ऋग्वेद · अध्याय 10.170
विभ्राड् बृहत् पिबतु सोम्यम् मध्व् आयुर् दधद् यज्ञपताव् अविह्रुतम् ।
वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥
विभ्राड् बृहत् सुभृतं वाजसातमं धर्मन् दिवो धरुणे सत्यम् अर्पितम् ।
अमित्रहा वृत्रहा दस्युहंतमं ज्योतिर् जज्ञे असुरहा सपत्नहा ॥
इदं श्रेष्ठं ज्योतिषां ज्योतिर् उत्तमं विश्वजिद् धनजिद् उच्यते बृहत् ।
विश्वभ्राड् भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥
विभ्राजञ् ज्योतिषा स्व1र् अगच्छो रोचनं दिवः ।
येनेमा विश्वा भुवनान्य् आभृता विश्वकर्मणा विश्वदेव्यावता ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0