भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 2.8

2.8.35

यवैर्.अश्वांस्.तिलैर्.हस्तीन्.महिष्यो.यावकैस्.तथा.।
शाली.ताण्डुल.होमेन.कन्या.लाभम्.अवाप्नुयात्.॥

2.8.36

जाती.चम्पक.राज.अर्क.कुसुमानाम्.सहस्रशः.।
हुत्वा.वस्त्राण्य्.अवाप्नोति.घृत.अक्तानाम्.हुत.अशने.॥

2.8.37

सूर्य.बिम्बे.जल.मध्ये.तोयम्.हुत्वा.सहस्रशः.।
सहस्रम्.प्राप्नुयाद्द्.हैमम्.रौप्यम्.इन्दुमये.हुते.॥

2.8.38

अलक्ष्मी.पाप.सम्युक्तो.मल.व्याधि.विनायकैः.।
मुच्येत्.सहस्र.जप्तेन.स्नायाद्.यस्.तु.जलेन.वै.॥

2.8.39

याम्.दिशम्.सप्त.जप्तेन.लोष्टेन.सम्प्रचाटयेत्.।
चौर.अग्नि.मारुत.उत्थानि.भयानि.न.भवन्ति.वै.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc