भाषा

ENहिગુ
ग्रंथ पाठ

सद्धर्मपुण्डरीकसूत्र · अध्याय 19

19.1

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये धर्मभाणकानुशंसापरिवर्तो नामाष्टादशमः ॥
सद्ध्प्_19: सदापरिभूतपरिवर्तः ।
अथ खलु भगवान् महास्थामप्राप्तं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म - अनेनापि तावन्महास्थामप्राप्त पर्यायेण एवं वेदितव्यम् - यथा य इममेवंरूपं धर्मपर्यायं प्रतिक्षेप्स्यन्ति, एवंरूपांश्च सूत्रान्तधारकांश्च भिक्षुभिक्षुण्युपासकोपासिका आक्रोशिष्यन्ति, परिभाषिष्यन्ति, असत्यया परुषया वाचा समुदाचरिष्यन्ति, तेषामेवमनिष्टो विपाको भविष्यति, यो न शक्यं वाचा परिकीर्तयितुम् । ये च इममएवंरूपं सूत्रान्तं धारयिष्यन्ति वाचयिष्यन्ति देशयिष्यन्ति पर्यवाप्स्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, तेषामेवमिष्टो विपाको भविष्यति यादृशो मया पूर्वं परिकीर्तितः । एवंरूपां च चक्षुःश्रोत्रघ्राणजिह्वाकायमनः - परिशुद्धिमधिगमिष्यन्ति ॥
भूतपूर्वं महास्थामप्राप्त अतीते ऽध्वन्यसंख्येयैः कल्पैरसंख्येयतरैर्विपुलैरप्रमेयैरचिन्त्यैस्तेभ्यः परेण परतरेण यदासीत् - तेन कालेन समयेन भीष्मगर्जितस्वरराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् विनिर्भोगे कल्पे महासंभवायां लोकधातौ । स खलु पुनर्महास्थामप्राप्त भगवान् भीष्मगर्जितस्वरराजस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तस्यां महासंभवायां लोकधातौ सदेवमानुषासुरस्य लोकस्य पुरतो धर्मं देशयति स्म । यदिदं श्रावकाणां चतुरार्यसत्यसंप्रयुक्तं धर्मं देशयति स्म जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायाससमतिक्रमाय निर्वाणपर्यवसानं प्रतीत्यसमुत्पादप्रवृत्तिम् । बोधिसत्त्वानां महासत्त्वानां षट्पारमिताप्रतिसंयुक्तानामनुत्तरां सम्यक्संबोधिमारभ्य तथागतज्ञानदर्शनपर्यवसानं धर्मं देशयति स्म । तस्य खलु पुनर्महास्थामप्राप्त भगवतो भीष्मगर्जितस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य चत्वारिंशद्गङ्गानदीवालिकासमानि कल्पकोटीनयुतशतसहस्राण्यायुष्प्रमाणमभूत् । परिनिर्वृतस्य जम्बुद्वीपपरमाणुरजःसमानि कल्पकोटीनयुतशतसहस्राणि सद्धर्मः स्थितो ऽभूत् । चतुर्द्वीपपरमाणुरजःसमानि कल्पकोटीनयुतसहस्राणि सद्धर्मप्रतिरूपकः स्थितो ऽभूत् । तस्यां खलु पुनर्महास्थामप्राप्त महासंभवायां लोकधातौ भगवतो भीष्मगर्जितस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य सद्धर्मप्रतिरूपके च अन्तर्हिते अपरो ऽपि भीष्मगर्जितस्वरराज एव तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । अनया महास्थामप्राप्त परंपरया तस्यां महासंभवायां लोकधातौ भीष्मगर्जितस्वरराजनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां विंशतिकोटीनयुतशतसहस्राण्यभूवन् । तत्र महास्थामप्राप्त यो ऽसौ तथागतः सर्वपूर्वको ऽभूद् भीष्मगर्जितस्वरराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो
लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्, तस्य भगवतः परिनिर्वृतस्य सद्धर्मे ऽन्तर्हिते सद्धर्मप्रतिरूपके च अन्तर्धीयमाने तस्मिन् शासने ऽधिमानिकभिक्ष्वध्याक्रान्ते ( वैद्य 225 ) सदापरिभूतो नाम बोधिसत्त्वो भिक्षुरभूत् । केन कारणेन महास्थामप्राप्त स बोधिसत्त्वो महासत्त्वः सदापरिभूत इत्युच्यते? स खलु पुनर्महास्थामप्राप्त बोधिसत्त्वो महासत्त्वो यं यमेव पश्यति भिक्षुं वा भिक्षूणीं वा उपासकं वा उपासिकां वा, तं तमुपसंक्रम्य एव वदति - नाहमायुष्मन्तो युष्माकं परिभवामि । अपरिभूता यूयम् । तत्कस्य हेतोः? सर्वे हि भवन्तो बोधिसत्त्वचर्यां चरन्तु । भविष्यथ यूयं तथागता अर्हन्तः सम्यक्संबुद्धा इति । अनेन महास्थामप्राप्त पर्यायेण स बोधिसत्त्वो महासत्त्वो भिक्षुभूतो नोद्देशं करोति, न स्वाध्याय करोति, अन्यत्र यं यमेव पश्यति दूरगतमपि, सर्वं तमुपंसक्रम्य एवं संश्रावयति भिक्षुं वा भिक्षुणीं वा उपासकं वा उपासिकां वा, तं तमुपसंक्रम्यैवं वदति - नाहं भगिन्यो युष्माकं परिभवामि । अपरिभूता यूयम् । तत्कस्य हेतोः? सर्वा यूयं बोधिसत्त्वचर्यां चरध्वम् । भविष्यथ यूयं तथागता अर्हन्तः सम्यक्संबुद्धाः । यं यमेव महास्थामप्राप्त स बोधिसत्त्वो महासत्त्वस्तस्मिन् समये भिक्षुं वा भिक्षुणीं वा उपासकं वा उपासिकां वा एवं संश्रावयति, सर्वे ऽस्य यद्भूयस्त्वेन क्रुध्यन्ति, व्यापादन्ति अप्रसादमुत्पादयन्ति आक्रोशन्ति परिभाषन्ते - कुतो ऽयमपृष्टो भिक्षुरपरिभवचित्तमित्यस्माकमुपदर्शयति? परिभूतमात्मानं करोति यदस्माकं व्याकरोत्यनुत्तरायां सम्यक्संबोधौ असन्तमनाकाङ्क्षितं च । अथ खलु महास्थामप्राप्त तस्य बोधिसत्त्वस्य महासत्त्वस्य बहूनि वर्षाणि तथा आक्रुश्यतः परिभाष्यमाणस्य गच्छन्ति । न च कस्यचित् क्रुध्यति, न व्यापादचित्तमुत्पादयति । ये चास्य एवं संश्रावयतो लोष्टं वा दण्डं वा क्षिपन्ति, स तेषां दूरत एव उच्चैःस्वरं कृत्वा संश्रावयति स्म - नाहं युष्माकं परिभवामीति । तस्य ताभिरभिमानिकभिक्षुभिक्षुण्युपासकोपासिकाभिः सततसमितं संश्राव्यमाणाभिः सदापरिभूत इति नाम कृतमभूत् ॥

तेन खलु पुनर्महास्थामप्राप्त सदापरिभूतेन बोधिसत्त्वेन महासत्त्वेन कालक्रियायां प्रत्युपस्थितायां मरणकालसमये प्रत्युपस्थिते अयं सद्धर्मपुण्डरीको धर्मपर्यायः श्रुतो ऽभूत् । तेन च भगवता भीष्मगर्जितस्वरराजेन तथागतेनार्हता सम्यक्संबुद्धेन अयं धर्मपर्यायो विंशतिभिर्गाथाविंशतिकोटीनयुतशतसहस्रैर्भाषितो ऽभूत् । स च सदापरिभूतो बोधिसत्त्वो महासत्त्वो मरणकालसमये प्रत्युपस्थिते अन्तरीक्षनिर्घोषादिमं धर्मपर्यायमश्रौषीत् । येन केनचिद् भाषितमन्तरीक्षान्निर्घोषं श्रुत्वा इमं धर्मपर्यायमुद्गृहीतवान्, इमां चैवंरूपां चक्षुर्विशुद्धिं श्रोत्रविशुद्धिं घ्राणविशुद्धिं जिह्वाविशुद्धिं कायविशुद्धिं मनोविशुद्धिं च प्रतिलब्धवान् । सहप्रतिलब्धाभिर्विशुद्धिभिः पुनरन्यानि विंशतिवर्षकोटीनयुतशतसहस्राणि आत्मनो जीवितसंस्कारमधिष्ठाय इमं सद्धर्मपुण्डरीकं धर्मपर्यायं संप्रकाशितवान् । ये च ते ऽभिमानिकाः सत्त्वा भिक्षुभिक्षुण्युपासकोपासिकाः, ये पूर्वं नाहं युष्माकं परिभवामीति संश्राविताः, यैरस्येदं सदापरिभूत इति नाम कृतमभूत्, तस्योदारर्द्धिबलस्थामं प्रतिज्ञाप्रतिभानबलस्थामं प्रज्ञाबलस्थामं ( वैद्य 226 ) च दृष्ट्वा सर्वे ऽनुसहायीभूता अभूवन् धर्मश्रवणाय । सर्वे तेन अन्यानि च बहूनि प्राणिकोटीनयुतशतसहस्राणि अनुत्तरायां सम्यक्संबोधौ समादापितान्यभूवन् ॥
स खलु पुनर्महास्थामप्राप्त बोधिसत्त्वो महासत्त्वस्ततश्च्यवित्वा चन्द्रस्वरराजसहनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां विंशतिकोटीशतान्यारागितवान्, सर्वेषु च इमं धर्मपर्यायं संप्रकाशयामास । सो ऽनुपूर्वेण तेनैव पूर्वकेण कुशलमूलेन पुनरप्यनुपूर्वेण दुन्दुभिस्वरराजसहनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां विंशतिमेव तथागतकोटीनयुतशतसहस्राण्यारागितवान् । सर्वेषु च इममेव सद्धर्मपुण्डरीकं धर्मपर्यायमारागितवान्, संप्रकाशितवांश्चतसृणां पर्षदाम् । सो ऽनेनैव पूर्वकेण कुशलमूलेन पुनरप्यपूर्वेण मेघस्वरराजसहनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां विंशतिमेव तथागतकोटीशतसहस्राण्यारागितवान्, सर्वेषु च इममेव सद्धर्मपुण्डरीकं धर्मपर्यायमारगितवान्, संप्रकाशितवांश्चतसृणां पर्षदाम् । सर्वेषु च एवंरूपया चक्षुःपरिशुद्धया समन्वागतो ऽभूत्, श्रोत्रपरिशुद्ध्या घ्राणपरिशुद्धया जिह्वापरिशुद्धया कायपरिशुद्धया मनःपरिशुद्धया समन्वागतो ऽभूत् ॥
स खलु पुनर्महास्थामप्राप्त सदापरिभूतो बोधिसत्त्वो महासत्त्व इयतां तथागत कोटीनयुतशतसहस्राणां सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां कृत्वा अन्येषां च बहूनां बुद्धकोटीनयुतशतसहस्राणां सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां कृत्वा, सर्वेषु च तेषु इममेव सद्धर्मपुण्डरीकं धर्मपर्यायमारागितवान्, आरागयित्वा स तेनैव पूर्वकेण कुशलमूलेन परिपक्वेन अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । स्यात्खलु पुनस्ते महास्थामप्राप्त एवं काङ्क्षा वा विमतिर्वा विचिकित्सा वा - अन्यः स तेन कालेन तेन समयेन सदापरिभूतो नाम बोधिसत्त्वो महासत्त्वो ऽभूत्, यस्तस्य भगवतो भीष्मगर्जितस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य शासने चतसृणां पर्षदां सदापरिभूतः संमतो ऽभूत्, येन ते तावन्तस्तथागता अर्हन्तः सम्यक्संबुद्धा आरागिता अभूवन्? न खलु पुनस्ते महास्थामप्राप्त एवं द्रष्टव्यम् । तत्कस्य हेतोः? अहमेव स महास्थामप्राप्त तेन कालेन तेन समयेन सदापरिभूतो नाम बोधिसत्त्वो महासत्त्वो ऽभूवम् । यदा मया महास्थामप्राप्त पूर्वमयं धर्मपर्यायो नोद्गृहीतो ऽभविष्यत्, न धारितः, नाहमेवं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुद्धो ऽभविष्यम् । यतश्चाहं महास्थामप्राप्त पौर्विकाणां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकादिमं धर्मपर्यायं धारितवान् वाचितवान् देशितवान्, ततो ऽहमेवं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । यान्यपि तानि महास्थामप्राप्त तेन सदापरिभूतेन बोधिसत्त्वेन महासत्त्वेन भिक्षुशतानि भिक्षुणीशतानि च उपासकशतानि उपासिकाशतानि च तस्य भगवतः शासने इमं धर्मपर्यायं संश्रावितान्यभूवन् - नाहं युष्माकं परिभवामीति । सर्वे भवन्तो बोधिसत्त्वचर्यां चरन्तु । भविष्यथ यूयं तथागता अर्हन्तः सम्यक्संबुद्धाः । यैस्तस्य बोधिसत्त्वस्यान्तिके व्यापादचित्तमुत्पादितमभूत्, ( वैद्य 227 ) तैर्विशतिकल्पकोटीनयुतशतसहस्राणि न जातु तथागतो दृष्टो ऽभूत्, नापि धर्मशब्दो न संघशब्दः श्रुतो ऽभूत् । दश च कल्पसहस्राण्यवीचौ महानरके दारुणां वेदनां वेदयामासुः । ते च सर्वे तस्मात् कर्मावरणात् परिमुक्ताः
। तेनैव बोधिसत्त्वेन महासत्त्वेन परिपाचिता अनुत्तरायां सम्यक्संबोधौ । स्यात्खलु पुनस्ते महास्थामप्राप्त काङ्क्षा वा विमतिर्वा विचिकित्सा वा - कतमे तेन कालेन तेन समयेन ते सत्त्वा अभूवन् ये ते तं बोधिसत्त्वं प्तहासत्त्वमुल्लापितवन्त उच्चग्घितवन्तः? अस्यामेव महास्थामप्राप्त पर्षदि भद्रपालप्रमुखाणि पञ्च बोधिसत्त्वशतानि सिंहचन्द्राप्रमुखानि पञ्चभिक्षुणीशतानि सुगतचेतनाप्रमुखानि पञ्चोपासिकाशतानि सर्वाण्यवैवर्तिकानि कृतानि अनुत्तरायां सम्यक्संबोधौ । एवमियं महास्थामप्राप्त महार्थस्य धर्मपर्यायस्य धारणा वाचना देशना बोधिसत्त्वानां महासत्त्वानामनुत्तरायाः सम्यक्संबोधेराहारिका संवर्तते । तस्मात्तर्हि महास्थामप्राप्त अयं धर्मपर्यायो बोधिसत्त्वैर्महासत्त्वैस्तथागते परिनिर्वृते अभीक्ष्णं धारयितव्यो वाचयितव्यो देशयितव्यः संप्रकाशयितव्य इति ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
अतीतमध्वानमनुस्मरामि भीष्मस्वरो राज जिनो यदासि ।
महानुभावो नरदेवपूजितः प्रणायको नरमरुयक्षरक्षसाम्

19.2

तस्य जिनस्य परिनिर्वृतस्य सद्धर्म संक्षोभ व्रजन्ति पश्चिमे ।
भिक्षू अभूषी तद बोधिसत्त्वो नामेन सो सदपरिभूत उच्यते

19.3

उपसंक्रमित्वा तद भिक्षु अन्यान् उपलम्भदृष्टीन तथैव भिक्षुणी ।
परिभाव मह्यं न कदाचिदस्ति यूयं हि चर्यां चरथाग्रबोधये

19.4

एवं च संश्रावयि नित्यकालं आक्रोश परिभाष सहन्तु तेषाम् ।
कालक्रियायां समुपस्थितायां श्रुतं इदं सूत्रमभूषि तेन

19.5

अकृत्व कालं तद पण्डितेन अधिष्ठिहित्वा च सुदीर्घमायुः ।
प्रकाशितं सूत्रमिदं तदासीत् तहि शासने तस्य विनायकस्य

19.6

ते चापि सर्वे बहु ओपलम्भिका बोधीय तेन परिपाचितासीत् ।
ततश्च्यवित्वान स बोधिसत्त्वो आरागयी बुद्धसहस्रकोट्यः

19.7

अनुपूर्व पुण्येन कृतेन तेन प्रकाशयित्वा इमु सूत्र नित्यम् ।
बोधिं स संप्राप्त जिनस्य पुत्रो अहमेव सो शाक्यमुनिस्तदासीत्

19.8

ये चापि भिक्षू तद ओपलम्भिका या भिक्षुणी ये च उपासका वा ।
उपासिकास्तत्र च या तदासीद् ये बोधि संश्रावित पण्डितेन

19.9

ते चापि दृष्ट्वा बहुबुद्धकोट्य इमे च ते पञ्चशता अनूनकाः ।
तथैव भिक्षूण च भिक्षुणी च उपासिकाश्चापि मि मह्य संमुखम्

19.10

सर्वे मया श्रावित अग्रधर्मा ते चैव सर्वे परिपाचिता मे ।
मयि निर्वृते चापिमि सर्वि धीरा इमु धारयिष्यन्ति ह सूत्रमग्रम्

19.11

कल्पान कोट्यो बहुभीरचिन्त्यैर्न कदाचिदेतादृश धर्म श्रूयते ।
बुद्धान कोटीशत चैव भोन्ति न च ते पिमं सूत्र प्रकाशयन्ति

19.12

तस्माच्छ्रूणित्वा इदमेवरूपं परिकीर्तितं धर्मु स्वयं स्वयंभूवा ।
आरागयित्वा च पुनः पुनश्चिमं प्रकाशयेत् सूत्र मयीह निर्वृते

मूल पाठ: Saddharmapuṇḍarīkasūtra · Edition: P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc