ग्रंथ पाठ
ऋग्विधान · अध्याय 4.10
4.10.49
अग्ने.अच्छा.वद.इत्य्.एतद्.धन.कामः.प्रयोजयेत्.।
नियतः.सर्पिषा.हुत्वा.जपेद्.अयुतशः.पुनः.॥
4.10.50
खादिरीणाम्.हि.समिधाम्.जुहुयाद्.दशतीर्.दश.।
दशकृत्वः.सदारेण.रायस्.पोषेण.पुष्यति.॥
4.10.51
बिल्व.उदुम्बर.पालाशीस्.तथा.रौहीतकीश्.च.याः.।
जुहुयाद्.धन.कामस्.तु.रायस्.पोषेण.पुष्यति.॥
4.10.52
वैभीतक.इध्मो.बैल्वकीर्.जुहुयाद्.अर्ध.मासभुक्.।
द्विषद्.द्वेषेण.तस्य.अन्ते.सूक्तम्.एतत्.प्रयोजयेत्.॥
4.10.53
द्विषन्तम्.धनिनम्.हत्वा.द्विषतो.विन्दते.धनम्.।
अथवा.जप्यम्.एव.स्याद्.रायस्.पोष.धन.अर्थिना.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0