भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.43

7.43.1

॥9॥.
-र्व्_5:4।10-
(र्व्_7,43)
प्र । वः । यज्ञेषु । देव-यन्तः । अर्चन् । द्यावा । नमः-भिः । पृथिवी इति । इषध्यै । येषाम् । ब्रह्माणि । असमानि । विप्राः । विष्वक् । वि-यन्ति । वनिनः । न । शाखाः

7.43.2

प्र । यज्ञः । एतु । हेत्वः । न । सप्तिः । उत् । यच्छध्वम् । स-मनसः । घृताचीः । स्तृणीत । बर्हिः । अध्वराय । साधु । ऊर्ध्वा । शोचींषि । देव-यूनि । अस्थुः

7.43.3

आ । पुत्रासः । न । मातरम् । वि-भृत्राः । सानौ । देवासः । बर्हिषः । सदन्तु । आ । विश्वाची । विदथ्याम् । अनक्तु । अग्ने । मा । नः । देव-ताता । मृधः । करितिकः

7.43.4

ते । सीषपन्त । जोषम् । आ । यजत्राः । ऋतस्य । धाराः । सु-दुघाः । दुहानाः । ज्येष्ठम् । वः । अद्य । महः । आ । वसूनाम् । आ । गन्तन । स-मनसः । यति । स्थ

7.43.5

एव । नः । अग्ने । विक्षु । आ । दशस्य । त्वया । वयम् । सहसावन् । आस्क्राः । राया । युजा । सध-मादः । अरिष्टाः । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc