भाषा

ENहिગુ
ग्रंथ पाठ

सागरनागराजपरिपृच्छामहायानसूत्र · भाग 11

आर्यसागरनागराजपरिपृच्छा नाम महायानसूत्रम् = सागर संस्कृते
पुनरुद्धृतम् नमः सर्वबुद्धबोधिसत्त्वेभ्यः ।
एवं मया श्रुतम् - एकस्मिन् समये भगवान् बुद्धः सागरनागराजावसथे विहरति स्म सार्द्धं सार्धद्वादशशतभिक्षूणां महासङ्घेन बहुभिश्च बोधिसत्त्वमहासत्त्वैः । तस्मिन् समये भगवान् बुद्धः सागरनागराजमवोचत् - नागाधिपते, चतुर्णां धर्मोद्दानानामभिधाने क्रियमाणे तदभिधानेन चतुरशीतिधर्मस्कन्धसहस्राणामभिधानं कृतं भवति । कतमानि चत्वारि? तथाहि -
सर्वेषां संस्काराणाम् अनित्यतायां बोधिसत्त्वैर्महासत्त्वैर्निर्दिष्टमक्षयज्ञानं प्रवर्तते ।
सर्वेषां सास्रवाणां धर्माणां दुःखतायां बोधिसत्त्वैर्महासत्त्वैर्निर्दिष्टमक्षयज्ञानं प्रवर्तते ।
सर्वेषां धर्माणाम् अनात्मतायां बोधिसत्त्वैर्महासत्त्वैर्निर्दिष्टमक्षयज्ञानं प्रवर्तते ।
निर्वाणस्य शान्ततायां बोधिसत्त्वैर्महासत्त्वैर्निर्दिष्टमक्षयज्ञानं प्रवर्तते ।
नागाधिपते, एतेषां चतुर्णां धर्मोद्दानानामभिधाने क्रियमाणे तदभिधानेन चतुरशीतिधर्मस्कन्धसहस्राणामभिधानं कृतं भवति ।
इदमवोचत् भगवान् । आत्तमनसो भिक्षवः सर्वे च बोधिसत्त्वा भगवतो भाषितमभ्यनन्दन्निति ।
॥ आर्यसागरनागराजपरिपृच्छानाम महायानसूत्रं समाप्तम् ॥

मूल पाठ: Sāgaranāgarājaparipṛcchāmahāyānasūtra · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc