 3. शृणु पुत्र, इदं सुवर्णस्य पुरुषभारसहस्रं गृहीत्वा परक्यस्वकस्य च, तत् त्वयेदं सुवर्णं सुगृहीतं कर्तव्यं, न च किंचिद् अतो विनाशयितव्यं. महालाभं कृत्वा, सुवर्णं एव सुगृहीतं कुरु, तद् अस्माकं महालाभो भविष्यति, सुखं च जीविष्यामः. 4. स च पुत्रस् तौ मातापितराव् एवं वदेद्: एवं करिष्यामि, इत्य् उक्त्वा, स वाणिजकः सुवर्णं गृहीत्वा गच्छेद्. अथ स वाणिजकः प्रमादाद् यावन् मासमात्रेण सर्वं सुवर्णं विनाशयेद् विलयं कुर्यात्.
[ससू(च्) 196] 1. अथ स पुरुषश् चिन्तायासम् आपन्नः, शोकशल्येनाविद्धहृदयः; सह्रीर् अपत्राप्येन च स्वगृहं न परविशेत. 2. तस्य तौ मातापितरौ शृणुयातां: एवं युवाभ्यां पुत्रेण तत् सुवर्णं सर्वं विनाशितम्. इति श्रुत्वा निराशीभूतौ; शोकशल्येनाभ्याहतहृदयौ, वस्त्राणि पाटयतः, शोचतः क्रन्दतः. 3. एवं च परिदेवतः: दुष्पुत्रो ऽस्माकं गृहे पुत्ररूपेणोत्पन्नः. सकलं एव गृहं विनाशीतवान्. अस्माकम् अनाथं कृत्वा, दासौ कर्मकरौ कृतौ. 4. तस्य तौ मातापितरौ, चिन्तापरिगतहृदयौ, निराशौ, कालगतौ. 5. ततस् तेन पुत्रेण श्रुतं: मतापितरौ मे, निराशौ कालगतौ. सो ऽपि पुत्रो, निराश एव, कालगतः.
[ससू(च्) 197] 1. एवम् एव भैषज्यसेन तथागतो ऽप्य् एतम् अर्थं भाषते: 2. ये सत्वा मम शासने न प्रसीदन्ति ते निराशीभूता मरणकालसमये, शोकशल्याभ्याहतहृदया, महाधर्मरत्नबहिष्कृताः कालं कुर्वन्ति, 3. यथा तौ मातापितरौ निराशौ शोचतः, परिदेवतः, सुवर्णहेतोः शोकशल्याभ्याहतहृदयौ, परक्यस्वकेन सुवर्णेन शोकशल्यपरिगतौ, चिन्ताम् आपद्य कालगतौ.
[ससू(च्) 198] 1. एवम् एव भैषज्यसेन, ये मम शसने न प्रसीदन्ति, पश्चान् मरणकालसमये, परितप्यमानाः परिदेवन्तो दुःखां वेदनां वेदयन्ति, 2. पूर्वकृतानि च पुण्यानि परिभुक्त्वा, न भूयो ऽन्यानि पुण्यानि कुर्वन्ति सुक्षेत्रगतानि. 3. तेषां शोकशल्यपरिगतहृदयानां, तेन कालेन तेन समयेन, नरकतिर्यग्योनियमलोकोपपत्तिं घोरां दारुणान् दृष्ट्वा मरणकालसमये एवं भवति: 4. को मे त्राता भवेद्? यद् अहं नरकतिर्यक्प्रेतयमलोकं न पश्येयन्, न च तां दुःखां वेदनां वेदयेयं!
[ससू(च्) 199] 1. तस्य मातापितराव् एवम् आहतुः: किं करिष्याम पुत्रक? गाथाभिश् चाद्ध्याभाषतः:
(1) ग्रहीतुं शक्यते नैव व्याधिर् दुःखं महाभयं ।
नास्ति ते मरणं पुत्र ग्लानस्य मरणाद् भयं ॥
मोक्षो भविष्यते तुभ्यं व्याधिभ्यो भयभैरवात् ।
2. पुत्र आह:
(2) निरुद्ध्यते मे विज्ञानं कायो मे पीड्यते भृशम् ।
सर्वे अङ्गानि दुःखन्ति मृत्युं पश्यामि आत्मनः ॥
(3) न पश्यतश् चक्षुषी मे कर्णौ मे न शृणोन्ति च ।
श्रोत्रं पुनर् न लप्स्यामि न कायः संसहिष्यति ॥
(4) अङ्गमंगानि मुच्यंति काष्ठा इव अचेतनाः ।
विस्वादयसि मे अम्ब नागतं मरणं तव ॥
3. माता आह:
(5) वक्तुं नार्हसि पुत्रैवं मा मे त्रासपरां कुरु ।
कायं तव ज्वराक्रान्तं विप्रकाराणि पश्यसि ॥
4. पुत्र आह:
(6) न पश्यामि ज्वरं काये न च व्याधिर् न दुःखति ।
पश्यामि मरनं घोरं हतं कायं च मे भृशम् ॥
(7) पश्यामि आत्मना सर्वं कायं दुःखप्रपीडितं ।
(8) गच्छामि कस्य शरणं को मे त्राता भविष्यति ॥
मातापिता वदेत् पुत्र देवक्रोधं हि ते भवेत् ।
(9) देवेभ्यो यजनं कृत्वा ततः स्वस्तिर् भविष्यति ॥
पुत्र आह:
करिष्यथा यूयम् एव येन स्वस्तिर् भवेन् मम ।
(10) शीघ्रशीघ्रं च गत्वा वै पृच्छथा देवपालकम् ॥
[ससू(च्) 200] 1. अथ तस्य तौ मातापितरौ, देवकुलं गत्वा, देवस्य धूपं दापयन्ति. 2. अथ स देवपालको, देवस्य धूपं दत्वा, एवं वाचं भाषते; 3. देवस् ते क्रुद्धः; देवस्योपकारः कर्तव्यः, यजनं कर्तव्यं, तत्र पशुर् घातयितव्यः, पुरुषश् च घातयितव्यः; ततस् ते पुत्रो व्याधेः परिमोक्ष्यते. 4. अथ तौ मातापितरौ चिन्तयतः: कथं करिष्यामो? दरिद्राश् चास्म. 5. यदि देवो न प्रसीदति, तद् अस्माकं पुत्रः कालं करिष्यति; 6. अथ वा प्रसादं कुर्यात्, तद् वयं परमदरिद्राः. पशुं पुरुषं चानयाम.
[ससू(च्) 201] 1. अथ तौ शीघ्रशीघ्रं स्वगृहं गत्वा, यत् किंचिद् गृहे परिष्कारं संविद्यते, तत् सर्वं विक्रीय, पशुक्रयार्थे गच्छतः. 2. अथ तावद् अन्यतरं पुरुषम् एवं वदेयुः: देहि भोः पुरुष सुवर्णम् अस्माकं याचितं; 3. यदि शक्नुमो दशमे दिवसे पुनर् अपि दातुं, तच् छोभनम्; 4. अथ न शक्नुमो दातुं, तद् वयं तव दासा भविष्यामः, कर्मकराः. 5. तौ च तं सुवर्णं गृहीत्वा गच्छेयुः पुरुषं क्रेतुं.
[ससू(च्) 202] 1. ताभ्यां पुरुषः क्रीतः; 2. स च पुरुषो न जानीयाद् यन्: माम् एते जीविताद् व्यवरोपयिष्यन्ति. 3. अथ तौ मातापितरौ, संमोहम् आपन्नौ, न भूयः स्वगृहं प्रविष्टौ; 4. तौ देवकुलं गत्वा देवपलकम् आमन्त्रयन्ति: शीघ्रम् इदानीं यजनं कुरुष्व! 5. अथ तौ मातापितरौ स्वयम् एव तं पशुं घातयतः, तं च पुरुषं जीविताद् व्यवरोपयतः. 6. ततः स देवपालक आरब्धो यज्ञं यजनाय मेदं प्रज्वालयति. 7. ततः स देवो ऽवतीर्य एवं कथयति: तव पुत्रो मया परिगृहीता इति. 8. ततस् तौ मातापितरौ, प्रीतिप्रामोद्येन स्फुटाव्, आहतुः: वरं पुत्रो जीवतु, वयं दासा भविष्यामः. 9. ततस् तौ मातापितरौ निवर्त्य सुयष्टं देवं कृत्वा, यावत् स्वगृहं गत्वा, तदा तं पुत्रं कालगतं पश्यन्ति. 10. ततस् तौ मातापितरौ, महता दुःखदौर्मनस्येन शोकशल्येनाविद्धहृदयौ, निराशीभूतौ तत्रैव कालगतौ. 11. एवम् एव भैषज्यसेनाकल्याणमित्रसंसर्गता द्रष्टव्या.
[ससू(च्) 203] 1. आह: पृच्छामि तावद् भगवन्: कुतस् भगवन् तेषां सत्वानाम् उपपत्तिः? 2. भगवान् आह: अलं, म मे भैषज्यसेन परिपृच्छ! 3. आह: पृच्छामि भगवन्, पृच्छामि सुगत! 4. भगवान् आह: तत्र भैषज्यसेन माता रौरवे महानरके उपपन्ना, पिता संघाते महानरके उपपन्नः, पुत्रस् तपने महानरके उपपन्नः, देवपालको महावीचौ महानरके उपपन्नः.
[ससू(च्) 204] 1. आह: अनपराधिकस्य भगवन् पुरुषस्य, कुत्रोपपत्तिः, को ऽस्याभिसंपरायः? 2. भगवान् आह: इह भैषज्यसेनानपराधिकस्य पुरुषस्य त्रायस्त्रिंशानान् देवानाम् सहभाव्यतायाम् उपपत्तिः. 3. आह: को भगवन् हेतुः कः प्रत्ययो यत् स पुरुषस् त्रायस्त्रिंशनां देवानां सहभाव्यतायाम् उपपन्नः? 4. भगवान् आह: शृणु भैषज्यसेन स पुरुषो मरणकालसमये तथागतस्योपरि चित्तं प्रसाद्य, एवं वाचम् अभाषत: नमस् तस्य भगवतस् तथागतस्यार्हतः सम्यक्संबुद्धस्य, इत्य् एकवाराकृतं. 5. स तेन भैषज्यसेन कुशलमूलेन षष्टिः कल्पान् त्रायस्त्रिंशतां देवानां सुखम् अनुभविष्यति; 6. अशीति कल्पां जात्या जातिस्मरो भविष्यति; 7. जातौ जातौ च सर्वशोकविगतो भविष्यति; 8. जातमात्रश् च सर्वदुःखानि निर्वापयिष्यति; न हि ते सर्वसत्वा शक्यं परिनिर्वापयितुम्.
[ससू(च्) 205] 1. एवम् उक्ते भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: कथं भगवन् न शक्यं सर्वसत्वाः परिनिर्वापयितुम्? 2. भगवान् आह: वीर्यं भैषज्यसेनारब्धव्यम्. 3. आह: कतमो भगवन् वीर्यारंभः? 4. भगवान् आह: शृणु भैषज्यसेन, वीर्यम् उच्यते फलानां दर्शनं. यद् उत स्रोतआपत्तिफलं नाम, वीर्यस्थानं; 6. सकृदागामिफलं नाम, वीर्यस्थानं; 7. अनागामिफलं नाम, वीर्यस्थानं; 8. अर्हत्वफलम्, अर्हन्निरोधश् च नाम, वीर्यस्थानं; 9. प्रत्येकबुद्धफलं, प्रत्येकबुद्धफलज्ञानं नाम, वीर्यस्थानं; 10. बोधिसत्वभूमिफलं च, बोधिस्थानं, वीर्यस्थानं नाम. 11. इमे भैषज्यसेन वीर्यस्थानानां नामानि.
[ससू(च्) 206] 1. आह: कथं भगवन् स्रोतआपन्नो दर्शयितव्यः, स्रोतआपत्तिफलञ् च? 2. भगवान् आह: तद्यथापिनाम कश्चिद् एव भैषज्यसेन पुरुष वृक्षं वापयेत; 3. वापितस्य वृक्षस्य तत्रैव दिवसे अङ्कुरं विरुह्येत; 4. यत्रैव दिवसे अङ्कुराणि विरुह्येरंस्, तत्रैव दिवसे तद् अंकुरं योजनम् अधस्ताद् गच्छेते. 5. द्वितीयश् च पुरुष एवम् एव वृक्षं वापयेत; 6. तत्रैव दिवसे वातक्षोभेन तस्य वृक्षस्य नाङ्कुराणि विरुह्येरन्; अथ स पुरुषस् तस्मात् स्थानात् तं वृक्षं उद्धरेत्. 7. अथान्यतरश् च पुरुषः कलहभण्डनविग्रहविवादं कुर्यात्: किमर्थं मे भूमिं खनसीति?
[ससू(च्) 207] 1. तेन च राजा अश्रौषीद् एवं: द्वौ पुरुषौपरस्परकलहभण्डनविग्रहजातौ, विवदतः. 2. तेन च राज्ञा तयोर् दूतः प्रेषितः: गच्छ भोः पुरुष, तौ द्वौ पुरुषाव् आनय! 3. एवं देवेति, स पुरुषस् त्वरमाणरूपः प्रधावित्वा, तौ पुरुषाव् एतद् अवोचत्: राजा युवयोर् आमन्त्रयति. 4. अथ तावद् एव तत्रैकपुरुषो भीतस्, त्रस्तो; द्वितीयश् च पुरुषो भीतो, ऽनुत्रस्तः. 5. येन राजा तेनोपनीताव् उपनीय, राज्ञः पुरतः स्थापिताव्, अथ राजा तयोर् एवम् आह: 6. किमिति भो युवयोः कलहभण्डनविग्रहविवादो जातः?
[ससू(च्) 208] 1. अथ खलु तौ द्वौ पुरुषाव् उत्थाय राजानम् एतद् अवोचतां: 2. शृणु महाराज, अस्माकं न किंचित् पृथिवीप्रदेशः संविद्यते. 3. याचितके पृथिवीप्रदेशे वृक्षो वापितः. 4. यत्रैव दिवसे वापितस्, तत्रैव दिवसे ऽङ्कुरं, पत्राणि, पुष्पाणि, फलानि च प्रादुर्भूतानि, आमार्धं पक्वार्धं च. 5. एतेन च द्वितीयेन पुरुषेण तत्रैव दिवसे तस्मिन् पृथिवीप्रदेशे वृक्षो वापितः, 6. तस्य च वृक्षस्य नांकुराणि रोहन्ति; 7. वातेन क्षुभितेन न पत्राणि, न पुष्पाणि, न फलानि प्रादुर्भूतानि, 8. न च महाराज योजनम् अधस्ताद् अस्य मूलं गच्छति. 9. स एष पुरुषो मया सार्धं विवदति: तवापराध इति. 10. अपि तु च देव स्वयम् एव परीक्ष्य जानीयान्: नात्र मम किंचिद् अपराधः संविद्यते.
[ससू(च्) 209] 1. अथ खलु स राजा त्रिंशत् कोट्यो ऽमात्यानाम् आहूयैकध्ये सन्निपात्यैवम् आह: कथयथ यूयं. 2. अमात्या आहुः: किं कथयाम महाराज? 3. राजाह: क्वचिद् युष्माभिर् दृष्टं वा श्रुतं वा, यत्रैव दिवसे वृक्षो वापितस्, तत्रैव दिवसे ऽङ्कुरं विरुह्यते, 4. पत्राणि, पुष्पाणि, फलानि च जायन्ते, पक्वार्धमामार्धानि? 5. निश्चयम् इदं भवद्भिः कर्तव्यं. 6. अथ खलु ते अमात्य उत्थायासनात्, तं राजानम् एवम् आहुः: अस्माकं महाराज निश्चयम् इदं न शोभते कर्तुं, न च शक्ष्यामो ऽस्य निश्चयं वक्तुं. 7. विस्मयम् इदं महाराज! 8. एष एव पुरुषस् तावत् प्रष्टव्यः. 9. वद भोः पुरुष, किं सत्यम् एतम् अर्थं यद् वदसि? 10. आह: सत्यं महाराजैतम् अर्थं! 11. राजाह:
(1) न श्रुतं नैव पष्याम दुःश्राद्धेयं वचस् तव ।
वृक्षो यत्र दिने वुप्तस् तत्रैवाङ्कुरितो दिने ॥
(2) पत्राः पुष्पं फलं दत्तं दिने तत्रैव भाषसे ।
कृतांजालिः स पुरुषस् तं राजानम् अथाब्रवीत् ॥
(3) गच्छ स्वयं वापय तरुं पश्य रुह्यति अङ्कुरम् ॥
[ससू(च्) 210] 1. अथ खलु स राजा तृंशत्कोटिभिर् अमात्यैः सार्धं बहिर् निष्क्रामति, 2. तौ च द्वौ पुरुषौ चारकावरोधं कारयति. 3. ततः स राजा स्वयम् एव वृक्षं वापयति, न च स वृक्षो ऽङ्कुराणि ददाति, न पत्राणि, न पुष्पाणि, न फलानि. 4. अथ स राजा रुष्ट एवम् आह: गच्छन्तु भवन्तः, शीघ्रम् आनयन्तु दारुपाटकानि कुठाराणि. 5. यावद् आनयित्वा, यस् तेन पुरुषेण वापितो वृक्षः सपत्रपुष्पफलः प्रादुर्भूतः, तं वृक्षं रोषाच् छेदयति.
[ससू(च्) 211] 1. तं चैकं वृक्षं छिन्नं, द्वादश वृक्षाः प्रादुर्भूताः; 2. द्वादश वृक्षाश् छिन्नाश्, चतुर्विंशति वृक्षाः प्रादुर्भूताः, सप्तरत्नमयाः, समूलाः, सपत्राः, सपहलाः, सांकुराः. 3. अथ तेभ्यश् चतुर्विंशति वृक्षेभ्यश् चतुर्विंशति पक्षिणः कुक्कुटाः प्रादुर्भूतानि, सुवर्णचूडानि, सुवर्णतुण्डानि, सप्तरत्नमयानि पक्ष्माणि. 4. अथ खलु स राजा रोषाभिभूतः स्वहस्तेन कठारं गृह्य तं वृक्षं पराहनति; ततश् च वृक्षात् पराहताद् अमृतोदकं प्रवहति.
[ससू(च्) 212] 1. अथ खलु स राजा संविग्नमना आज्ञापयति: गच्छत, तौ पुरुषौ ततश् चारकाबन्धनान् मोचयध्वम्. 2. एवं देवेति तत्क्षनम् एव प्रधावित्वा, तौ पुरुषौ ततश् चारकबन्धनान् मोक्षयित्वा, येन तं वृक्षं तेनोपनीयतः. 3. अथ स राजा पप्रच्छ: किम् अयं वृक्षस् त्वद्वापितः, एको भूत्वा, च्छिद्यमानो द्विगुणवृद्ध्याभिवर्धमानः, यावच् चतुर्विंशतिधा गतः? मद्वापितस् तु वृक्षो नांकुराणि, न पत्राणि, न पुष्पाणि, न फलानि दत्तवान्? 4. ततः स पुरुष एवम् आह: यादृशानि महाराज मम पुण्याणि, न तव तादृशानि पुण्यानि संविद्यन्ते.
[ससू(च्) 213] 1. अथ खलु ते त्रिंशद् अमात्यकोट्यस्, तस्य पुरुषस्योभौ जानुमण्डलौ पृथिव्यां प्रतिष्ठाप्य, एवम् आहुः: त्वया राज्यं कारयितव्यं, नायं पूर्विमको राजा शोभते. 2. अथ खलु स पुरुषस् तान् अमात्यान् गाथाभिः प्रत्यभाषत:
(1) राज्यभोगैश् च मे नार्थो न धान्येन धनेन वा ॥
(2) प्रसादो मम बुद्धेभ्यो भवेयं द्विपदोत्तमः ।
व्रजेन् निर्वाणधातौ हि शान्ते यत्र तथागतः ॥
(3) देशेयं धर्मं युष्माकं निर्वाणपुरगामिनं ।
पर्यंकं स बन्धित्वा प्रतिज्ञाम् अकरोत् ततः ॥
(4) पूर्वं मया कृतं पापं राज्ञो बन्धनम् आगतः ।
इदन् तु कृत्वा प्रणिधिं मम पापक्षयो भवेत् ॥
[ससू(च्) 214] 1. अथ खलु ते चतुर्विंशति पक्षिणकुक्कुटकोट्यो वज्रतुण्डेन तूर्याणि पराहनति स्म. 2. अथ खलु तेन कालेन तेन समयेन द्वात्रिंशति कूटागारसहस्राणि प्रादुर्भूतानि, 3. एकैकं च कूटागारं पंचविंशतियोजनप्रमाणं प्रादुरभवत् 4. एकैकस्मिंश् च कूटागारे पंचविंशति कोट्यो पक्षिणानां प्रादुर्भूतानि, सुवर्णचूडानि, सुवर्णतुण्डानि, सुवर्णमुखानि; 5. ते मानुष्यकं वाचं निश्चारयन्ति:
(1) असाधुस् ते महाराज यद् वृक्षश् छेदितस् त्वया ।
कोटीशतानि वृक्षाणां चतुर्विंशत् स्थिताः पुनः ॥
(2) पापेन कर्मणानेन अनिष्ठं भोक्ष्यसे फलम् ।
न जानीषे कीदृशः सत्वो येनायं वापितो द्रुमः ॥
6. राजाह:
(3) न जानामि इमम् अर्थं व्याकुरुधवं महातपा ।
7. पक्षिण आहुः:
(4) एषो हि लोकप्रद्योतो उत्पत्स्यति विनायकः ।
8. राजाह:
(5) कतमो द्वितीयः पुरोषो यस्य वृक्षं न रूहति ।
9. पक्षिण आहुः:
(6) देवदत्तो हि मूढो ऽसौ यस्य वृक्षं न रूहति ।
न कृतं कुशलं किंचिद् रुह्यते ऽस्य कथं द्रुम ॥
[ससू(च्) 214] 10. अथ खलु तेन कालेन तेन समयेन तृंशत् कोट्य ऽमात्यानाम्, इमन् धर्मपर्यायं श्रुत्वा, सर्वे दशभूमिप्रतिष्ठिता, अभिज्ञाप्रतिलब्धाः संवृत्ताः, स च राजा दशभूमिप्रतिष्ठितः, कुशलधर्माभिसमयम् अनुप्राप्तः ॥
[ससू(च्) 215] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययो यत् त्रिंशत् कोट्यो जनानां दशभूमिप्रतिष्ठिता, अभिज्ञाप्रतिलब्धा संवृत्ताः? 2. भगवान् आह: शृणु भैषज्यसेन, व्याकरिष्यामि. 3. अथ खलु भगवांस् तस्यां वेलायां स्मितं प्रादुष्चकार. 4. अथ तस्मिन् समये भगवतो मुखद्वाराच् चतुरशीति रश्मिसहस्राणि नश्चरन्ति स्मा, अनेकवर्णानि, नानावर्णान्य्, अनेकशतसहस्रवर्णानि, तद्यथा नीलपीतलोहितावदातमंजिष्ठास्फटिकरजतवर्णानि. 5. ता अनन्तापर्यन्ता लोकधातून् अवभास्य, पुनर् एव प्रत्युदावृत्या, भगवन्तं प्रदक्षिणीकृत्य, भगवतो मूर्धन्य् अन्तर्धीयन्त.
[ससू(च्) 216] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वः उत्थायासनाद्, एकांसं चीवरं प्रावृत्य, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, येन भगवांस् तेनांजलिं प्रणमय, भगवन्तम् एतद् अवोचत्: 2. को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणाय? नाहेतुकं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्कुर्वन्ति. 3. भगवान् आह: पश्यसि त्वं भैषज्यसेन चतुर्दिशं लोकधातौ समन्ताज् जनकायम् आगच्छन्तं ममान्तिके? 4. आह: नोहीदं भगवन् न पश्यामि. 5. भगवान् आह: तेन हि भैषज्यसेन व्यवलोकय, पश्य जनकायं!
[ससू(च्) 217] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो व्यवलोक्याद्राक्षीत्. 2. पूर्वस्यान् दिश्य् एको वृक्षः प्रादुर्भूतः, सप्तयोजनसहस्रप्रमाणः; तत्रैकान्ते पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि; ते च न भाषन्ते, न जल्पन्ति, नालपन्ति, न भुंजन्ति, नोत्तिष्ठन्ति; नोत्तिष्ठन्ति; तूष्णींभावेनाधिवासयन्ति. 3. दक्षिणस्यान् दिश्य् एको वृक्षः प्रादुर्भूतः, सप्तयोजनसहस्रप्रमाणः; तत्र पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि; ते न जल्पन्ति, नालपन्ति, न भाषन्ते, नोत्तिष्ठन्ति, न चंक्रमन्ति; तूष्णीभावेनाधिवास्यन्ति. 4. पश्चिमायां दिश्य् एको वृक्षः प्रादुर्भूतः, सप्तयोजनसहस्रप्रमाणः; तत्र पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि; ते न जल्पन्ति, नालपन्ति, न भाषन्ति, नोत्तिष्ठन्ति, न चंक्रमन्ति; तूष्णीभावेनाधिवासयन्ति. 5. उत्तरस्यान् दिश्य् एको वृक्षः प्रादुर्भूतः, सप्तयोजनसहस्रप्रमाणः; तत्र पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि; ते न जल्पन्ति, नालपन्ति, न भाषंते, न भाषंते, नोत्तिष्ठन्ति, न चंक्रमन्ति; तूष्णीभावेनाधिवासयन्ति. 6. ऊर्ध्वायान् दिश्य् एको वृक्षः प्रादुर्भूतः, सप्तयोजनसहस्रप्रमाणः; तत्र पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि; ते न जल्पन्ति, न भाषन्ति, नोत्तिष्ठन्ति, न चंक्रमन्ति; तूष्णीभावेनाधिवास्यन्ति. 7. अधस्ताद्दिश्य् एको वृक्षः प्रादुर्भूतः, सप्तयोजनसहस्रप्रमाणः; तत्र च पंचविंशति
कोटीसहस्राणि जनकायस्य सन्निपतितानि; ते न जल्पन्ति, नालपन्ति, न भाषन्ति, नोत्तिष्ठन्ति, न चंक्रमन्ति; तूष्णीभावेनाधिवासयन्ति.
[ससू(च्) 218] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: पृच्छेयम् अहं भगवन्तं तथागतम् अर्हन्तं सम्यक्संबुद्धं कंचिद् एव प्रदेशं, सचेन् मे भगवान् अवकाशं कुर्यात् पृष्टप्रश्नव्याकरणाय. 2. एवम् उक्ते भगवान् भैषज्यसेनं बोधिसत्वं महासत्वम् एतद् अवोचत्: पृच्छ त्वं भैषज्यसेन यद् यद् एवाकांक्षस्य्; अहन् ते तस्य तस्यैव प्रश्नस्य परिपृष्टस्य व्याकरणेन चित्तम् आराधयिष्ये.
[ससू(च्) 219] 1. एवम् उक्ते भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: किं भगवंश् चतुर्दिशे लोकधातुषु जनकाय आगत्यावस्थितो? यावद् अधस्तादूर्ध्वायां दिशि पंचाशत् कोट्यो जनकायम् आगत्यावस्थितः. 2. ते च भगवन्तं नालपन्ति, न संलपन्ति, न जल्पन्ति, न वदन्ति, न भाषन्ति, नोत्तिष्ठन्ति, न चंक्रमन्ति; तूष्णीभावेनाधिवासयन्ति. को भगवन् हेतुः कः प्रत्ययः? 3. भगवान् आह: गच्छ त्वं भैषज्यसेन, स्वयम् एव तांस् तथागतान् परिपृच्छ यतो लोकधाताव् एते जनकाया आगताः. 4. आह: कस्य ऋद्धिबलाधानेन गच्छामि? 5. भगवान् आह: स्वकेन भैषज्यसेन ऋद्धिबलाधानेन गच्छ.
[ससू(च्) 220] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो, भगवन्तं तृगुप्तं प्रदक्षिणीकृत्य, तत्रैवान्तर्धितः. 2. षण्नवति लोकधातुकोटीर् अतिक्रम्य, चन्द्रप्रदीपा नाम लोकधातुः. 3. तत्र चन्द्रावतिक्षेत्रो नाम तथागतो, ऽर्हन् सम्यक्संबुद्धः, अशीतिकोटीबोधिसत्वमहासत्वपरिवृतः, पुरस्कृतो धर्मन् देशयति स्म. 4. तां लोकधातुं भैषज्यसेनो बोधिसत्वो ऽनुप्राप्तः.
[ससू(च्) 221] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वस् तस्य भगवतश् चन्द्रावतिक्षेत्रस्य तथागतस्य पुरत स्थितो, येन भगवांस् तेनांजलिं प्रणम्य, भगवन्तम् एतद् अवोचत्: 2. आगतो ऽस्मि भगवन् षण्नवति लोकधातुकोटीसहस्राण्य् अतिक्रम्य, नाहं भगवंस् तावन्ति सत्वानि क्वचित् पश्यामि यावन्ति तत्र दृष्टानि.
[ससू(च्) 222] 1. स भगवान् आह: तत्रैव भैषज्यसेन संचरन्ति, संतिष्ठन्ति. 2. आह: यथा कथं पुनर् भगवन्? 3. भगवान् आह: अचेतनवृक्षसंभूतानि सत्वानि. 4. आह: केन भगवन् दृष्टं केन श्रुतं यद् अचेतने वृक्षे मनुष्या जायन्ते? 5. स भगवान् आह: न भैषज्यसेन त्वया दृष्टं वा न श्रुतं वा यद् अचेतने वृक्षे मनुष्या जायंते? 6. आह: न मे भगवन् दृष्टं न श्रुतं यद् अचेतने वृक्षे मनुष्या जायन्ते. 7. स भगवान् आह: इच्छसि त्वं भैषज्यसेन द्रष्टुं? तद् अहं सांप्रतं दर्शयिष्यामि. 8. आह: इच्छामि भगवन्न्, इच्छामि सुगत!
[ससू(च्) 223] 1. अथ खलु भगवांश् चन्द्रावतिक्षेत्रस् तथागतस् तस्यां वेलायां शतपुण्यविचित्रितं स्वं बाहुं प्रसारयति स्म, 2. ततश् च बाहुतः कोटीशतसहस्रं जनकायानां प्रादुरभवत्, 3. एकैकश् च जनकायो बाहुशतं प्रसार्य, नानागन्धविलेपनैस् तथागतम् अभ्यवकिरन्ति. 4. अथ स भगवांश् चन्द्रावतिक्षेत्रस् तथागतो भैषज्यसेनं बोधिसत्वं महासत्वम् आमन्त्रयति: पश्यसि त्वं भैषज्यसेन? एष जनकायस् तथागतं नानागन्धमाल्यविलेपनैर् अभ्यवकिरन्ति. 5. आह: पश्यामि भगवन्, पश्यामि सुगत. 6. स भगवान् आह: एते अचेतना जनकायाः प्रादुर्भूताः! एते अचेतना मनुष्याः! अयोनिजा एते सत्वाः. 7. अथ खलु तेषां कोटीशतसहस्राणाम् एकैकस्य यद् बाहुशतं ते सर्वे विकीर्यन्ते.
[ससू(च्) 224] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वस् तं दृष्ट्वा भगवन्तम् एतद् अवोचत्: किमिदं भगवन्, किमिदं सुगत यन् मनुष्याणां मुहूर्तमात्रेण बाहुशतं विकीर्णम्? 2. यदि भगवं च्छतबाहवो न मुच्यन्ते, कः पुनर् वादो द्विबाहुका मनुष्या मोक्ष्यन्ते! 3. भगवान् आह: एवम् एव भैषज्यसेनाचेतनाः सत्वा जायन्ते, अचेतना निरुद्ध्यन्ते. 4. अस्माकम् अपि भैषज्यसेन शरीरम् अचेतनभूतं मन्यितव्यं. 5. आह: कतमे भगवन् सत्वा ये दहराः, कतमे वृद्धाः? 6. भगवान् आह: सन्ति भैषज्यसेन दहराः सत्वा, सन्ति वृद्धाः. 7. आह: कतमे भगवन् दहराः, कतमे वृद्धाः? 8. आह: ये ते वृक्षेभ्यो निर्जातास्, ते दहराः. 9. आह: इच्छामि भगवन् दहराणि सत्वानि द्रष्टुम्.
[ससू(च्) 225] 1. अथ खलु स भगवांश् चन्द्रावतिक्षेत्रस् तथागतो दक्षिणं पाणितलं प्रसारयति. 2. अथ दशभ्यो दिग्भ्यः कोटीशतसहस्रं जनकायानाम् आगच्छन्ति; 3. अधस्तादूर्ध्वायान् दिशि पंचाशत् कोटी जनकायस्यागच्छन्ति; 4. आगत्वा च ते जनकाया भगवतः पादौ शिरसाभिवन्द्य, न च तथागतम् आलपन्ति, न संलपन्ति; तूष्णीभावेनाधिवासयन्ति स्म.
[ससू(च्) 226] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: किम् एते भगवन् सत्वास् तथागतं नालपन्ति, न संलपन्ति, तूष्णीभावेनाधिवासयन्ति? 2. भगवान् आह: न जानासि भैषज्यसेन? अचेतनः पृथिवीप्रदेशे नालपन्ति, न संलपन्ति, न धर्मस्कन्धं प्रजानाति. 3. तत् कस्य हेतोः? इहैकत्या भैषज्यसेन दहरा सत्वाः नोत्पादं जानन्ति, न निरोधं जानन्ति, दृष्ट्वा च न जरां, न व्याधिं, न शोकं, न परिदेवं, न प्रियविप्रयोगं, नाप्रियसंप्रयोगं, न प्रियाद् विनाभावं, न मरणं, नाकालमृत्युम्. 4. नापि तानि सर्वकटुकानि दुःखाणि दृष्ट्वा उद्वेगम् आपद्यन्ते. कुतस् ते ज्ञास्यन्ति? 5. पुनः पुनस् ते भैषज्यसेन शिक्षयितव्याः.
[ससू(च्) 227] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: कुतो भगवन् दहरा सत्वा आगच्छन्ति? कुतश् च्यवन्ति? कुत्रोपपद्यन्ते ये धर्मं न जानन्ति? 2. भगवान् आह: शृणु भैषज्यसेन, यन् मानुष्यकम् आत्मभावं प्रतिगृह्णन्ति, तन् न रुप्यकारेण कृतं, 3. न चीमरकारेण कृतं, 4. न काष्ठकारेण कृतं, 5. न कुंभकारेण कृतं. 6. न राजभयेनोत्पद्यन्ते. 7. स्त्रीपुरुषसंयोगात् पापेन कर्मणा संयुक्ताः संभवन्ति. 8. पुनः पुनश् च तेषां सत्वानां शिल्पानि शिक्षापयन्ति. 9. अनन्तं च कटुकं दुःखं संभवति. 10. कटुका वेदनाः तत्र, तेषां पूर्वकृतानां पापकानां कर्मणां विपाकम्, अनुभवन्ति. 11. इहैव ते भैषज्यसेन दहराः सत्वा आगता य एते नालपन्ति, न संलपन्ति, नोत्तिष्ठन्ति. ते ईदृशान् दुःखां वेदनाम् अनुभवन्ति! 12. अनेन कारणेन भैषज्यसेन नालपन्ति, न संलपन्ति. 13. एवं ते भैषज्यसेन दहराः सत्वाः, कुशलम् अजानानाः, नोत्पादं जानन्ति, न निरोधं जानन्ति, न च ते मानुष्यकम् आत्मभावं प्रतिलप्स्यन्ते. 14. इमे उच्यन्ते भैषज्यसेन दहराः सत्वाः.
[ससू(च्) 228] 1. आह: कथं भगवन् दहराः सत्वा उत्पद्यन्ते, कथं निरुध्यन्ते? 2. भगवान् आह: तद्यथापिनाम भैषज्यसेन कश्चिद् एव पुरुषो ऽग्निं काष्ठेन परिमार्जयेत, तस्यानुपूर्वेण तं काष्ठम् अग्निना प्रदीप्येत; 3. एवम् एव भैषज्यसेन मानुष्यात्मभावं प्रथमं संजायते, जातं च सद् वेदनां वेदयति. 4. आह: को ऽत्राभिजातो जातः, कः परिनिर्वृतः? 5. भगवान् आह: बुद्ध एव भैषज्यसेनाभिजातो जातः, तथागत एव परिनिर्वृतः!
[ससू(च्) 229] 1. तद्यथापिनाम भैषज्यसेन कस्मिंश्चिद् अन्धकारगृहे तिमिरागारे राज्ञा पुरुषो बन्धनावरोधः कृतः स्यात्. 2. तत्र स पुरुषो, ऽन्धकारगृहे प्रविष्टः, अन्तर्गृहे तिमिरं तिमिरागारं पश्येत्. 3. अथान्यः कश्चित् पुरुषः, पूर्वदुःखवेदनाभिर् दृष्टश्, चिन्तयेन्: नष्ट एष पुरुषो, ऽनभ्यसितदुःखो जीवितनाशं यास्यति. 4. स तत्राग्निम् आनयित्वा तत्राभ्यन्तर्गृहे सूक्ष्मम् अग्निं छोरयेत्. 5. स च पुरुषश् चारकावरुद्धस् तम् अग्निरश्मिं पश्येद्, दृष्ट्वा चाश्वस्तो भवेद्, उत्साहं च वर्धयेत्. 6. स चाग्निः केनचिद् एव हेतुना प्रज्वलेत, तेन चाग्निना प्रज्वालेन तद् गृहं समन्ततः प्रज्वलेत्; स च पुरुषस् तत्रैव दह्येत.7. तं च दग्धं राजा श्रुत्वा चिन्तायासम् आपद्येत; तस्यैवं भवेन्: न भूयो ऽहं स्वविषये कंचित् सत्वं चारकावरोधं करिष्यामि. 8. अथ स राजा तेषां स्वविषयनिवासिनां सत्वानाम् एवं समाश्वासयेत्: मा यूयं भवन्तः सत्वा भायथ! मा उत्त्रसथ! अभयं युष्माकं भवतु! 9. न मम विषये भूयो दण्डोपचारं वा, बन्धनावरोधं वा भविष्यति, न च कस्यचित् सत्वस्य जीवितविनाशं करिष्यामि. 10. निर्भया भवन्तः सत्वा यूयं भवथ!
[ससू(च्) 230] 1. एवम् एव भैषज्यसेन तथागतः सर्वक्लेशदग्धः, सर्वव्याधिप्रशान्तः. 2. यथा स पुरुषो गृहदाहात् स्वकायं दहति, सत्वानाम् अर्थाय हिताय सुखाय च प्रतिपन्नो भवति सत्वान् वधबन्धनावरोधेषु परिमोचयितुं, 3. एवम् एव तथागतो, रागद्वेषमोहमलप्रहीणः, सर्वसत्वानान् दीप इव लोक उत्पन्नः, सत्वान् मोचयति; 4. नरकतिर्यक्प्रेतासुरकायेभ्यः दहरांश् च सत्वान्, वृद्धांश् च सत्वान् मोचयति.
[ससू(च्) 231] 1. अथ तावद् एवोपर्य् अन्तरीक्षाद् इमा गाथा निश्चचारा:
(1) अहो क्षेत्रं जिनक्षेत्रं सुक्षेत्रम् अभिसंस्कृतं ।
वुप्तानि यत्र बीजानि न विनाशं व्रजन्ति हि ॥
(2) बुद्धक्षेत्रं जिनक्षेत्रं प्रशस्तं जिनशासनं ।
शास्ता करोत्य् उपायं हि सर्वसत्वपरिग्रहे ॥
(3) स्थितो निर्वाणधातौ सन्दृश्यते धरणीतले ।
शान्तं कृत्वा सर्वलोकं बुद्धः शोधेति दक्षिणां ॥
(4) मोचेति नवकान् सत्वान् मोचेति च पुराणकान् ।
मोचयित्वानुपूर्वेण सर्वसत्वांस् त्रिधातुकात् ॥
(5) बद्धा हि नरकद्वारस् तिर्यक्प्रेता विमोचिताः ।
शान्तिः कृता हि लोकेस्मिन् परलोके सुखं कृतं ॥
[ससू(च्) 232] 1. अथ खलु भगवांस् तस्यां वेलायां स्मितं प्रादुष्चकार, आह च:
(1) साधु दर्शनु साधूनां बुद्धानां साधु दर्शनं ।
साधु धर्मगुणः क्षेत्रं संघसामग्रिदर्शनम् ॥
(2) साधु संघातनिर्देशं सर्वपापविनाशनं ।
ये श्रोष्यन्ति इदं सूत्रं पदं प्राप्स्यन्त्य् अनुत्तरम् ॥
[ससू(च्) 233] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो, येन भगवांस् तेनांजलिं प्रणाम्य, भगवन्तम् एतद् अवोचत्: 2. को भगवन् हेतुः कः प्रत्ययः, स्मितस्य प्रादुष्करणाय? 3. भगवान् आह: पश्यसि त्वं कुलपुत्रैतानि दहराणि सत्वानि? 4. आह: पश्यामि भगवन्, पश्यामि सुगत. 5. भगवान् आह: सर्व एते भैषज्यसेनाद्यैव दशभूमिप्रतिष्ठिता बोधिसत्वा भविष्यन्ति.
[ससू(च्) 234] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो ऽशीतिर् योजनसहस्राण्य् ऊर्धवम् उपर्य् अन्तरीक्षे ऽस्थाद्. 2. अथाशीतिर् देवपुत्रकोटीसहस्राणि भगवत उपरि पुष्पवर्षं प्रवर्षन्ति. 3. ते च दहराः सत्वा दृष्ट्वा सर्वे ऽञ्जलयः कृत्वा नमस्कुर्वन्ति.
[ससू(च्) 235] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो अन्तरीक्षस्थ एवं वाचं भाषते येन त्रिसाहस्रमहासाहस्रं लोकधातुं शब्देनापूरयति. 2. द्वात्रिंशन् महानरकोपपन्नाः सत्वास् तं शब्दं शृण्वन्ति, 3. द्वात्रिंशच् च देवनिकायास् तं शब्दं शृण्वन्ति; 4. त्रिसाहस्रमहासाहस्रश् च लोकधातुः षड्विकारं प्रकम्पितः; 5. चतुरशीतिश् च नागराजसहस्राणि महासमुद्रे संक्षुब्धानि; 6. त्रिंशत् कोटीसहस्राणि राक्षसानाम् इमं जंबुद्वीपम् आगतानि, 7. पंचविंशत् कोटीसहस्राणि प्रेतानां यक्षानां राक्षसानाम् अडकवत्यां राजधान्याम् आगतानि. 8. भगवतः पुरतो महासन्निपातः संस्थितः.
[ससू(च्) 236] 1. अथ खलु भगवांस् तेषान् दहराणां सत्वानान् धर्मन् देशयति. 2. दशसु दिक्षु लोकधातुषु कोटीसहस्राणि बोधिसत्वानां महासत्वानां स्वकस्वकाभिर् ऋद्धिभिर् आगतानि. 3. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो, येन भगवांस् तेनांजलिं प्रणमय, भगवन्तम् एतद् अवोचत्: बहवो भगवन्, बहवो सुगत बोधिसत्वाः सन्निपतिताः सन्निषण्णाः, 4. बहूनि च भगवन् देवनागानि सन्निपतितानि सन्निषण्णानि, 5. पुनश् चानेकानि राक्षसप्रेतान्य्, अडकवत्यां राजधान्याम् आगत्य, सन्निपतितानि सन्निषण्णान्य् अभूवन् धर्मश्रवणाय.
[ससू(च्) 237] 1. अथ खलु भगवान् भैषज्यसेनं बोधिसत्वं महासत्वं आमन्त्रयति: आगच्छ कुलपुत्र! 2. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्व, ऋद्धिबलेनोर्ध्वाद् अवतीर्य, येन भगवांस् तेनांजलिं प्रणमय, भगवन्तम् एतद् अवोचत्: 3. धर्मस्कन्धो भगवन्, धर्मस्कन्ध इत्य् उच्यते? कियता भगवन् धर्मस्कन्ध इति? 4. भगवान् आह: धर्मस्कन्ध इति कुलपुत्रोच्यते यो ब्रह्मचर्यं पर्येषते, ब्रह्मचर्यं पर्येष्य सर्वपापाद् विरमति. 5. पश्यसि त्वं कुलपुत्रामी दहरा सत्वा अब्रह्मचर्याद् विरमन्ति? 6. आह: पश्यामि भगवन्, पश्यामि सुगत! 7. आह: ते नूनन् धारणीप्रतिलब्धा भविष्यन्ति, सर्वधर्मसमन्वागताश् च भविष्यन्ति. 8. आह: केनोपायेन भगवन् बहूनि सत्वानि सन्निपतितानि धर्मस्कन्धं श्रोतुम्?
[ससू(च्) 238] 1. अथ खलु भगवां भैषज्यसेनं बोधिसत्वं महासत्वम् आमन्त्रयति: 2. बहवो भैषज्यसेन सत्वाः सन्ति ये जातिर् एव दुःखं न शृण्वन्ति, जरा एव दुःखं न शृण्वन्ति, व्याधिर् एव दुःखं न शृण्वन्ति, शोकदुःखं, परिदेवदुःखं, प्रियविप्रयोगदुःखम्, अप्रियसंप्रयोगदुःखं. 3. मरणं तु सर्वदुःखं हरति. 4. कायजीवितम् इदम् उच्यते भैषज्यसेन सर्वदुःखम्.
[ससू(च्) 239] 1. अथ खलु ते दहराः सत्वा, इमन् निर्देशं श्रुत्वा, येन भगवांस् तेनांजलयः प्रणमय, भगवन्तम् एतद् अवोचन्: अस्माकम् अपि भगवन् मर्तव्यम्? 2. भगवान् आह: युष्माभिर् अपि कुलपुत्राः, सर्वसत्वैश् च मर्तव्यम् इति. 3. त आहुः: कथं भगवन् मरणकालम् आक्रमति? 4. भगवान् आह: मरणकाले कुलपुत्राश् चरिमविज्ञाने विज्ञाननिरोधो नाम वातः, विज्ञानविभ्रमो नाम वातः, विज्ञानसंक्षोभसंयुक्तो नाम वातः; 5. इमे त्रयः कुलपुत्रा वाता मरणकालसमये चरिमविज्ञाने संलुडन्ति, संक्षुभन्ति, संक्षोभम् उत्पादयन्ति. 6. त आहुः: कतमानि भगवंस् त्रीणि मरणकालसमये विज्ञाननिरोधे वर्तमाने शरीरं निर्घातयन्ति? 7. भगवान् आह: शस्त्रकश् च नाम मार्षाः, सूचकश् च नाम मार्षाः, ष्ठीलकश् च नाम ये शरीरं निर्घातयंति. 8. आहुः: किम् एतद् भगवं च्छरीरण् नाम? 9. भगवान् आह: आदीप्तकश् च नाम मार्षा, 10. दहनवासकश् च नाम, 11. मेडिकश् च नाम, 12. शृंगारिकश् च नाम, 13. श्मशानिकश् च नाम, 14. दुर्बुद्धिकश् च नाम, 15. भारगुरुकश् च नाम, 16. जातिपरिपीडितश् च नाम, 17. जातिसंक्षुभितश् च नाम, 18. जीवितपरिभाविकश् च नाम, 19. मरणप्रियविप्रयोगकश् च नाम; 20. इमे मार्षा उच्यन्ते शरीरनामानः.
[ससू(च्) 240] 1. त आहुः: कथं भगवन् मृयते, कथं जीवति? 2. भगवान् आह: विज्ञानं नामायुष्मन्तो म्रियते, पुण्यं नामायुष्मन्तो जीवति! 3. शरीरं नाम मार्षा मृयते, स्नायुकोटीभिर् बद्धम्, 4. चतुरशीतिभिः सिराकूर्चसहस्रै रोमकूपैर् बद्धम्, 5. द्वादशभिः सहस्रैर् अंगानां बद्धं, 6. षष्ट्युत्तरैस् त्रिभिः शतैर् अस्थीनां बद्धम्. 7. चतुरशीतिः कृमिकुलशतान्य् अभ्यन्तरे वसन्ति; 8. तेषां सर्वेषां प्राणकानां मरणं संविद्यते, मरणनिरोधं च संविद्यते; 9. तत्र सर्वे ते प्राणका निराशा भवन्ति. 10. यदा स पुरुषो मृयते, तदा सर्वप्राणकानां वातसंक्षोभः संलुडति अन्योन्यपरिभाक्षनार्थाय, 11. तदा ते दुःखां वेदनां वेदयन्ति. 12. अन्ये पुनः पुत्रशोकं कुर्वन्ति, अन्ये दुहितृशोकं, ज्ञातिशोकं; सर्वे एव ते शोकशल्यविद्धाः अन्योन्यभक्षणम् आरभन्ते; 13. सर्वे ते अनुपूर्वेण परस्परं भक्षयन्त. 14. द्वौ प्राणकाव् अवतिष्ठन्ते. तौ सप्ताहम् अभियुध्यतः. यावत् सप्ताहे ऽतिक्रान्ते तत एकः प्राणको निर्मथ्यते, एको मुच्यते. 15. तत् कतम आयुष्मन्त उच्यते धर्मः? 16. तत् किं मन्यध्वे? यथा सर्वप्राणकानाम् अन्योन्यविरोधेन मरणं.
[ससू(च्) 241] 1. एवम् एव बालपृथग्जना सत्वा अन्योन्यविरोधम् आपद्यन्ते: 2. ते जात्या न बिभ्यन्ति, व्याधिभ्यो न बिभ्यन्ति, मरणान् न बिभ्यन्ति. 3. यथा तौ द्वौ प्राणकौ युध्यतः, एवम् एव बालपृथग्जनाः परस्परं युध्यन्ते. 4. अथ मरणकालसमये उच्यते साधुपुरुषैः; 5. किं त्वं भो पुरुष विश्वासम् आपद्यसे? किं त्वया मनुष्यलोके न किंचिद् आदीनवं दृष्टं? न जात्या आदीनवो दृष्टः, न जराया, न व्याधेर् आदीनवो दृष्टः, न मरणाद् आदीनवो दृष्टः? 6. आह: दृष्टो मे आयुष्मन्तो जात्या आदीनवो, जराया, व्याधेर् आदीनवो दृष्टः, सर्वपश्चान् मरणाद् आदीनवो दृष्टः. 7. आह: कथं न कृतानि यत् करणीयानि कुशलमूलानि? 8. तत् कथं त्वया भोः पुरुष न कृतम् उभयोर् लोकयोर् हितसंवर्तकानि धर्मस्कन्धकुशलमूलानि? 9. द्वितीयं मार्षाः पृच्छामि: कथं त्वया न कृतः कुशलमूलसंभारः येन त्वं परिमुक्तः स्या जात्या मरणात्? 10. तत् कथं ते न कृतं योनिशोमनसिकारप्रत्यवेक्षणम्? 11. किं त्वया भोः पुरुष श्रुतं पृथिव्यां गण्ड्याकोटनशब्दं? 12. न च दृष्टा जांबुद्वीपका मनुष्या दानानि ददन्तः, पुण्यानि च कुर्वन्तः उपवासम् उपवसन्तः, तथागतक्षेत्रे कुशलमूलबीजान्य् अवरोपयन्तः? 13. गन्धं वा, माल्यं वा, दीपं व, न त्वया दृष्टं खादनीयभोजनीयं वा दीयमानम्? 14. न च ते दृष्टास् तथागतस्य चतस्रः पर्षदः सन्तर्प्यमानाः? 15. भिक्षुर् वा, भिक्षुणी वा, उपासको वा, उपासिका वा, इमाश् चतस्रः पर्षदः शासने ऽभिनिवुस्ताः, एवं तस्य हितानि वदन्त्य्, आलपन्ति च. 16. न हि देवकृतं किंचित्, असाधु त्वया भोः पुरुष कृतम् इमं जंबुद्वीपम् आगत्य.
[ससू(च्) 242] 1. तस्य मृतस्य धर्मराजा, तस्मिन् काले तं पुरुषम् अनुशासन्, ता गाथा भाषते:
(1) दृष्ट्वा तथागतोत्पादं श्रुत्वा गण्डीपराहताम् ।
श्रुत्वा धर्मन् देशयमानं शन्तं निर्वाणगामिनं ॥
(2) कस्मात् ते न कृतं पुण्यं परलोकसुखावहम् ।
भोक्ष्यसे नरके दुःखम् अनिष्टकर्मणः फलम् ॥
[ससू(च्) 243] 1. अथ स पुरुषस् तं धर्मराजानं गाथाभिर् प्रत्यभाषत:
(1) बालबुद्धिर् अहम् आसं पापमित्रवशानुगः ।
कृतं मे पापकं कर्म कामभ्रान्तेन चेतसा ॥
(2) कामश् च मे चितस् तस्य आगतं दारुणं फलम् ।
कृता मे प्राणिनां हिंसा सांघिकं च विनाशितं ॥
(3) कृतं मे स्तूपभेदं च प्रदुष्टेन च चेतसा ।
दौष्ठुल्यं भाषितं वाक्यं माता मे परितापिता ॥
(4) अपराधं विजानामि स्वशरीरेण यत् कृतं ।
रौरवे नरके पश्याम्य् उपपत्तिं सुदारुणे ॥
(5) संघाते वेदनां वेत्स्ये तथैव च प्रतापने ।
महावीचौ च कटुकाम् अनुभविष्यामि वेदनां ॥
(6) महापद्मे च नरके क्रन्दयिष्यामि सुदुःखितः ।
वारा शतं कालसूत्रे उत्पत्स्यामि महाभये ॥
(7) हताश् च नारका सत्वाः पुनः पश्यन्ति ते भयम् ।
योजनानां शतं भूयः प्रपद्यन्ति महाभयम् ॥
(8) द्वारन् ते न लभिष्यन्ति पुनः कुंभे प्रपापिताः ।
क्षूरं तु नाम नरकं सहस्रं क्षूरसंभवम् ॥
(9) शतम् सहस्रं कोटीनां क्षूराणां जायते ऽग्रतः ।
तैस् तस्य भिद्यते गात्रं कर्मभि दुष्कृतैः स्वकैः ॥
(10) वातक्षोभा महाघोरा सर्वं छिन्दन्ति तां तनुम् ।
अनुभाव्या मया दुःखा ईदृशा नरके ध्रुवम् ॥
(11) द्रक्ष्यन्ते सर्वसत्वा मे कायं दुःखप्रपीडितं ।
अर्था परक्या आदत्ता मया वेश्मस्य कारणात् ॥
(12) पुत्रा दुहितरो मह्यं भ्राता च भगिनी तथा ।
माता पिता चैव मम मित्रज्ञातिगणो ऽपि च ॥
(13) दासकर्मकराश् चैव गावो भृत्यः पशुं तथा ।
भ्रान्तो ऽस्म्य् अहं कुकार्येषु रुप्यसौवर्णभाजनैः ॥
(14) वस्त्रैस् तथा सुसूक्ष्मैश् च भ्रान्तः कारापने गृहे ।
सुविचित्रं गृहं कृत्वा नरनारीसमाकुलं ॥
(15) वीणास् तूर्याः पराहत्य रतं मे दुर्दमं मनः ।
गात्रं गन्धोदकैर् लिप्तं कृतज्ञो ऽद्यापि नैव सः ॥
(16) अचेतनशरीरस् त्वं भ्रान्तो ऽस्मि तव कारणात् ।
न विद्यते मम त्राता कश्चित् सत्वः पुनर् भवेत् ॥
(17) वातक्षोभे महाघोरे शरीरपरितापने ।
भुक्ता रसा स्वादुवन्तो जिह्वया विविधास् तथा ॥
(18) शीर्षे मालाश् च बहवो बद्धा श्वित्राः सुशोभनाः ।
रूपेण भ्रामितश् चक्षुश् चक्षुत्राणं न विद्यते ॥
(19) पापानां चक्षुषी हेतुर् मया दृष्ट्वा तु यत् कृतम् ।
श्रोत्रौ हेतुश् च मे भूयः बाहू वज्रपराहतौ ॥
(20) हस्तेभ्यः कटका बद्धा अङ्गुलीयेभि यंत्रिका ।
ग्रीवायां मुक्तिहाराणि पादौ चापि स्वलंकृतौ ॥
(21) जालानि कृत्वा तत्रैव सौवरणं संस्थितं ततः ।
गात्रै च विविधा रत्ना सौवर्णकटकास् तथा ॥
(22) उदारै रमितो भोगैर् मनसंबृहणैर् अपि ।
स्पर्शं च सुकुमारं मे तृष्णग्रस्तेन सेवितं ॥
(23) नानास्तरणशय्याभिः कायः क्रीडापितो मया ।
स्नातो गन्धोदकैर् विशदैर् गन्धैश् चापि प्रलेपितः ॥
(24) कर्पूरचन्दनैर् दिव्यैर् धूपनैश् चापि धूपितः ।
कस्तूरिकासमायुक्तो वासो वर्णकरः कृतः ॥
(25) गन्धवार्षिकतैलेन सुमनाचंपकादिभिः ।
म्रक्षितः पाण्डुरं वस्त्रं प्रावृतं सूक्ष्मकाशिकम् ॥
(26) अवतीर्य हस्तिपृष्ठाद् अश्वपृष्ठे ऽभिरुह्य च ।
राजाहम् इति मन्यामि जनो मे धावते ग्रतः ॥
(27) अन्तःपुरं विजानामि गीते नृत्ये सुशीक्षितः ।
निरापराधा मृगया हताः काण्डैश् च मे मृगाः ॥
(28) ईदृशं मे कृतं पापं परलोकम् अजानता ।
परमांसा मया भुक्तास् ततो दुःखम् इदं मम ॥
(29) मरणं मे न विज्ञातम् आगमिष्यति दारुणं ।
बालबुद्धिर् अहम् आसं शरीरं पोषितं मया ॥
(30) आगतं मरणं मे ऽद्य कश्चित् त्राता न विद्यते ।
यूयं हि ज्ञातयः सर्वे मुखं मे किं निरीक्षथ ॥
(31) कस्माद् वस्त्रं पाटयध्वं प्रलापैश् चापि किंकृते ।
केशान् कस्माद् विकिरथ रक्तं किं वा करिष्यति ॥
(32) पांसुं च शीर्षे क्षिपथ उरस्ताडं करोथ किम् ।
जीवं नाहं वारितव्यः पापात् किं रुदितेन वः ॥
(33) शरीरं मे वृकभोज्यं कुक्कुराणां च वायसाम् ।
भविष्यते पक्षिणां च वृथापुष्टो मया तनुः ॥
(34) मरणोरगसंस्पृष्टो जायते ऽपि सुदारुणः ।
तथोपयोज्यं भैषज्यं यथास्मान् मुच्यते भयात् ॥
(35) यन् मे वैद्याः प्रदास्यन्ति भैषज्यं न तद् इष्यते ।
सांप्रतं धर्मभैषज्यं क्लेशोरगविमोचकम् ॥
(36) मृयतो मम दातव्यं मामेमं संप्रयच्छथ ।
पुष्यमाणशरीरो ऽयम् अवश्यं नाशम् एष्यति ॥
(37) पापस्कन्धं किम् आक्षिप्य यत् पश्चा दुःखदायकम् ।
पोषितो मे पृयं कायः कृतघ्नत्वं करिष्यति ॥
(38) पुत्रा दुहितरं किं मे चक्षुषा सन्निरीक्षथ ।
त्रायध्वम् अस्माद् रोगान् मे रुदध्वं किन् निरर्थकम् ॥
(39) यूयं हि पुत्र दुहितः कृतघ्ना मम साम्प्रतम् ।
युष्माकं पोषणार्थाय परकीयं मया हृतं ॥
(40) सांप्रतं मरणं प्राप्तं निराशं मां करोथ किम् ।
जातिदुर्गतिसंत्रस्तो मरणेन च पीडितः ॥
(41) वेदना संज्ञा संस्काराः स्पर्शं परमवेदनाः ।
तृष्णाया भ्राम्यते बालः प्राप्नोति कटुकं फलं ॥
(42) शोकबन्धनं मह्यं तु जातस्य विषमे कुले ।
अल्पपुण्यं तु मां ज्ञात्वा शोचिष्यन्त्य् अपरे जनाः ॥
(43) दानशीलपरिभ्रष्टो धर्माच् चापि पराङ्मुखः ।
पुनर्भवं न जानीते क्लेशोरगविषार्दितः ॥
(44) भ्राम्यते ऽविद्यया बालो यत्र मोक्षं न विद्यते ।
मोक्षार्थं न विजानाति भ्रान्तः पापं करोति च ॥
(45) क्लेशैश् च भ्राम्यते बालो नित्यं व्याक्षिप्तमानसः ।
दह्यते ह्य् अग्निना दीप्तः कायो विविधबन्धनः ॥
(46) विभ्रान्तो भ्रमते कायो यत्र सौख्यं न विद्यते ।
तच् च सौख्यं न जानाति यद् अभ्यन्तसुखावहम् ॥
(47) बुद्धानां सुखदं क्षेत्रं धर्मचक्रं महागदम् ।
शीलं च सत्यं शीलनां ब्रह्मघोषास् तथागता ॥
[ससू(च्) 244] 1. अथ खलु भगवान् भैषज्यसेनं बोधिसत्वं महासत्वम् आमन्त्रेयद् अवोचत्: एवं च भैषज्यसेन सत्वा मरणकाले परिदेवन्ति; न न हि तेषां कश्चित् त्राता भविष्यत्य् अन्यत्र सुकृतानां कर्माणां फलविपाकं. गाथाश् चेमा भाषते:
(1) कृत्वा तु पापकं कर्म नरकेषु पतन्ति हि ।
भुंजन्ते चीमरं तप्तं पीवन्ते लोहपानकम् ॥
(2) कायेभ्यो वर्षते ऽङ्गारं दग्धाः क्रन्दन्ति दारुणम् ।
दह्यत्य् एषां तच् छरीरं नरकेस्मिन् महाभये ॥
(3) न विजानन्ति सौख्यानि धर्मं च न विजानते ।
बालो भ्रमत्य् अधर्मेण सौख्यं नाप्नोति किंचन ॥
(4) श्रद्धाशीलेन संपन्नः प्रज्ञायुक्तो महातपाः ।
मित्रं भजति कल्याणं शीघ्रं भोति तथागतः ॥
(5) वीर्यम् आरभते श्रेयं बुद्धलोकोपपत्तये ।
देशेथ कुशलं धर्मं सर्वसत्वपरिग्रहं ॥
(6) मैत्रं चित्तं समापन्नो ब्रह्मचर्यपरायणः ।
श्रुत्वैवं भैषज्यसेन प्रतिपत्तिपरो भवेत् ॥
(7) विमुक्तिदर्शनं बुद्धं घुष्टशब्दं विनायकं ।
लोकस्य मातापितरं बोधिचित्तं तद् उच्यते ॥
(8) कल्याणमित्रां परमं सुदुष्करं यो देशयेत् ।
धर्मं लोके शृण्वन्ति ये गौरवाद् बुद्धशासनं ।
ते भोन्ति बुद्धाः सुगता नरोत्तमाः ॥
(9) लोकनाथा भवन्त्य् एते सर्वसत्वप्रमोचकाः ।
शान्तेभ्यो बुद्धक्षेत्रेभ्यो ये भवन्ति सगौरवाः ॥
[ससू(च्) 245] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: किमिदं भगवन्? पृथिवी कंपति संप्रकंपति! 2. एवम् उक्ते भगवान् भैषज्यसेनं बोधिसत्वं महासत्वम् एतद् अवोचत्: व्यवलोकय भैषज्यसेन! किं पश्यसि? 3. व्यवलोकितं भैषज्यसेनेन बोधिसत्वेन महासत्वेन. 4. अथ तावद् एव चतुर्भ्यो दिग्भ्यः पश्यति: पृथिवी विवरं ददाति. पृथिव्यां विवृतायां, पश्यति: 5. पृथिवीविवरेभ्यो विंशति कोट्यो मनुष्याणां जायन्ते; 6. अधस्ताद्दिशि विंशति कोट्यो मनुष्याणां जायन्ते; 7. ऊर्ध्वायां दिशायां पंचविंशति कोट्यो मनुष्यानां जायन्ते.
[ससू(च्) 246] अथ ते दहराः सत्वा व्यवलोक्य भगवन्तम् एतद् अवोचन्: कतमे भगवन्न् इह जाताः? 2. भगवान् आह: पश्यथ यूयम्? इमे जनकायाः! 3. त आहुः: पश्यामो भगवन्. 3. भगवान् आह: इमे जनकाया युष्माकं सखाया जाताः. 5. त आहुः: एतेषाम् अपि भगवन् सत्वानां मरणं भविष्यतीति? 6. भगवान् आह: एवम् एतन् मार्षाः, सर्वसत्वानाम् अपि मरणं भविष्यति.
[ससू(च्) 247] 1. अथ ते पूर्विमका सत्वा दहराः, ये प्रथमम् उत्पन्नास्, ते, येन भगवांस् तेनांजलिं प्रणमय्य, भगवन्तम् एतद् अवोचन्: 2. नोत्सहामो वयं पुनर् भगवं जातिं, मरणं च द्रष्टुम्! 3. भगवान् आह: तत् किं यूयम् उत्सहथ वीर्यबलालब्धम्? 4. त आहुः: तथागतं संमुखं पश्येम! 5. तस्य च सकाशाद् धर्मश्रवणं मृष्टं मनापं शृणुयाम! 6. तथागतश्रावकसंघं च निषण्णं पश्येम! 7. बोधिसत्वान् महर्धिकान् महानुभावान् पश्येम! 8. ईदृशं च भगवन् नोत्सहामो: जातिं मरणं च द्रष्टुम्.
[ससू(च्) 248] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्व, ऋद्धिबलेनोत्थायासनात्, सार्धं तैः पंचभिर् बोधिसत्वशतैः, ते सर्वे ऋद्ध्या उत्थाय, उपर्य् अन्तरीक्षे चंक्रमन्ति. 2. पर्यंकञ् च बद्ध्वा ध्यायन्ति. 3. तेषां सर्वकायेभ्यः सिंहा निष्क्रामन्ति, 4. व्याघ्रा निष्क्रामन्ति, 5. व्याडा निष्क्रामन्ति, 6. हस्तिनो निष्क्रामन्ति. 7. महाऋद्धिविकुर्वितानि दर्शयन्ति. 8. पर्वतेषु च पर्यंकं बद्ध्वा निषीदन्ति. 9. विंशतिर् योजनसहस्राण्य् ऊर्ध्वम् आरुहन्ति. 10. दश कोटीसहस्राणि चन्द्रमसूर्याणिमवतरन्ति.
[ससू(च्) 249] अथ खलु ते दहराः सत्वा भगवन्तम् एतद् अवोचन्: को भगवन् हेतुः कः प्रत्ययो महारश्म्यवभासस्य, महतां च ऋद्धिविकुर्वितानां लोके प्रादुर्भूतानाम्? 2.भगवान् आह: पश्यथ कुलपुत्रा एतौ चन्द्रसूर्यौ प्रादुर्भूतौ? 3. त आहुः: पश्यामो भदन्त भगवन्, पश्यामो भदन्त सुगत. 4. भगवान् आह: एष बोधिसत्वैः स्वकायाद् रश्म्यवभास ऋद्धिप्रातिहार्यं च दर्शितं; 5. सन्दर्शयित्वा सत्वानान् धर्मन् देशयन्ति, बहुजनहिताय, बहुजनसुखाय, लोकानुकम्पायैर् महतो जनकायस्यार्थाय हिताय सुखाय देवानां च, मनुष्याणां च. 6. इहैव ते मानुष्यके काये वीर्यबलम् उपदर्शयित्वा ईदृशम् ऋद्धिबलम् उपदर्शयन्ति. 7. आह: देशयतु भगवान् रश्म्यवभासप्रादुर्भावाय धर्मम्.
[ससू(च्) 250] 1. एवम् उक्ते भगवान् भैषज्यसेनं बोधिसत्वं महासत्वम् एतद् अवोचत्: पश्यसि त्वं भैषज्यसेन? त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं प्रकंपितः! 2. आह: पश्यामि भगवं पश्यामि सुगत. तस्य मम भगवन्न् एवं भवत्य्; अहं तथागतम् एतम् अर्थं परिपृच्छेयं. 3. भगवान् आह: पृच्छ त्वं भैषज्यसेन यद् यद् एवाकांक्षस्य्; अहं ते तस्य तस्यैव प्रश्नस्य व्याकरणेन चित्तम् आराधयिष्यामि, निर्देक्ष्यामि, विभजिष्यामि. 4. भैषज्यसेन, यद् अतीतानागतप्रत्युत्पन्नेष्व् अध्वसु, तत् सर्वं दर्शयिष्यामि. 5. आह: देशयतु मे भगवान् कौकृत्यविनोदनार्थं. 6. इहाहं भगवन् पश्यामि तथागतं चतुरशीतिभिर् देवपुत्रसहस्रैः परिवृतं, 7. चतुरशीतिभिः कोटीसहस्रैर् बोधिसत्वैः परिवृतं, 8. द्वादशभिः कोटीसहस्रैर् नागराज्ञां परिवृतं, 9. अष्टादशभिः कोटीसहस्रैर् भूतानां परिवृतं, 10. पंचविंशतिभिः कोटीसहस्रैः प्रेतपिशाचैः परिवृतं.
[ससू(च्) 251] 1. भगवान् आह: नूनम् एते भैषज्यसेन सत्वाः, य इह पर्षदि ममान्तिके सन्निपतिता सन्निषण्णा धर्मश्रवणाय, त एते भैषज्यसेनाद्यैव संसारं पश्चान्मुखं करिष्यन्ति; 2. अद्यैव दशभूमिप्रतिलाभिनो भविष्यन्ति; 3. दशभूमिप्रतिष्ठिता निर्वाणधातुम् अनुप्राप्स्यन्ति; 4. सर्वसत्वहितैषिणः, जरामरणपरिमोक्षणार्थाय कृतधर्माः, सुखावहाः, क्लेशपाशं निर्जित्वा, प्राप्स्यन्ते बुद्धशासन्qअं. 5. आह: किम् एते भगवन् सत्वा, बहूनि सत्वस्थानानि नानाविचित्रैः कर्मभिर् उत्पन्नानि? ते भगवन्तं परिवार्यावस्थितानि. 6. भगवान् आह: शृणु भैषज्यसेन, आह च:
(1) मूढाः सत्वा न जानन्ति कुतो मोक्षो भविष्यति ।
बहवो नवकाः सत्वाः अद्य प्राप्स्यन्ति धारणिम् ॥
(2) ज्ञास्यन्ते ते सर्वधर्मान् प्राप्तये दशभूमिनां ।
भूमयो दश प्राप्स्यन्ति बुद्धकृत्यं करिष्यतः ॥
(3) वर्तिष्यन्ति धर्मचक्रं धर्मवर्षं प्रवर्षिषूः ।
रमणीयं शासनं मह्यं येन सत्वाः समागताः ॥
(4) देवनागाश् च प्रेताश् च असुराश् च सुदारुणाः ।
दशभूमिप्रतिष्ठन्ते धर्मशब्दपराहताः ॥
(5) धर्मभेर्याउदाहरं धर्मशंखप्रपूरणं ।
अद्यैषां नवसत्वानां वीर्यस्थामो भविष्यति ॥
(6) धर्मं प्राप्स्यन्ति अद्येमे यथा प्राप्तं तथागतैः ॥
[ससू(च्) 252] 1. अथ पंचमात्राणि सहस्राणि दहराणां सत्वानाम् उत्थायासनेभ्यो, येन भगवांस् तेनांजलिं प्रणम्य, भगवन्तम् एतद् अवोचन्:
(1) गुरुभारो भगवन् कायो दारुणश् च महाभयः ।
संसारे येन बध्यामः पर्यन्तम् अविजानकाः ॥
(2) मार्गन् तु न विजानामो मार्गम् एव न दृश्यते ।
अन्धभूता वयं नाथ अस्माकं कुरु संग्रहं ॥
(3) अध्येषाम वयं वीर धर्मन् देशय नायक ।
अल्पप्रज्ञा वयं जाता अनभिज्ञाः सुखस्य हि ॥
(4) धर्मन् देशय अस्माकं दुःखान् मोचय दारुणात् ।
यत्र यत्रोपपद्येम स्याद् अस्माद् बुद्धदर्शनम् ॥
[ससू(च्) 253] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो, येन ते दहरा सत्वास् तेनोपसंक्रान्त, उपसंक्रम्य, एतद् अवोचत्:
(1) भूंजध्वं भोजनं यूयं पिवध्वं रसम् अद्भुतम् ।
पश्चाद् विशारदा भूत्वा धर्मं श्रोष्यथ निर्भयं ॥
2. त आहुः:
(2) भदन्त स्थविर कस् त्वं न जानीमो वयं तव ।
प्रासादिकं त्वां पश्यामः शान्तरूपं महायशः ॥
(3) मुक्तं नरकतिर्यक्षु प्रेतलोकान् महाभयात् ।
शान्ता ते सर्वपापानि यथा जगति शोभसे ॥
(4) पश्याम हस्ते करकं सप्तरत्नसमन्वितम् ।
सूत्रं रत्नामयं काये तेजराशौ विवेष्टितं ॥
(5) प्रतिवोढुं न शक्ता स्मः शान्तवाक्यस्य ते वचः ।
भक्तेन कार्यं नास्माकं पानेन स्वादुना न च ॥
(6) भक्ताद् उच्चार संभवति पानान् मूत्रं तथैव च ।
शोणितं च रसाद् भवति रक्तान् मांसं च संभवेत् ॥
(7) नास्माकं भोजनं कार्यं पानेनैव च संस्कृतं ।
वस्त्राणि नैव सूक्ष्माणि पट्टापट्टकसंहिता ॥
(8) कटकाश् च न सौवर्णाः कार्या मुक्तिलता न च ।
अङ्गुलीयैर् नैव कार्यं सर्वे ते ऽनित्यधर्मिणः ॥
(9) जीवितैर् अर्थिकाश् च स्मः न च गच्छेम दुर्गतिम् ।
अर्थिका धर्मदानेन न देवानां सुखैर् अपि ॥
(10) कल्याणमित्रता कार्या न राज्यं चक्रवर्तिनां ।
चक्रवर्ती मरिष्यन्ति त्यक्त्वा द्वीपान् सुशोभनान् ॥
(11) न पुत्राः पृष्ठतो यान्ति न भार्या न च धीतराः ।
सप्तरत्ना निवर्त्यन्ते नापि यास्यन्ति पृष्ठतः ॥
(12) सन्निपात्य बहुजनो न च यास्यन्ति पृष्ठतः ।
पुरतश् च न धावन्ते वशं भूयो न वर्तते ॥
(13) एकजन्मिकराजानो भ्रामिता नित्यया बहु ।
कृत्वा पापानि कर्माणि रौरवे प्रपतन्ति ते ॥
(14) चतुर्दिशं पर्यटित्वा सप्तरत्नैर् महर्धिकैः ।
यास्यते क्व च सा ऋद्धिर् यदा वत्स्यति रौरवे ॥
(15) मृता ऋद्धिं न शक्नोन्ति यत्र भूमिर् न विद्यते ।
स्थविर शृणुष्व अस्माकं गच्छ येन तथागतः ॥
(16) कांक्षाम दर्शनं तस्य मातापित्रोर् यथैव हि ।
नास्माकं विद्यते माता न पिता भ्रातरौ न च ॥
(17) सैव लोकगुरुर् माता पिता चैव तथागतः ।
सैव चन्द्रश् च सूर्यश् च क्षेममार्गप्रदर्शकः ॥
(18) मोचकः स हि संसाराद् येन भूयो न जायते ।
स नावातारको ओघात् क्लेशौघाच् च महाभयात् ॥
(19) तेन प्रतारिताः सत्वाः न भूयो विनिवर्तिता ।
सद्धर्मो देशितस् तेन अग्रबोधिप्रदर्शकः ॥
(20) नास्माकं भोजनेनार्थो न राज्यफलकांक्षिणः ।
न देवलोकगमनं कार्यं नरकभीरुभिः ॥
(21) सुखं मानुष्यकं जन्म दृश्यते यत्र सर्ववित् ।
अल्पायुषाश् च दृश्यन्ते दुष्कृतैः कर्मभिः स्वकैः ॥
(22) रज्यन्ते कामभोगैस् ते विन्दन्ति मरणं न च ।
जानन्ति न च भायन्ते निरोधोत्पादवांचिताः ॥
(23) सूक्ष्मान् धर्मान् न जानन्ति सूक्ष्मं कार्यं न कुर्वन्ते ।
शान्तं धातुं न जानन्ति अविद्याक्रान्तचेतसः ॥
(24) च्यवन्तो न च खिद्यन्ते जायन्तश् च पुनः पुनः ।
दीर्घरात्रं दुःखहता नित्यता दण्डताडिताः ॥
(25) परकीयं हरिष्यन्ति घात्यन्ते बन्धने तथा ।
पंचबन्धनबद्धास् ते पूर्वपापेन चोदिताः ॥
(26) निराशाश् च मरिष्यन्ति शोकशल्यसमर्पिता ।
निरुद्ध्यमाने विज्ञाने करुणं परिदेवते ॥
(27) को नु त्राता भवेयुर् मे सर्वान् भोगान् ददाम्य् अहं ।
सुवर्णरुप्यस्फटिकं दासो ऽपि च भवाम्य् अहं ॥
(28) सर्वं कर्म करिष्यामि दासयोग्यं च यद् भवेत् ।
न राज्यभोगैर् मे कार्यं न धान्येन धनेन च ॥
(29) स्वशरीरेण मे कार्यं पापकारी न मुच्यते ।
एवं हि स्थविरास्माकं न कार्यं भोजनं भवेत् ॥
(30) राजानो ऽपि मरिष्यन्ति यैर् भुक्तं मृष्टभोजनम् ।
देवपुत्रा मरिष्यन्ति पीत्वा वै पानम् उत्तमम् ॥
(31) नानारसमायुक्तं संस्कृतं पानभोजनम् ।
आनीय पुरतो राजा जिह्वया स्पृशति भोजन ॥
(32) रसगृद्धा हि राजानः पापं कुर्वन्त्य् अनल्पकं ।
रज्यन्त्य् अनित्येहि रसेहि यत्र सारं न विद्यते ॥
(33) पानं न कार्यम् अस्माकं न च कार्यं हि भोजनं ।
धर्मता ईदृशी कार्या दुःखान् मुच्येम यद् वयम् ॥
(34) तृष्णाबन्धननिर्मुक्तं तृष्णाक्लेशविमोक्षनम् ।
सर्वबन्धननिर्मुक्तं तं बुद्धं शरणं गताः ॥
(35) वयं हि शरणं यामो लोकनाथं महर्षिणम् ।
वन्दनाय वयं यामः सत्वानां प्रियदर्शनम् ॥
(36) नामं तव न जानीमो नामम् आचक्ष्व शोभनं ।
3. भैषज्यसेनो बोधिसत्व आह:
(36) यूयं हि श्रोतुम् इच्छध्वं नामं सर्वजनस्य च ॥
(37) वृतः कोटीशतसहस्रैर् नवकैः सत्वैस् तथागतः ।
4. त आहुः:
(37) तव तु श्रोतुम् इच्छामो नामं सर्वगुणोद्भवं ॥
(38) गंभीरं श्रूयते नाम यस् त्वं बुद्धाना श्रावकः 5. आह:
(38) भैषज्यसेनो नाम्नाहं सत्वानां भैषज्यो ह्य् अहं ॥
(39) युष्माकं देशयैष्यामि सर्वेषाम् औषधं वरं ।
सर्वव्याधिप्रशमनं सर्वव्याधिहते जने ॥
(40) रागो व्याधिर् महाव्याधिर् लोके नश्यति दारुणं ।
मोहो व्याधिर् महाघोरो येन भ्राम्यन्त्य् अबुद्धयः ॥
(41) व्रजन्ति नरकं सत्वास् तिर्यक्प्रेतेषु वै तथा ।
द्वेषग्रस्ता इमे बालास् तेषां शान्तिः कथं भवेत् ॥
6. त आहुः:
(42) मुच्येम सर्वदुःखातः श्रुत्वा धर्मम् इमं शुभं ।
मुक्ताश् च सर्वदुःखेभ्यो बालबुद्धिम् अजानकाः ॥
(43) श्रोष्यामहे धर्मदानं पापकर्मविवर्जिताः ।
सर्वपापं विवर्जित्वा प्रहीणभयभैरवाः ॥
(44) द्रक्ष्याम शीघ्रं संबुद्धं सर्वव्याधिप्रमोचकं ।
वैद्यराजं महावैद्यं दुःखितानां चिकित्सकं ॥
(45) गच्छ स्थविर शीघ्रं त्वं वन्दनाय तथागतं ।
वन्दस्व चास्मद्वचना ब्रूहि लोकविनायकं ॥
(46) प्रशामय इमं व्याधिं शमयाग्निं सुदारुणम् ।
कायो ऽयं ज्वलितः सर्वो दह्यमानो न शाम्यते ॥
(47) दुःखार्दितानाम् अस्माकं कार्युण्यं कुरु सुव्रत ।
कायभारो महाभारस् तीक्ष्णभारः सुदारुणः ॥
(48) द्वेषमोहसमाक्रान्ता उद्वहन्ति जनाः सदा ।
पुनः पुनर् वहन्त्य् एते मोक्षद्वारम् अजानकाः ॥
(49) मर्तव्यं न विजानन्ते त्रासो नोत्पद्यते ऽथ च ।
मोक्षमार्गं अजानाना मोक्षमार्गम् अपश्यकाः ॥
(50) अस्माकं मरणं नास्ति कदाचिद् इति सुस्थिताः ।
संभ्रान्ता न विजानन्ति पश्यन्तो मातरं मृताम् ॥
(51) पितरं न स्मरन्त्य् अन्ये नित्यं च व्याधिपीडिताः ।
क्लेशकर्मप्रलुडिताः कथं भूंजाम भोजनं ॥
(52) दुःखान्तं न विजानामः श्रमामो ऽथ निरर्थकं ।
अस्माकम् ईदृशा दुःखा जात्यविद्यानिदानतः ॥
(53) महाभयं गुरुभारं संज्ञासंस्कारवेदना ।
तृष्णाया भ्राम्यते बालो यो धर्मं न विजानते ॥
(54) जातो लोके ह्य् अनर्थाय कायभारपरिवृतः ।
स्नानानुलेपनैः कार्यं शुचिर् वस्त्रं सुशोभनं ॥
(55) मृष्टं च भोजनं कार्यं यच् छरीरे मनोरमं ।
पंचतूर्या मनोज्ञं च श्रोत्रं याचयते तथा ॥
(56) सप्तरत्नसमुत्थाने रूपे रज्यन्ति चक्षुषी ।
सर्वं रसं च मृष्टं च जिह्वा याचयते ऽपि च ॥
(57) स्पर्शं च मृदुकं सूक्ष्मं कायः प्रार्थयते सदा ।
मांसद्वयं शरीरेण निष्पीड्य रती जायते ॥
(58) कायो ह्य् अचेतनो ऽप्य् एष रतिं कस् तत्र विन्दति ।
पादौ मे रमतस् तत्र प्रावृतं चर्म सुन्दरं ॥
(59) भवन्ति मरणे त्राणं न वस्त्रं न विलेपनम् ।
भवेच् छरीरं न त्राणं किं पुनर् वस्त्रलेपनं ॥
(60) पुरुष उच्यते कायम् एति श्वासं महाबलं ।
तीक्ष्णं बलं प्रतिसंख्या तं तच्छरीरे महागुणं ॥
(61) क्रीडया भ्रामितः पूर्वम् अश्वहस्तिपरिवृतः ।
मोक्षधर्मम् अजानानो रतो ऽहं पापकर्मणि ॥
(62) क्रीड्या कारापितं पापं परलोकम् अजानता ।
पुनः पुनश् च जातो ऽहं पुनर् मरणम् आगतः ॥
(63) शोकः पुनः पुनर् दृष्टं परिदेवितबन्धनं ।
मातॄणां मरणं दृष्टं दृष्टाश् च पितरो मृता ॥
(64) ज्ञातयो भगिनी चैव पुत्रा भार्या मृतापि च ।
शून्याः सर्वे हि संस्काराः को हि रज्येत् सचेतनः ॥
(65) विश्वासं हि मयाज्ञातं लोभग्रस्तेन चेतसा ।
शान्तं धर्मं नोपलब्धं मरणं नाभिनन्दितं ॥
(66) तेन दानं न दत्तं मे लोभेनावृतचेतसा ।
कः स्या लोभसमो पापो यो ऽद्यापि न निवर्तते ॥
(67) संभ्रान्ता हि वयं जाताः संभ्रान्तं सकलं जगत् ।
संभ्रान्ताः शब्दं शृणुमो असद्धर्मपरिग्रहं ॥
(68) मोक्षं ध्यानाश् च मर्गामः शरीरं नोद्वहामहे ।
बुद्धा भवेम लोकार्थे शास्तारो गुरवो जगे ॥
(69) बुद्धो मातापिता लोके बुद्धो मार्गप्रदर्शकः ।
प्रवर्षते धर्मवर्षं जंबुद्वीपे समन्ततः ॥
(70) मूढा सत्वा न जानन्ति धर्माणां संग्रहं कथं ।
बोधौ चित्तं नामयित्वा लभ्यते धर्मसंग्रहः ॥
(71) शून्यताः सर्वसंकाराः शून्या भोगा धनं तथा ।
पश्याम शून्यम् आत्मानं दृष्ट्वा जाता निराशता ॥
(72) स्थविर भैषज्यसेनमस्माकं वचनं शृणु ।
दूरं च ते विसर्जेमो बोधिसत्वान कारणात् ॥
(73) बोधिसत्वा न खिद्यन्ते वीर्यवन्तो महातपाः ।
स्मृत्वा संसारदोषाणि कुर्वन्ते गुणसंग्रहं ॥
(74) गच्छस्व येन शास्तासौ पृच्छ चास्माक कारनात् ।
प्रतिबुद्धा सुखं शास्ता मा किंचित् खिद्यते जिनः ॥
(75) पराजितस् त्वया मारः सबलश् च सवाहनः ।
शीघ्रम् उज्वालितं धर्मं सर्वसत्वसुखावहं ॥
(76) न चास्माभिः श्रुतो धर्मो येन बुद्धा भवेमहे ।
गच्छस्व शीघ्रं स्थविर अस्माकं हितकारणात् ॥
(77) नोत्तरामो वयं यावन् न पश्यामस् तथागतं ।
द्वातृंशलक्षणधरं स्थिता सर्वे सगौरवाः ॥
7. भैषज्यसेनो बोधिसत्व आह:
(88) ऊर्ध्वं तावन् निरीक्षध्वं किं पश्यध्वं हि सांप्रतं ।
(79) अवलोकयन्ति ते ऊर्ध्वं स्थिताः पंच अनूनकाः ।
शतास् त्रयः सहस्राणि कूटागाराः समन्ततः ॥
(80) सप्तरत्नसमारूढा रत्नजालस्वलंकृताः ।
पद्मं प्रफुल्लं मध्ये च दिव्यगन्धप्रमुञ्चनं ॥
(81) पृच्छन्ति स्थविरं तत्र किम् एतद् इह दृश्यते ।
कूटागारा रत्नजालाः पद्मकेसरसंस्थिताः ॥
8. भैषजयसेन आह:
(82) स्थानान्य् एतानि युष्माकं गच्छध्वं बुद्धदर्शनं ।
वन्दध्वं लोकप्रद्योतं यो ऽसौ लोकोत्तरो गुरुः ॥
9. त आहुः:
(83) तत्र मार्गं न जानीमो न पश्यामस् तथागतं ।
यत्र मार्गं न जानीमः कुत्र गच्छाम वन्दितुम् ॥
10. भैषज्यसेन आह:
(84) वन्दनाय च गन्तव्यं शास्तारम् अमृतप्रभं ।
अनन्तम् आकाशम् इव परामार्ष्टुं न शक्यते ॥
(85) स्थाने तिष्ठत्य् असौ शास्ता यथा तिष्ठन्ति मेरवः ।
सुमेरोर् उपमा स्यात् तु गाधं चैव महोदधेः ॥
(86) त्र्साहस्राच् च रजसो न ज्ञानाद् बुद्धसंभवात् ।
वन्दितो लोकप्रद्योतो बोधिसत्वैर् दशद्दिशः ॥
11. त आहुः:
(87) विलोकय लोकनाथ पूरयास्मकम् आशयं ।
चित्तेन वन्दितो ऽस्माभिः शास्ता लब्धास् ततः फलं ॥
12. भैषज्यसेनो बोधिसत्व आह:
(88) न गन्धै रज्यते शास्ता न माल्यैर् न ।
विलेपनैः हेतुं गृह्णाति सत्वानां येन मुच्यन्ति संस्कृतात् ॥
(89) संग्रामं न कुरुते तस्य मारः परमदारुणं ।
दमितो हि मनो येन बुद्धं च शरणं गतः ॥
(90) मृत्योर् न यास्यति वशं क्षिप्रं प्राप्स्यति धारणीः ।
चित्तप्रसादं कृत्वासौ शास्तारं पश्यते ततः ॥
[ससू(च्) 254] 1. अथ खलु कलविङ्करुतस्वरमनोज्ञघोषस् तथागतः स्मितं प्रादुश्चकार. 2. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्व उत्थायासनाद्, येन भगवांस् तेनांजलिं प्रणम्य, भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणाय यद् भगवतो मुखद्वाराच् चतुरशीतिरश्मिसहस्राणि निश्चरन्ति? 3. तैश् च रश्मिभिः त्रिसाहस्रमहासाहस्री लोकधातुर् अवभासेन स्फुटाभूत्, 4. सर्वे च द्वातृंशन् महानिरया स्फुटा अभूवन्, 5. द्वातृंशतिश् च देवभवनान्य् अवभासितानि, 6. ताश् च रश्मयो नानावर्णाः तद्यथा नीलपीतलोहितावदातमंजिष्ठास्फटिकरजतवर्णाः, 7. एताश्च रश्मयो भगवतो मुखद्वारान् निश्चर्य, त्रिसाहस्रमहासाहस्र्यां लोकधातौ सर्वमुखोपधानं कृत्वा, पुनर् एव प्रत्युदावृत्य, भगवन्तं सप्तकृत् प्रदक्षिणीकृत्य, भगवतो मूर्धन्य् अन्तरधीयन्त.
[ससू(च्) 255] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: पृच्छेयम् अहं भगवन्तं तथागतम् अर्हन्तं सम्यक्संबुद्धं कञ्चिद् एव प्रदेशं, सचेन् मे भगवान् अवकाशं कुर्यात् पृष्टप्रश्नव्याकरणाय. 2. एवम् उक्ते भगवां भैषज्यसेनं बोधिसत्वं महासत्वम् एतद् अवोचत्: पृच्छ त्वं भैषज्यसेन यद् यद् एवाकांक्षस्य्; अहं ते तस्य तस्यैव प्रश्नस्य व्याकरणेन चित्तम् आरधयिष्यामि.
[ससू(च्) 256] 1. एवम् उक्ते भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: तृंशत् कोटीसहस्राणि भगवन् नवकानां सत्वानां प्रादुर्भूतानि. 2. ते तथागतस्य सूक्ष्मान् धर्मदेशनाम् अवगाहन्ति. 3. सूक्ष्मं (धर्मं) भगवन् वृद्धाः सत्वा परिभाषन्ति, परिवदन्ति, परिपीडयन्ति. 4. न यूयं वृद्धाः सत्वा धर्मं जानीथ, नित्यं यूयम् अधर्मे चाकुशले च रज्यथ. 5. तद् भगवन् मृष्टां मनापां वाचं भाषन्ते. तत् केन कारणेन भगवन् वावं भाषन्ते? 6. भगवान् आह: न विजानासि भैषज्यसेन केन कारणेनैते सत्वा एवं वाचं भाषन्ते? 7. तथागतस्यैभिर् मृदुकं सुकुमारं भाषितं धर्मं श्रुत्वा तेनैते भैषज्यसेन सर्वधर्माणां अर्थम् अवभोत्स्यन्ते, 8. सर्वगुणसमन्वागताश् च भविष्यन्ति, 9. सर्वे च धारणीम् अवगाहिष्यन्ति. 10. अद्यदग्रेण दशभूमिप्रतिष्ठिता भविष्यन्ति, 11. अद्य महाधर्मदुन्दुभिशब्दं प्रकरिष्यन्ति, 12. अद्य महाधर्मप्रकारसमन्वागता भविष्यन्ति. 13. पश्यसि त्वं भैषज्यसेन इमानि कूटागाराणि? 14. भैषज्यसेन आह: पश्यामि भगवन्, पश्यामि सुगत. 15. भगवान् आह: अद्येमे भैषज्यसेन दहराः सत्वाः, एषु कूटागारेष्व् अभिरुह्य, धर्माभिसमयम् अनुप्राप्स्यन्ति, 16. अद्येमे सर्वकुशलधर्मपरिपूरिं करिष्यन्ति, 17. अद्य महाधर्मदुन्दुभिं पराहनिष्यन्ति, 18. अनेकेषां च देवनिकायानाम् अद्य धर्माभिसमयो भविष्यति, 19. बहूनाञ् च नैरयिकानां सत्वानां विनिपातसंप्रस्थितानां, तथागतज्ञाननिर्देशं श्रुत्वा, सर्वसंसारपराङ्मुखपराजयो भविष्यति.
[ससू(च्) 257] 1. तस्याम् च वेलायां वृद्धसत्वैर् नवानवतिभिः कोटीशस्रैः स्रोतआपत्तिफलं प्राप्तं. 2. ते च सर्वधर्मसमन्वागता भविष्यन्ति, 3. सर्वे ते भैषज्यसेन सर्वदुःखपरिवर्जिता भविष्यन्ति, 4. सर्वे ते भैषज्यसेन सर्वतथागतदर्शनं निष्पादयिष्यन्ति, 5. सर्वे ते भैषज्यसेन महाधर्मसमन्वागता भविष्यन्ति. 6. अवलोकय भैषज्यसेन चतुर्दिशं!
[ससू(च्) 258] 1. अवलोकयति भैषज्यसेनो बोधिसत्वो महासत्वः समन्ताच् चतुर्दिशं: 2. पूर्वस्यान् दिशि पंचाशत्कोटीगंगानदीबालिकासमा बोधिसत्वा आगच्छन्ति; 3. दक्षिणस्यान् दिशि षष्टिकोटीगंगानदीबालिकासमा बोधिसत्वा आगच्छन्ति; 4. पश्चिमस्यां दिशि सप्ततिकोटीगंगानदीबालिकासमा बोधिसत्वा आगच्छन्ति; 5. उत्तरस्यान् दिश्य् अशीतिकोटीगंगानदीबालिकासमा बोधिसत्वा आगच्छन्ति; 6. अधस्ताद्दिशि नवतिकोटीसहस्रगंगानदीबालिकासमा बोधिसत्वा आगच्छन्ति; 7. ऊर्ध्वायां दिशि कोटीशतसहस्रगंगानदीबालिकासमा बोधिसत्वा आगच्छन्ति; 8. ते चागतागता बोधिसत्वा महासत्वा, महाभगवतः पादौ शिरशाभिवन्द्य, एकान्ते तस्थुः.
[ससू(च्) 259] 1. एकान्तस्थितानां दशदिग्भ्य आगतानां बोधिसत्वानां महासत्वानाम्, अथ भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: 2. किम् एतद् भगवन् खगान्तरीक्षे कृष्णरूपं लोहितरूपं च पश्यामि? 3. भगवान् आह: किमिदं भैषज्यसेन? न संजानासि यद् एतद् अन्तरीक्षे कृष्णरूपं लोहितरूपं च पश्यसि? 4. आह: न जानामि भगवन्, न जानामि सुगत. 5. भगवान् आह: एष तथागत एव जानाति: मारो ऽयं भैषज्यसेन विचक्षुस्करणायेहोपसंक्रान्तः. 6. इच्छसि भैषज्यसेनैतान् बोधिसत्वान् महासत्वान् द्रष्टुं य एते खगान्तरीक्षे व्यवस्थिताः? 7. आह: इच्छामि भगवन्न्, इच्छामि सुगत.
[ससू(च्) 260] 1. अथ भगवांस्, तान् बोधिसत्वान् दर्शयित्वा, भैषज्यसेनं बोधिसत्वं महासत्वम् आमन्त्रयति स्म: 2. ईदृशा भैषज्यसेन गंगानदीबालिकासमा बोधिसत्वा आगताः. 3. आह: को भगवन् हेतुः कः प्रत्ययो यद् एते बोधिसत्वा एतावन्त इहागताः? 4. भगवान् आह: दहराणां सत्वानां प्रत्ययेन भैषज्यसेन संप्रातं सर्वसत्वा धर्मध्यानसमन्वागता भविष्यन्ति. 5. पश्यसि त्वं भैषज्यसेन? बोधिसत्वा नानाऋद्धिबला आगता. 6. अवलोकिता मया कोटीशतगंगानदीबालिकासमा लोकधातवस्; तत्र मया कोटीनयुतशतसहस्रगंगानदीबालिकासमा बोधिसत्वा महासत्वा दृष्टाः. 7. स्वकस्वकेन ऋद्धिबलेन तिष्ठन्ति, नानारूपा, नानावर्णा, नानाबलसंस्थानास् तिष्ठन्ति. 8. आर्यधर्मविहारेषु ते बोधिसत्वास् तिष्ठन्ति. धर्मविहारेषु ते बोधिसत्वपरिवारास् तिष्ठन्ति.
[ससू(च्) 260] 1. इदम् अवोचद् भगवान् आत्तमनाः. 2. सर्वशुरो बोधिसत्वो महासत्वः, भैषज्यसेनो बोधिसत्वो महासत्वः, सर्वे च नवपुराणका बोधिसत्वा महासत्वाः, सा च सर्वावती पर्षत्, सदेवमनुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दत्. 3. 3. संघाटं नाम महायानसूत्रं समाप्तम्.
चोलोफोन् द्: ॥ 0 ॥ आर्यसंघाटं नाम धर्म्मपर्यायं समाप्तम् ॥0॥
मूल पाठ: Saṃghāṭasūtra · Edition: Giotto Canevascini: The Khotanese Saṅghāṭasūtra. Wiesbaden: Dr. Ludwig Reichert Verlag, 1993 (Beiträge zur Iranistik, 14) · Data entry Anne Peters und Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0