ग्रंथ पाठ
ऋग्विधान · अध्याय 2.7
2.7.30
त्रि.रात्र.उपोषितः.सम्यग्.घृतम्.हुत्वा.सहस्रशः.।
सहस्र.लाभम्.आप्नोति.हुत.अशे.खादिर.इन्धने.॥
2.7.31
पालाश.समिधाम्.चैव.घृत.अक्तानाम्.हुत.अशने.।
सहस्र.लाभम्.आप्नोति.राहु.सूर्य.समागमे.॥
2.7.32
हुत्वा.तु.खादिरे.वह्नौ.सघृतम्.रक्त.चन्दनम्.।
सहस्रम्.होमम्.आप्नोति.राहु.सूर्य.समागमेत्.॥
2.7.33
रक्त.चन्दन.मिश्रम्.तु.सघृतम्.हव्य.वाहने.।
हुत्वा.गोमयम्.आप्नोति.सहस्रम्.गो.धनम्.द्विजः.॥
2.7.34
यस्यास्.तु.गोर्.गोमयेन.गुटिकानाम्.सहस्रशः.।
हुत्वा.ताम्.गाम्.अवाप्नोति.घृत.अक्तानाम्.हुत.अशने.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0