भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 4.11

4.11.54

अयम्.अग्ने.जरिता.इति.जपेद्.अग्नि.भये.सति.।
विधिना.तर्पयित्वा.अग्निम्.पयो.दधि.घृत.आदिभिः.॥

4.11.55

स्वयम्.पातुम्.यावद्.इच्छेत्.तावद्.गत्वा.चतुर्.दिशम्.।
अपाम्.इदम्.परिणयेत्.संतत.उदक.धारया.॥

4.11.56

उद.ह्रद.इव.भूत्वा.अग्नेर्.भेषजम्.अन्तिकात्.।
अरण्यम्.एत्य.पाठाम्.तु.क्रीणीयाद्.यव.मुष्टिना.॥

4.11.57

यदि.सौम्य्.असि.सोमाय.त्वा.परिक्रीणाम्य्.ओषधिम्.।
यदि.वारुण्य्.अस्य्.वरुणाय.त्वा.परिक्रीणाम्य्.अहम्.ततः.॥

4.11.58

वसुभ्यो.अथवा.रुद्रेभ्य.आदित्येभ्यो.अथवा.पुनः.।
वैश्वदेव्य्.असि.विश्वेभ्यः.परिक्रीणाम्य्.अहम्.ततः.॥

4.11.59

क्षिप्त्वा.सुमनसः.पूर्वम्.ओषध्या.सह.वीरुधि.।
तस्या.वीर्यम्.समादत्ते.कर्म.यत्र.करिष्यति.॥

4.11.60

ताम्.तु.मध्ये.निदधीत.ओषधीनाम्.विहायसि.।
ग्रहणे.त्व्.ओषधीनाम्.तु.सर्वत्र.एष.विधिर्.भवेत्.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc