सद्धर्मपुण्डरीकसूत्र · अध्याय 15
इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये बोधिसत्त्वपृथिवीविवरसमुद्गमपरिवर्तो नाम चतुर्दशमः ॥
सद्ध्प्_15: तथागतायुष्प्रमाणपरिवर्तः ।
अथ खलु भगवान् सर्वावन्तं बोधिसत्त्वगणमामन्त्रयते स्म - अवकल्पयध्वं मे कुलपुत्राः, अभिश्रद्दधध्वं तथागतस्य भूतां वाचं व्याहरतः । द्वितीयकमपि भगवांस्तान् बोधिसत्त्वानामन्त्रयते स्म - अवकल्पयध्वं मे कुलपुत्राः, अभिश्रद्दधध्वं तथागतस्य भुतां वाचं व्याहरतः । तृतीयकमपि भगवांस्तन् बोधिसत्त्वानामन्त्रयते स्म - अवकल्पयध्वं मे कुलपुत्राः, अभिश्रद्दधध्वं तथागतस्य भूतां वाचं व्याहरतः । अथ खलु स सर्वावान् बोधिसत्त्वगणो मैत्रेयं बोधिसत्त्वं महासत्त्वमग्रतः स्थापयित्वा अञ्जलिं प्रगृह्य भगवन्तमेतदवोचत् - भाषतु भगवानेतमेवार्थम्, भाषतु सुगतः । वयं तथागतस्य भाषितमभिश्रद्धास्यामः । द्वितीयकमपि स सर्वावान् बोधिसत्त्वगणो भगवन्तमेतदवोचत् - भाषतु भगवानेतमेवार्थम्, भाषतु सुगतः । वयं तथागतस्य भाषितमभिश्रद्धास्यामः । तृतीयकमपि स सर्वांवान् बोधिसत्त्वगणो भगवन्तमेतदवोचत् - भाषतु भगवानेतमेवार्थम्, भाषतु सुगतः । वयं तथागतस्य भाषितमभिश्रद्धास्याम इति ॥
अथ खलु भगवांस्तेषां बोधिसत्त्वानां यावत्तृतीयकमप्यध्येषणां विदित्वा तान् बोधिसत्त्वानामन्त्रयते स्म - तेन हि कुलपुत्राः शृणुध्वमिदमेवंरूपं ममाधिष्ठानबलाधानम्, यदयं कुलपुत्राः सदेवमानुषासुरो लोक एवं संजानीते - सांप्रतं भगवता शाक्यमुनिना तथागतेन शाक्यकुलादभिनिष्क्रम्य गयाह्वये महानगरे बोधिमण्डवराग्रगतेन अनुत्तरा सम्यक्संबोधिरभिसंबुद्धेति । नैवं द्रष्टव्यम् । अपि तु खलु पुनः कुलपुत्राः बहूनि मम कल्पकोटीनयुतशतसहस्राण्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य । तद्यथापि नाम कुलपुत्राः पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये पृथिवीधातुपरमाणवः, अथ खलु कश्चिदेव पुरुष उत्पद्यते । स एकं परमाणुरजं गृहीत्वा पूर्वस्यां दिशि पञ्चाशल्लोकधात्वसंख्येयशतसहस्राण्यतिक्रम्य तदेकं परमाणुरजः समुपनिक्षिपेत् । अनेन पर्यायेण कल्पकोटीनयुतशतसहस्राणि स पुरुषः सर्वांस्तांल्लोकधातून व्यपगतपृथिवीधातून् कुर्यात्, सर्वाणि च तानि पृथिवीधातुपरमाणुरजांसि अनेन पर्यायेण अनेन च लक्षनिक्षेपेण पूर्वस्यां दिश्युपनिक्षिपेत् । तत्किं मन्यध्वे कुलपुत्राः शक्यं ते लोकधातवः केनचिच्चिन्तयितुं वा गणयितुं वा तुलयितुं वा उपलक्षयितुं वा? एवमुक्ते मैत्रेयो बोधिसत्त्वो महासत्त्वः स च सर्वावान् बोधिसत्त्वगणो बोधिसत्त्वराशिर्भगवन्तमेतदवोचत् - असंख्येयास्ते भगवंल्लोकधातवः, अगणनीयाश्चित्तभूमिसमतिक्रान्ताः । सर्वश्रावकप्रत्येकबुद्धैरपि भगवन् आर्येण ज्ञानेन न शक्यं चिन्तयितुं वा गणयितुं वा तुलयितुं वा उपलक्षयितुं वा । अस्माकमपि तावद् भगवन् अवैवर्त्यभूमिस्थितानां बोधिसत्त्वानां महासत्त्वानामस्मिन् स्थाने चित्तगोचरो न प्रवर्तते । तावदप्रमेया भगवंस्ते लोकधातवो भवेयुरिति ॥
एवमुक्ते भगवांस्तान् बोधिसत्त्वान् महासत्त्वानेतदवोचत् - आरोचयामि वः कुलपुत्राः, प्रतिवेदयामि वः । यावन्तः कुलपुत्रास्ते लोकधातवो येषु तेन पुरुषेण तानि परमाणुरजांस्युपनिक्षिप्तानि, येषु च नोपनिक्षिप्तानि, सर्वेषु तेषु कुलपुत्र लोकधातुकोटीनयुतशतसहस्रेषु न तावन्ति परमाणुरजांसि संविद्यन्ते, यावन्ति मम कल्पकोटीनयुतशतसहस्राण्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य । यतःप्रभृत्यहं कुलपुत्रा अस्यां सहायां लोकधातौ सत्त्वानां धर्मं देशयामि, अन्येषु च लोकधातुकोटीनयुतशतसहस्रेषु, ये च मया कुलपुत्रा अत्रान्तरा तथागता अर्हन्तः सम्यक्संबुद्धाः परिकीर्तिता दीपंकरतथागतप्रभृतयः, तेषां च तथागतानामर्हतां सम्यक्संबुद्धानां परिनिर्वाणानि, मयैव तानि कुलपुत्रा उपायकौशल्यधर्मदेशनाभिनिर्हारनिर्मितानि । अपि तु खलु पुनः कुलपुत्राः, तथागत आगतागतानां सत्त्वानामिन्द्रियवीर्यवैमात्रतां व्यवलोक्य तस्मिंस्तस्मिन्नात्मनो नाम व्याहरति । तस्मिंस्तस्मिंश्चात्मनः परिनिर्वाणं व्याहरति, तथा तथा च सत्त्वान् परितोषयति नानाविधैर्धर्मपर्यायैः । तत्र कुलपुत्रास्तथागतो नानाधिमुक्तानां सत्त्वानामल्पकुशलमूलानां बहूपक्लेशानामेवं वदति - दहरो ऽहमस्मि भिक्षवो जात्याभिनिष्क्रान्तः । अचिराभिसंबुद्धो ऽस्मि भिक्षवो ऽनुत्तरां सम्यक्संबोधिम् । यत्खलु पुनः कुलपुत्राः, तथागत एवं चिराभिसंबुद्ध एवं व्याहरति - अचिराभिसंबुद्धो ऽहमस्मीति, नान्यत्र सत्त्वानां परिपाचनार्थम् । अवतारणार्थमेते धर्मपर्याया भाषिताः । सर्वे च ते कुलपुत्रा धर्मपर्यायास्तथागतेन सत्त्वानां विनयार्थाय भाषिताः ।
यां च कुलपुत्रास्तथागतः सत्त्वानां विनयार्थवाचं भाषते आत्मोपदर्शनेन वा परोपदर्शनेन वा, आत्मारम्बणेन वा परारम्बनेन वा यत्किंचित्तथागतो व्याहरति, सर्वे ते धर्मपर्यायाः सत्यास्तथागतेन भाषिताः । नास्त्यत्र तथागतस्य मृषावादः । तत्कस्य हेतोः? दृष्टं हि तथागतेन त्रैधातुकं यथाभूतम् । न जायते न म्रियते न च्यवते नोपपद्यते न संसरति न परिनिर्वाति, न भूतं नाभूतं न सन्तं नासन्तं न तथा नान्यथा न वितथा नावितथा । न तथा त्रैधातुकं तथागतेन दृष्टं यथा बालपृथग्जनाः पश्यन्ति । प्रत्यक्षधर्मा तथागतः खल्वस्मिन् स्थाने ऽसंप्रमोषधर्मा । तत्र तथागतो यां कांचिद्वाचं व्याहरति, सर्वं तत्सत्यं न मृषा नान्यथा । अपि तु खलु पुनः सत्त्वानां नानाचरितानां नानाभिप्रायाणां संज्ञाविकल्पचरितानां कुशलमूलसंजननार्थं विविधान् धर्मपर्यायान् विविधैरारम्बणैर्व्याहरति । यद्धि कुलपुत्रास्तथागतेन कर्तव्यं तत्तथागतः करोति । तावच्चिराभिसंबुद्धो ऽपरिमितायुष्प्रमाणस्तथागतः सदा स्थितः । अपरिनिर्वृतस्तथागतः परिनिर्वाणमादर्शयति वैनेयवशेन । न च तावन्मे कुलपुत्रा अद्यापि पौर्विकी बोधिसत्त्वचर्यां परिनिष्पादिता । आयुष्प्रमाणमप्यपरिपूर्णम् । अपि तु खलु पुनः कुलपुत्रा अद्यापि तद्द्विगुणेन मे कल्पकोटीनयुतशतसहस्राणि भविष्यन्ति आयुष्प्रमाणस्यापरिपूर्णत्वात् । इदानीं ( वैद्य 191 ) खलु पुनरहं कुलपुत्रा अपरिनिर्वायमाण एव परिनिर्वाणमारोचयामि । तत्कस्य हेतोः? सत्त्वानहं कुलपुत्रा अनेन पर्यायेण परिपाचयामि - मा हैव मे ऽतिचिरं तिष्ठतो ऽभीक्ष्णदर्शनेन अकृतकुशलमूलाः सत्त्वाः पुण्यविरहिता दरिद्रभूताः कामलोलुपा अन्धा दृष्टिजालसंछन्नाः तिष्ठति तथागत इति विदित्वा किलीकृतसंज्ञा भवेयुः, न च तथागते दुर्लभसंज्ञामुत्पादयेयुः - आसन्ना वयं तथागतस्येति । वीर्यं नारभेयुस्त्रैधातुकान्निःसरणार्थम्, न च तथागते दुर्लभसंज्ञामुत्पादयेयुः । ततः कुलपुत्राः तथागतः उपायकौशल्येन तेषां सत्त्वानां दुर्लभप्रादुर्भावो भिक्षवस्तथागत इति वाचं व्याहरति स्म । तत्कस्य हेतोः? तथा हि तेषां सत्त्वानां बहुभिः कल्पकोटीनयुतशतसहस्रैरपि तथागतदर्शनं
भवति वा न वा । ततः खल्वहं कुलपुत्रास्तदारम्बणं कृत्वैवं वदामि - दुर्लभप्रादुर्भावा हि भिक्षवस्तथागता इति । ते भूयस्या मात्रया दुर्लभप्रादुर्भावांस्तथागतान् विदित्वा आश्चर्यसंज्ञामुत्पादयिष्यन्ति, शोकसंज्ञामुत्पादयिष्यन्ति । अपश्यन्तश्च तथागतानर्हतः सम्यक्संबुद्धान् तृषिता भविष्यन्ति तथागतदर्शनाय । तेषां तानि तथागतारम्बणमनस्कारकुशलमूलानि दीर्घरात्रमर्थाय हिताय सुखाय च भविष्यन्ति । एतमर्थं विदित्वा तथागतो ऽपरिनिर्वायन्नेव परिनिर्वाणमारोचयति सत्त्वानां वैनेयवशमुपादाय । तथागतस्यैष कुलपुत्रा धर्मपर्यायो यदेवं व्याहरति । नास्त्यत्र तथागतस्य मृषावादः ॥
तद्यथापि नाम कुलपुत्राः कश्चिदेव वैद्यपुरुषो भवेत् पण्डितो व्यक्तो मेधावी सुकुशलः सर्वव्याधिप्रशमनाय । तस्य च पुरुषस्य बहवः पुत्रा भवेयुर्दश वा विंशतिर्वा त्रिंशद्वा चत्वारिंशद्वा पञ्चाशद्वा शतं वा । स च वैद्यः प्रवासगतो भवेत्, ते चास्य सर्वे पुत्रा गरपीडा वा विषपीडा वा भवेयुः । तेन गरेण वा विषेण वा दुःखाभिर्वेदनाभिरभितूर्णा भवेयुः । ते तेन गरेण वा विषेण वा दह्यमानाः पृथिव्यां प्रपतेयुः । अथ स तेषां वैद्यः पिता प्रवासादागच्छेत् । ते चास्य पुत्रास्तेन गरेण वा विषेण वा दुःखाभिर्वेदनाभिरार्ताः । केचिद्विपरीतसंज्ञिनो भवेयुः, केचिदविपरीतसंज्ञिनो भवेयुः । सर्वे च ते तेनैव दुःखेनार्तास्तं पितरं दृष्ट्वाभिनन्देयुः, एवं चैनं वदेयुः - दिष्ट्यासि तात क्षेमस्वस्तिभ्यामागतः । तदस्माकमस्मादात्मोपरोधाद् गराद्वा विषाद्वा परिमोचयस्व । ददस्व नस्तात जीवितमिति । अथ खलु स वैद्यस्तान् पुत्रान् दुःखार्तान् दृष्ट्वा वेदनाभिभूतान् दह्यतः पृथिव्यां परिवेष्टमानान्, ततो महाभैषज्यं समुदानयित्वा वर्णसंपन्नं गन्धसंपन्नं रससंपन्नं च, शिलायां पिष्ट्वा तेषां पुत्राणां पानाय दद्यात्, एवं चैनान् वदेत् - पिबथ पुत्रा इदं महाभैषज्यं वर्णसंपन्नं गन्धसंपन्नं रससंपन्नम् । इदं यूयं पुत्रा महाभैषज्यं पीत्वा क्षिप्रमेवास्माद् गराद्वा विषाद्वा परिमोक्ष्यध्वे, स्वस्था भविष्यथ अरोगाश्च । तत्र ये तस्य वैद्यस्य पुत्रा अविपरीतसंज्ञिनः ते भैषज्यस्य वर्णं च दृष्ट्वा गन्धं चाघ्राय रसं चास्वाद्य क्षिप्रमेवाभ्यवहरेयुः । ते चाभ्यवहरन्तस्तस्मादाबाधात् सर्वेण सर्वं विमुक्ता भवेयुः । ये पुनस्तस्य पुत्रा विपरीतसंज्ञिनः ते तं पितरमभिनन्देयुः, एनं चैवं वदेयुः - दिष्टयासि तात क्षेमस्वस्तिभ्यामागतो यस्त्वमस्माकं चिकित्सक इति । ( वैद्य 192 ) ते चैवं वाचं भाषेरन्, तच्च भैषज्यमुपनामितं न पिबेयुः । तत्कस्य हेतोः? तथा हि तेषां तया विपरीतसंज्ञ्या तद् भैषज्यमुपनामितं वर्णेनापि न रोचते, गन्धेनापि रसेनापि न रोचते । अथ खलु स वैद्यपुरुष एवं चिन्तयेत् - इमे मम पुत्रा अनेन गरेण वा विषेण वा विपरीतसंज्ञिनः । ते खल्विदं महाभैषज्यं
न पिबन्ति, मां चाभिनन्दन्ति । यन्नवहमिमान् पुत्रानुपायकौशल्येन इदं भैषज्यं पाययेयमिति । अथ खलु स वैद्यस्तान् पुत्रानुपायकौशल्येन तद्भैषज्यं पाययितुकाम एवं वदेत् - जीर्णो ऽहमस्मि कुलपुत्राः, वृद्धो महल्लकः । कालक्रिया च मे प्रत्युपस्थिता । मा च यूयं पुत्राः शोचिष्ठ, मा च क्लममापध्वम् । इदं वो मया महाभैषज्यमुपनीतम् । सचेदाकाङ्क्षध्वे, तदेव भैषज्यं पिबध्वम् । स एवं तान् पुत्रानुपायकौशल्येन अनुशिष्य अन्यतरं जनपदप्रदेशं प्रक्रान्तः । तत्र गत्वा कालगतमात्मानं येषां ग्लानानां पुत्राणामारोचयेत्, ते तस्मिन् समये ऽतीव शोचयेयुः, अतीव परिदेवेयुः - यो ह्यस्माकं पिता नाथो जनको ऽनुकम्पकः सो ऽपि नामैकः कालगतः, ते ऽद्य वयमनाथाः संवृत्ताः । ते खल्वनाथभूतमात्मानं समनुपश्यन्तो ऽशरणमात्मानं समनुपश्यन्तो ऽभीक्ष्णं शोकार्ता भवेयुः । तेषां च तयाभीक्ष्णं शोकार्ततया सा विपरीतसंज्ञा अविपरीतसंज्ञा भवेत् । यच्च तद् भैषज्यं वर्णगन्धरसोपेतं तद्वर्णगन्धरसोपेतमेव संजानीयुः । ततस्तस्मिन् समये तद्भैषज्यमभ्यवहरेयुः । ते चाभ्यवहरन्तस्तस्मादाबाधात् परिमुक्ता भवेयुः । अथ खलु स वैद्यस्तान् पुत्रानाबाधविमुक्तान् विदित्वा पुनरेवात्मानमुपदर्शयेत् । तत्किं मन्यध्वे कुलपुत्रा मा हैव तस्य वैद्यस्य तदुपायकौशल्यं कुर्वतः कश्चिन्मृषावादेन संचोदयेत्? आहुः - नो हीदं भगवन्, नो हीदं सुगत । आह - एवमेव कुलपुत्राः अहमप्यप्रमेयासंख्येयकल्पकोटीनयुतशतसहस्राभिसंबुद्ध इमामनुत्तरां सम्यक्संबोधिम् । अपि तु खलु पुनः कुलपुत्राः अहमन्तरान्तरमेवंरूपाण्युपायकौशल्यानि सत्त्वानामुपदर्शयामि विनयार्थम् । न च मे कश्चिदत्र स्थाने मृषावादो भवति ॥
अथ खलु भगवानिमामेव अर्थगतिं भूयस्या मात्रया संदर्शयमानस्तस्यां वेलायामिमां गाथा अभाषत -
अचिन्तिया कल्पसहस्रकोट्यो यासां प्रमाणं न कदाचि विद्यते ।
प्राप्ता मया एष तदाग्रबोधिर्धर्मं च देशेम्यहु नित्यकालम्
समादपेमी बहुबोधिसत्त्वान् बौद्धस्मि ज्ञानस्मि स्थपेमि चैव ।
सत्त्वान कोटीनयुताननेकान् परिपाचयामी बहुकल्पकोट्यः
निर्वाणभूमिं चुपदर्शयामि विनयार्थ सत्त्वान वदाम्युपायम् ।
न चापि निर्वाम्यहु तस्मि काले इहैव चो धर्मु प्रकाशयामि
तत्रापि चात्मानमधिष्ठहामि सर्वांश्च सत्त्वान तथैव चाहम् ।
विपरीतबुद्धी च नरा विमूढाः तत्रैव तिष्ठन्तु न पश्यिषू माम्
परिनिर्वृतं दृष्ट्व ममात्मभावं धातूषु पूजां विविधां करोन्ति ।
मां चा अपश्यन्ति जनेन्ति तृष्णां ततोर्जुकं चित्त प्रभोति तेषाम्
ऋजू यदा ते मृदुमार्दवाश्च उत्सृष्टकामाश्च भवन्ति सत्त्वाः ।
ततो अहं श्रावकसंघ कृत्वाः आत्मान दर्शेम्यहु गृध्रकूटे
एवं च हं तेष वदामि पश्चात् इहैव नाहं तद आसि निर्वृतः ।
उपायकौशल्य ममेति भिक्षवः पुनः पुनो भोम्यहु जीवलोके
अन्येहि सत्त्वेहि पुरस्कृतो ऽहं तेषां प्रकाशेमि ममाग्रबोधिम् ।
यूयं च शब्दं न शृणोथ मह्यं अन्यत्र सो निर्वृतु लोकनाथः
पश्याम्यहं सत्त्व विहन्यमानान् न चाहु दर्शेमि तदात्मभावम् ।
स्पृहेन्तु तावन्मम दर्शनस्य तृषितान सद्धर्मु प्रकाशयिष्ये
सदाधिष्ठानं मम एतदीदृशं अचिन्तिया कल्पसहस्रकोट्यः ।
न च च्यवामी इतु गृध्रकूटात् अन्यासु शय्यासनकोटिभिश्च
यदापि सत्त्वा इम लोकधातुं पश्यन्ति कल्पेन्ति च दह्यमानम् ।
तदापि चेदं मम बुद्धक्षेत्रं परिपूर्ण भोती मरुमानुषाणाम्
क्रीडा रती तेष विचित्र भोति उद्यानप्रासादविमानकोट्यः ।
प्रतिमण्डितं रत्नमयैश्च पर्वतैर्द्रुमैस्तथा पुष्पफलैरुपेतैः
उपरिं च देवाभिहनन्ति तूर्यान् मन्दारवर्षं च विसर्जयन्ति ।
ममं च अभ्योकिरि श्रावकांश्च ये चान्य बोधाविह प्रस्थिता विदू
एवं च मे क्षेत्रमिदं सदा स्थितं अन्ये च कल्पेन्तिमु दह्यमानम् ।
सुभैरवं पश्यिषु लोकधातुं उपद्रुतं शोकशताभिकीर्णम्
न चापि मे नाम शृणोन्ति जातु तथागतानां बहुकल्पकोटिभिः ।
धर्मस्य वा मह्य गणस्य चापि पापस्य कर्मस्य फलेवरूपम्
ल्यदा तु सत्त्वा मृदु मार्दवाश्च उत्पन्न भोन्तीह मनुष्यलोके ।
उत्पन्नमात्राश्च शुभेन कर्मणा पश्यन्ति मां धर्मु प्रकाशयन्तम्
न चाहु भाषामि कदाचि तेषां इमां क्रियामीदृशिकीमनुत्तराम् ।
तेनो अहं दृष्ट चिरस्य भोमि ततो ऽस्य भाषामि सुदुर्लभा जिनाः
एतादृशं ज्ञानबलं मयेदं प्रभास्वरं यस्य न कश्चिदन्तः ।
आयुश्च मे दीर्घमनन्तकल्पं समुपार्जितं पूर्व चरित्व चर्याम्
मा संशयं अत्र कुरुध्व पण्डिता विचिकित्सितं चो जहथा अशेषम् ।
भूतां प्रभाषाम्यहमेत वाचं मृषा ममा नैव कदाचि वाग् भवेत्
यथा हि सो वैद्य उपायशिक्षितो विपरीतसंज्ञीन सुतान हेतोः ।
जीवन्तमात्मान मृतेति ब्रूयात् तं वैद्यु विज्ञो न मृषेण चोदयेत्
यमेव हं लोकपिता स्वयंभूः चिकित्सकः सर्वप्रजान नाथः ।
विपरीत मूढांश्च विदित्व बालान् अनिर्वृतो निर्वृत दर्शयामि
किं कारणं मह्यमभीक्ष्णदर्शनाद् विश्रद्ध भोन्ती अबुधा अजानकाः ।
विश्वस्त कामेषु प्रमत्त भोन्ती प्रमादहेतोः प्रपतन्ति दुर्गतिम्
चरिं चरिं जानिय नित्यकालं वदामि सत्त्वान तथा तथाहम् ।
कथं नु बोधावुपनामयेयं कथ बुद्धधर्माण भवेयु लाभिनः
मूल पाठ: Saddharmapuṇḍarīkasūtra · Edition: P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0