भाषा

ENहिગુ
ग्रंथ पाठ

शाक्तविज्ञान · भाग 12

स्थानं प्रवेशो रूपं च लक्षं लक्षणमेव च ।
उत्थापनं बोधनं च चक्रविश्राममेव च ॥ सोम्स्व्_1
भूमिकागमनं चैव अन्तावस्था तथैव च ।
विश्रामः परिणामश्च तथागमनमेव च ॥ सोम्स्व्_2
इति त्रयोदशविधं शाक्तं विज्ञानमुत्तमम् ।
सर्वेषु त्रिकशास्त्रेषु सूचितं शम्भुना स्वयम् ॥ सोम्स्व्_3
नाभ्यधो ऽङ्गुलाः पञ्च मेढ्रस्योर्ध्वाङ्गुलद्वयम् ।
तन्मध्ये कन्दनामा च चक्रस्थानमिति स्मृतम् ॥ सोम्स्व्_4
प्राणापाननिरोधेन मनस्तत्रैव निःक्षिपेत् ।
सम्यग् वायुगतिं जित्वा यावन् मध्यगतां नयेत् ॥ सोम्स्व्_5
एष प्रवेश इत्य् आहू रूपं वक्ष्यामि चाधुना ।
शृङ्गाटकनिभं चक्रं षडरं चापरं ध्रुवम् ॥ सोम्स्व्_6
दाडिमीकुसुमप्रख्यं कन्दं वै जातिलोहितम् ।
एतद्रूपं समाख्यातं तृतीयं चिन्तनात्मकम् ॥ सोम्स्व्_7
तन्मध्ये निक्षिपेच् चित्तं यावत् तत्र स्थिरीकृतम् ।
त्यक्तरुद्धो यदा वायुस्तदा लक्षं विनिर्दिशेत् ॥ सोम्स्व्_8
कन्दचक्रस्य मध्यस्था त्व् अनाहतमयी कला ।
अधऊर्ध्वे रेखासंयुक्ता भुजंगकुटिलाकृतिः ॥ सोम्स्व्_9
ऊर्ध्वाधो ऽवस्थितावस्था सूर्याचन्द्रमसाव् उभौ ।
सत्यं विराजमाना सा सहस्रार्कसमप्रभा ॥ सोम्स्व्_10
तामेवालोकयेच् छक्तिं मनाक् कुम्भकवृत्तिना ।
एतल् लक्षणम् उद्दिष्टम् उत्थापनम् अतः परम् ॥ सोम्स्व्_11
जुषद्रेचकवृत्त्या तु मन्त्रं चैव समुच्चरेत् ।
प्रबुद्धां चिन्तयेच्छक्तिं दण्डवत् परमेश्वरीम् ॥ सोम्स्व्_12
आधारमध्यादायाता सुषुम्नामार्गम् आश्रिता ।
उत्थापनं समाख्यातं बोधनं परतस्तथा ॥ सोम्स्व्_13
कन्दस्थो वेधयेन् नाभिं ततो हृत्स्थं पितामहम् ।
कण्ठस्थमच्युतं साक्षाद्रुद्रं तालुतले स्थितम् ॥ सोम्स्व्_14
भ्रुवोर्मध्यगतं त्व् ईशं ब्रह्मद्वारे सदाशिवम् ।
बोधयित्वा व्रजेद् आशु पदं चानाश्रितं शिवम् ॥ सोम्स्व्_15
एतद्बोधनम् उद्दिष्टं चक्रविश्रामणं ततः ।
स्वाभाविकं दलं दीप्तं द्रवं स्थिरनभोपमम् ॥ सोम्स्व्_16
अमृतं शेखरं चैव शक्तिर्ब्रह्मा तथैव च ।
बिन्दुनादं तथा प्रोक्तं चक्रद्वादशकं किल ॥ सोम्स्व्_17
वेधयन्ती क्रमाच् छक्तिश्चक्रे चक्रे प्रतिक्षणम् ।
विश्रमेत् सा महादेवी चक्रविश्राम उत्तमः ॥ सोम्स्व्_18
हृदयं कम्पते पूर्वं तालुकद्वारमेव च ।
शिरश्च भ्रमते तस्य दृष्टिसंक्रान्तिलक्षणम् ॥ सोम्स्व्_19
एकैकं भ्रमयत्य् अङ्गम् अङ्गप्रत्यङ्गसंधिषु ।
घूर्णते हृदयं चास्य सम्यग्विद्याप्रभावतः ॥ सोम्स्व्_20

यानि यानि विकाराणि अवस्था कुरुते सतः ।
तेषु तेषु न भेतव्यं क्रीडति परमेश्वरी ॥ सोम्स्व्_21
अमृते सेयम् उन्मत्ता विकारान् कुरुते बहून् ।
मलत्रयविकारौ बहुजन्मसु यत्कृतम् ॥ सोम्स्व्_22
धुनोति समलान् पाशात् परशक्तिसमुत्थितान् ।
भूमिकागमनं प्रोक्तम् अन्तावस्था तथोच्यते ॥ सोम्स्व्_23
यत् संक्रान्तौ रोमहर्षो ऽस्रुपातो जृम्भारम्भो गद्गदा गीर् गिरो ऽन्तः ।
ग्रन्थिस्फोटः स्पर्शदिव्यप्रहर्षो बिन्दुस्पन्दा नाभिकन्दात् स्फुरन्ति ॥ सोम्स्व्_24
अन्तावस्था समाख्याता विश्रामस् त्व् अधुनोच्यते ।
नाभिचक्रविनिर्याता यदा शक्तिः प्रबुध्यते ॥ सोम्स्व्_25
तदा त्व् अस्तमितं सर्वमक्षग्रामं बहिः स्थितम् ।
यदा सा परमा शक्तिः सुलीना परमे पदे ॥ सोम्स्व्_26
तदा न विन्दते किंचिद् विषयी विषयान्तरम् ।
शिवे विश्राम्यते शक्तिस्तदा विश्राम उच्यते ॥ सोम्स्व्_27
यत्र विश्रमणं शक्तेर्मनस्तत्र लयं व्रजेत् ।
तदात्मा परमात्मत्वे ज्ञातव्यो निश्चितात्मभिः ॥ सोम्स्व्_28
शिवीभूतो भवत्यात्मा परिणामः स एव हि ।
सदा स वर्षते दिव्यम् अमृतं जन्तुजीवनम् ॥ सोम्स्व्_29
चित्तं तत्र तु संधार्य पुनर्दैवी विशेत्तु सा ।
तदा त्व् आगमनं प्रोक्तमेवं सम्यक् त्रयोदश ॥ सोम्स्व्_30

मूल पाठ: Śāktavijñāna · Edition: J.D. Zaidoo, Srinagar: Research Department, 1947 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc