ऋग्वेद · अध्याय 10.181
प्रथश् च यस्य सप्रथश् च नामानुष्टुभस्य हविषो हविर् यत् ।
धातुर् द्युतानात् सवितुश् च विष्णो रथंतरम् आ जभारा वसिष्ठः ॥
अविन्दन् ते अतिहितं यद् आसीद् यज्ञस्य धाम परमं गुहा यत् ।
धातुर् द्युतानात् सवितुश् च विष्णोर् भरद्वाजो बृहद् आ चक्रे अग्नेः ॥
ते ऽविन्दन् मनसा दीध्याना यजुः ष्कन्नम् प्रथमं देवयानम् ।
धातुर् द्युतानात् सवितुश् च विष्णोर् आ सूर्याद् अभरन् घर्मम् एते ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0