भाषा

ENहिગુ
ग्रंथ पाठ

ऋतुसंहार · अध्याय 2

2.1

ससीकराम्भोधरमत्तकुञ्जरस् तडित्पताको ऽशनिशब्दमर्दलः
समागतो राजवद् उद्धतद्युतिर् घनागमः कामिजनप्रियः प्रिये ॥

2.2

नितान्तनीलोत्पलपत्त्रकान्तिभिः क्वचित् प्रभिन्नाञ्जनराशिसंनिभैः
क्वचित्सगर्भप्रमदास्तनप्रभैः समाचितं व्योम घनैः समन्ततः ॥

2.3

तृषाकुलैश्चातकपक्षिणां कुलैः प्रयाचितास् तोयभरावलम्बिनः
प्रयान्ति मन्दं बहुधारवर्षिणो बलाहकाः श्रोत्रमनोहरस्वनाः ॥

2.4

बलाहकाश्चाशनिशब्दमर्दलाः सुरेन्द्रचापं दधतस्तडिद्गुणम्
सुतीक्ष्णधारापतनोग्रसायकैस् तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥

2.5

प्रभिन्नवैडूर्यनिभैस् तृणाङ्कुरैः समाचिता प्रोत्थितकन्दलीदलैः
विभाति शुक्लेतररत्नभूषिता वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥

2.6

सदा मनोज्ञं स्वनदुत्सवोत्सुकं विकीर्णविस्तीर्णकलापिशोभितम्
ससंभ्रमालिङ्गनचुम्बनाकुलं प्रवृत्तनृत्यं कुलमद्य बर्हिणाम् ॥

2.7

निपातयन्त्यः परितस्तटद्रुमान् प्रवृद्धवेगैः सलिलैर् अनिर्मलैः
स्त्रियः सुदुष्टा इव जातिविभ्रमाः प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥

2.8

तृणोत्करैर् उद्गतकोमलाङ्कुरैश् चितानि नीलैर् हरिणीमुखक्षतैः
वनानि वैन्ध्यानि हरन्ति मानसं विभूषितान्युद्गतपल्लवैर् द्रुमैः ॥

2.9

विलोलनेत्रोत्पलशोभिताननैर् मृगैः समन्तादुपजातसाध्वसैः
समाचिता सैकतिनी वनस्थली समुत्सुकत्वं प्रकरोति चेतसः ॥

2.10

अभीक्ष्णमुच्चैर् ध्वनता पयोमुचा घनान्धकारीकृतशर्वरीष्वपि
तडित्प्रभादर्शितमार्गभूमयः प्रयान्ति रागादभिसारिकाः स्त्रियः ॥

2.11

पयोधरैर् भीमगभीरनिस्वनैस् तडिद्भिर् उद्वेजितचेतसो भृशम्
कृतापराधानपि योषितः प्रियान् परिष्वजन्ते शयने निरन्तरम् ॥

2.12

विलोचनेन्दीवरवारिबिन्दुभिर् निषिक्तबिम्बाधरचारुपल्लवाः
निरस्तमाल्याभरणानुलेपनाः स्थिता निराशाः प्रमदाः प्रवासिनाम् ॥

2.13

विपाण्डुरं कीटरजस्तृणान्वितं भुजंगवद् वक्रगतिप्रसर्पितम्
ससाध्वसैर्भेककुलैर् निरीक्षितं प्रयाति निम्नाभिमुखं नवोदकम् ॥

2.14

विपत्त्रपुष्पां नलिनीं समुत्सुका विहाय भृङ्गाः श्रुतिहारिनिस्वनाः
पतन्ति मूढाः शिखिनां प्रनृत्यतां कलापचक्रेषु नवोत्पलाशया ॥

2.15

वनद्विपानां नववारिदस्वनैर् मदान्वितानां ध्वनतां मुहुर्मुहुः
कपोलदेशा विमलोत्पलप्रभाः सभृङ्गयूथैर् मदवारिभिश् चिताः ॥

2.16

सितोत्पलाभाम्बुदचुम्बितोपलाः समाचिताः प्रस्रवणैः समन्ततः
प्रवृत्तनृत्यैः शिखिभिः समाकुलाः समुत्सुकत्वं जनयन्ति भूधराः ॥

2.17

कदम्बसर्जार्जुनकेतकीवनं विकम्पयंस्तत्कुसुमाधिवासितः
ससीकराम्भोधरसङ्गशीतलः समीरणः कं न करोति सोत्सुकम् ॥

2.18

शिरोरुहैः श्रोणितटावलम्बिभिः कृतावतंसैः कुसुमैः सुगन्धिभिः
स्तनैः सहारैर्वदनैः ससीधुभिः स्त्रियो रतिं संजनयन्ति कामिनाम् ॥

2.19

वहन्ति वर्षन्ति नदन्ति भान्ति व्यायन्ति नृत्यन्ति समाश्रयन्ति
नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनः प्लवंगाः ॥

2.20

तडिल्लताशक्रधनुर्विभूषिताः पयोधरास्तोयभरावलम्बिनः
स्त्रियश्च काञ्चीमणिकुण्डलोज्ज्वला हरन्ति चेतो युगपत्प्रवासिनाम् ॥

2.21

मालाः कदम्बनवकेसरकेतकीभिर् आयोजिताः शिरसि बिभ्रति योषितो ऽद्य
कर्णान्तरेषु ककुभद्रुममञ्जरीभिर् इच्छानुकूलरचितान् अवतंसकांश्च ॥

2.22

कालागुरुप्रचरचन्दनचर्चिताङ्ग्यः पुष्पावतंससुरभीकृतकेशपाशाः
श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः ॥

2.23

कुवलयदलनीलैर् उन्नतैस् तोयनम्रैर् मृदुपवनविधूतैर् मन्दमन्दं चलद्भिः
अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः पथिकजनवधूनां तद्वियोगाकुलानाम् ॥

2.24

मुदित इव कदम्बैर्जातपुष्पैः समन्तात् पवनचलितशाखैः शाखिभिर्नृत्यतीव
हसितमिव विधत्ते सूचिभिः केतकीनां नवसलिलनिषेकच्छिन्नतापो वनान्तः ॥

2.25

शिरसि बकुलमालां मालतीभिः समेतां विकसितनवपुष्पैर्यूथिकाकुड्मलैश्च
विकचनवकदम्बैः कर्णपूरं वधूनां रचयति जलदौघः कान्तवत्काल एषः ॥

2.26

दधति वरकुचाग्रैरुन्नतैर् हारयष्टिं प्रतनुसितदुकूलान्यायतैः श्रोणिबिम्बैः
नवजलकणसेकादुद्गतां रोमराजीं ललितवलिविभङ्गैर्मध्यदेशैश्च नार्यः ॥

2.27

नवजलकणसङ्गाच्छीततामादधानः कुसुमभरनतानां लासकः पादपानाम्
जनितरुचिरगन्धः केतकीनां रजोभिः परिहरति नभस्वान् प्रोषितानां मनांसि ॥

2.28

जलभरनमितानाम् आश्रयो ऽस्माकम् उच्चैर् अयमिति जलसेकैस्तोयदास्तोयनम्राः
अतिशयपरुषाभिर् ग्रीष्मवह्नेः शिखाभिः समुपजनिततापं ह्लादयन्तीव विन्ध्यम् ॥

2.29

बहुगुणरमणीयः कामिनीचित्तहारी तरुविटपलतानां बान्धवो निर्विकारः
जलदसमय एष प्राणिनां प्राणभूतो दिशतु तव हितानि प्रायशो वाञ्छितानि ॥

मूल पाठ: Ṛtusaṃhāra · Edition: Kalidasagranthavali, Benares: Chaukhamba Surabharati Prakashan, 1980. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc