सद्धर्मलङ्कावतारसूत्र · अध्याय 1
॥ सद्धर्मलङ्कावतारसूत्रम् ॥
ओम् नमो रत्नत्रयाय । ओम् नमः सर्वबुद्धबोधिसत्त्वेभ्यः ॥
स्तर्त् परिवर्त 1
रावणाध्येषणापरिवर्तः प्रथमः ।
एवं मया श्रुतम् । एकस्मिन् समये भगवांल्लङ्कापुरे समुद्रमलयशिखरे विहरति स्म नानारत्नगोत्रपुष्पप्रतिमण्डिते महता भिक्षुसंघेन सार्धं महता च बोधिसत्त्वगणेन नानाबुद्धक्षेत्रसंनिपतितैर्बोधिसत्त्वैर्महासत्त्वैः अनेकसमाधिवशिताबलाभिज्ञाविक्रीडितैर्महामतिबोधिसत्त्वपूर्वंगमैः सर्वबुद्धपाण्यभिषेकाभिषिक्तैः स्वचित्तदृश्यगोचरपरिज्ञानार्थकुशलैर्नानासत्त्वचित्तचरित्ररूपनयविनयधारिभिः पञ्चधर्मस्वभावविज्ञाननैरात्म्याद्वयगतिंगतैः ॥
तेन खलु पुनः समयेन भगवान् सागरनागराजभवनात् सप्ताहेनोत्तीर्ण ऽभूत् । अनेकशक्रब्रह्मनागकन्याकोटिभिः प्रत्युद्गम्यमानो लङ्कामलयमवलोक्य स्मितमकरोत् - पूर्वकैरपि तथागतैरर्हद्भिः सम्यक्संबुद्धैरस्मिंल्लङ्कापुरीमलयशिखरे स्वप्रत्यात्मार्यज्ञानतर्कदृष्टितीर्थ्यश्रावकप्रत्येकबुद्धार्यविषये तद्भावितो धर्मो देशितः । यन्न्वहमपि अत्रैव रावणं यक्षाधिपतिमधिकृत्य एतदेवोद्भावयन् धर्मं देशयेयम् ॥
अश्रौषीद्रावणो राक्षसाधिपतिस्तथागताधिष्ठानात् - भगवान् किल सागरनागराजभवनादुत्तीर्य अनेकशक्रब्रह्मनागकन्याकोटिभिः परिवृतः पुरस्कृतः समुद्रतरंगानवलोक्य आलयविज्ञानोदधिप्रवृत्तिविज्ञानपवनविषये प्रेरितांस्तेभ्यः संनिपतितेभ्यश्चित्तान्यवलोक्य तस्मिन्नेव स्थितः उदानमुदानयति स्म - यन्न्वहं गत्वा भगवन्तमध्येष्य लङ्कां प्रवेशयेयम् । तन्मे स्याद्दीर्घरात्रमर्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥
अथ रावणो राक्षसाधिपतिः सपरिवारः पौष्पकं विमानमधिरुह्य येन भगवांस्तेनोपजगाम । उपेत्य विमानादवतीर्य सपरिवारो भगवन्तं त्रिष्कृत्वः प्रदक्षिणीकृत्य तूर्यतालावचरैः प्रवाद्यद्भिरिन्द्रनीलमयेन
दण्डेन वैडूर्यमुसार(गल्व)प्रत्युप्तां वीणां प्रियङ्गुपाण्डुना अनर्ध्येण वस्त्रेण पार्श्वावलम्बितां कृत्वा षड्जर्षभगान्धारधैवतनिषादमध्यमकैशिकगीतस्वरग्राममूर्छनादियुक्तेनानुसार्य सलीलं वीणामनुप्रविश्य गाथाभिगीतैरनुगायति स्म -
चित्तस्वभावनयधर्मविधिं नैरात्म्यं दृष्टिविगतं ह्यमलम् ।
प्रत्यात्मवेद्यगतिसूचनकं देशेहि नायक इह धर्मनयम्
शुभधर्मसंचिततनुं सुगतं निर्माणनिर्मितप्रदर्शनकम् ।
प्रत्यात्मवेद्यगतिधर्मरतं लङ्कां हि गन्तु समयो ऽद्य मुने
लङ्कामिमां पूर्वजिनाध्युषितां पुत्रैश्च तेषां बहुरूपधरैः ।
देशेहि नाथ इह धर्मवरं श्रोष्यन्ति यक्ष बहुरूपधराः
अथ रावणो लङ्काधिपतिः तोटकवृत्तेनानुगाय्य पुनरपि गाथाभिगीतेनानुगायति स्म -
सप्तरात्रेण भगवान् सागरान्मकरालयात् ।
सागरेन्द्रस्य भवनात् समुत्तीर्य तटे स्थितः
स्थितमात्रस्य बुद्धस्य रावणो ह्यप्सरैः सह ।
यक्षैश्च नानाविविधैः शुकसारणपण्डितैः
ऋद्ध्या गत्वा तमध्वानं यत्र तिष्ठति नायकः ।
अवतीर्य पौष्पकाद्यानाद्वन्द्य पूज्य तथागतम् ।
नाम संश्रावयंस्तस्मै जिनेन्द्रेण अधिष्ठितः
रावणो ऽहं दशग्रीवो राक्षसेन्द्र इहागतः ।
अनुगृह्णाहि मे लङ्कां ये चास्मिन् पुरवासिनः
पूर्वैरपि हि संबुद्धैः प्रत्यात्मगतिगोचरम् ।
शिखरे रत्नखचिते पुरमध्ये प्रकाशितम्
भगवानपि तत्रैव शिखरे रत्नमण्डिते ।
देशेतु धर्म विरजं जिनपुत्रैः परीवृतः ।
श्रोतुकामा वयं चाद्य ये च लङ्कानिवासिनः
देशनानयनिर्मुक्तं प्रत्यात्मगतिगोचरम् ।
लङ्कावतारसूत्रं वै पूर्वबुद्धानुवर्णितम्
स्मरामि पूर्वकैर्बुद्धैर्जिनपुत्रपुरस्कृतैः ।
सूत्रमेतन्निगद्यते भगवानपि भाषताम्
भविष्यन्त्यनागते काले बुद्धा बुद्धसुताश्च ये ।
एतमेव नयं दिव्यं शिखरे रत्नभूषिते ।
देशयिष्यन्ति यक्षाणामनुकम्पाय नायकाः
दिव्यलङ्कापुरीरम्यां नानारत्नैर्विभूषिताम् ।
प्राग्भारैः शीतलैः रम्यै रत्नजालवितानकैः
रागदोषविनिर्मुक्ताः प्रत्यात्मगतिचिन्तकाः ।
सन्त्यत्र भगवन् यक्षाः पूर्वबुद्धैः कृतार्थिनः ।
महायाननये श्रद्धा निविष्टान्योन्ययोजकाः
यक्षिण्यो यक्षपुत्राश्च महायानबुभुत्सवः ।
आयातु भगवान् शास्ता लङ्कामलयपर्वतम्
कुम्भकर्णपुरोइगाश्च राक्षसाः पुरवासिनः ।
श्रोष्यन्ति प्रत्यात्मगतिं महायानपरायणाः
कृताधिकारा बुद्धेषु करिष्यन्त्यधुना च वै ।
अनुकम्पार्थं मह्यं वै याहि लङ्कां सुतैः सह
गृहमप्सरवर्गाश्च हाराणि विविधानि च ।
रम्यां चाशोकवनिकां प्रतिगृह्ण महामुने
आज्ञाकरो ऽहं बुद्धानां ये च तेषां जिनात्मजाः ।
नास्ति तद्यन्न देयं मे अनुकम्प महामुने
तस्य तद्वचनं श्रुत्वा उवाच त्रिभवेश्वरः ।
अतीतैरपि यक्षेन्द्र नायकै रत्नपर्वते
प्रत्यात्मधर्मो निर्दिष्टः त्वं चैवाप्यनुकम्पितः ।
अनागताश्च वक्ष्यन्ति गिरौ रत्नविभूषिते
योगिनां निलयो ह्येष दृष्टधर्मविहारिणाम् ।
अनुकम्प्यो ऽसि यक्षेन्द्र सुगतानां ममापि च
अधिवास्य भगवांस्तूष्णीं शमबुद्ध्या व्यवस्थितः ।
आरूढः पुष्पके याने रावणेनोपनामिते
तत्रैव रावणो ऽन्ये च जिनपुत्रा विशारदाः ।
अप्सरैर्हास्यलासाद्यैः पूज्यमानाः पुरीं गताः
तत्र गत्वा पुरीं रम्यां पुनः पूजां प्रलब्धवान् ।
रावणाद्यैर्यक्षवर्गैर्यक्षिणीभिश्च पूजितः ।
यक्षपुत्रैर्यक्षकन्याभी रत्नजालैश्च पूजितः
रावणेनापि बुद्धस्य हारा रत्नविभूषिताः ।
जिनस्य जिनपुत्राणामुत्तमाङ्गेषु स्थापिताः
प्रगृह्य पूजां भगवान् जिनपुत्रैश्च पण्डितैः ।
धर्मं विभावयामास प्रत्यात्मगतिगोचरम्
रावणो यक्षवर्गाश्च संपूज्य वदतां वरम् ।
महामतिं पूजयन्ति अध्येषन्ति पुनः पुनः ।
त्वं प्रष्टा सर्वबुद्धानां प्रत्यात्मगतिगोचरम्
अहं हि श्रोता यक्षाश्च जिनपुत्राश्च सन्निह ।
अध्येषयामि त्वां यक्षा जिनपुत्राश्च पण्डिताः
वादिनां त्वं महावादी योगिनां योगवाहकः ।
अध्येषयामि त्वां भक्त्या नयं पृच्छ विशारद
तीर्थ्यदोषैर्विनिर्मुक्तं प्रत्येकजिनश्रावकैः ।
प्रत्यात्मधर्मताशुद्धं बुद्धभूमिप्रभावकम्
निर्माय भगवांस्तत्र शिखरान् रत्नभूषितान् ।
अन्यानि चैव दिव्यानि रत्नकोटीरलंकृताः
एकैकस्मिन् गिरिवरे आत्मभावं विदर्शयन् ।
तत्रैव रावणो यक्ष एकैकस्मिन् व्यवस्थितः
अत्र ताः पर्षदः सर्वा एकैकस्मिन् हि दृश्यते ।
सर्वक्षेत्राणि तत्रैव ये च तेषु विनायकाः
राक्षसेन्द्रश्च तत्रैव ये च लङ्कानिवासिनः ।
तत्प्रतिस्पर्धिनी लङ्का जिनेन अभिनिर्मिता ।
अन्याश्चाशोकवनिका वनशोभाश्च तत्र याः
एकैकस्मिन् गिरौ नाथो महामतिप्रचोदितः ।
धर्मं दिदेश यक्षाय प्रत्यात्मगतिसूचकम् ।
दिदेश निखिलं सूत्रं शतसाहस्रिकं गिरौ
शास्ता च जिनपुत्राश्च तत्रैवान्तर्हितास्ततः ।
अद्राक्षीद्रावणो यक्ष आत्मभावं गृहे स्थितम्
चिन्तेति किमिदं को ऽयं देशितं केन वा श्रुतम् ।
किं दृष्टं केन वा दृष्टं नगरो वा क्व सौगतः
तानि क्षेत्राणि ते बुद्धा रत्नशोभाः क्व सौगताः ।
स्वप्नो ऽयमथ वा माया नगरं गन्धर्वशब्दितम्
तिमिरो मृगतृष्णा वा स्वप्नो वन्ध्याप्रसूयतम् ।
अलातचक्रधूमो वा यदहं दृष्टवानिह
अथ वा धर्मता ह्येषा धर्माणां चित्तगोचरे ।
न च बालावबुध्यन्ते मोहिता विश्वकल्पनैः
न द्रष्टा न च द्रष्टव्यं न वाच्यो नापि वाचकः ।
अन्यत्र हि विकल्पो ऽयं बुद्धधर्माकृतिस्थितिः ।
ये पश्यन्ति यथादृष्टं न ते पश्यन्ति नायकम्
अप्रवृत्तिविकल्पश्च यदा बुद्धं न पश्यति ।
अप्रवृत्तिभवे बुद्धः संबुद्धो यदि पश्यति
मूल पाठ: Saddharmalaṅkāvatārasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1963, (Buddhist Sanskrit Texts, 3) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0