भाषा

ENहिગુ
ग्रंथ पाठ

समाधिसंभारपरिवर्त · अध्याय 1

1.1

समाधिसंभारपरिवर्तः
लोकनाथाय नमः
बोधिचित्तं दृढं कुर्यात् पूर्व कारुण्यशक्तिजम् ।
भवभोगसुखे ऽसक्तः परिग्रहपराङ्मुखः

1.2

श्रद्धादिधनसम्पन्नो गुरुं बुद्धसमं भजेत् ।
तद्दिष्टसमयाचारं परिपालितुमुद्यतः

1.3

कुम्भगुह्याभेषेकं तु प्रसादाल्लभते गुरोः ।
कायवाक् चित्तसंशुद्धः सिद्धिपात्रं स साधकः

1.4

समाध्यङ्गसमुद्भूतसंभारपारिपूरितः ।
शीघ्रं सिद्ध्याप्तिरेवं च गुह्यमन्त्रनयस्थितिः

1.5

समाध्यङ्गच्युतौ तस्य विपक्षस्थितितस्तथा ।
जन्मकोटिसहस्रैश्च समाधिर्न प्रसिध्यति

1.6

तत्समाधिप्रसिध्यर्थ गुह्यवृत्तस्थयोगवित् ।
तद् भिन्नं चिन्तनं त्यक्त्वा दृढवीर्येण चोद्यमेत्

1.7

समाधेर्यानि चाङ्गानि विपक्षस्तद्विनिश्चये ।
समाध्यङ्गं विपक्षश्च संक्षेपेण समुच्यते

1.8

शीलसम्पत्तियुक्तत्वं भोगेषु निरपेक्षता ।
क्षान्तिर्दृढप्रतिज्ञा च जनसंसर्गवर्जनम्

1.9

कायवाक् चित्तकार्येषु सम्प्रजन्यसमन्वयः ।
बुद्धकायस्तुतिस्मृत्या कायानुस्मृतिसंयुतिः

1.10

यस्मिन् काले तु यत्कार्य दार्ढ्र्य तस्य ह्यनुस्मृतौ ।
पञ्चावरणहानिश्च युक्तकृद् भक्तमानता

1.11

समस्तलोकधर्मेषु चित्तोपेक्षा सदा तथा ।
संलेखो ऽङ्गानि चेमानि विपक्षस्तद्विपर्ययः

मूल पाठ: Samādhisaṃbhāraparivarta · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc