ऋग्वेदसंहिता, पदपाठ · अध्याय 7.42
॥8॥.
-र्व्_5:4।9-
(र्व्_7,42)
प्र । ब्रह्माणः । अङ्गिरसः । नक्षन्त । प्र । क्रन्दनुः । नभन्यस्य । वेतु । प्र । धेनवः । उद-प्रुतः । नवन्त । युज्याताम् । अद्री इति । अध्वरस्य । पेशः
सु-गः । ते । अग्ने । सन-वित्तः । अध्वा । युक्ष्व । सुते । हरितः । रोहितः । च । ये । वा । सद्मन् । अरुषाः । वीर-वाहः । हुवे । देवानाम् । जनिमानि । सत्तः
सम् । ओं इति । वः । यज्ञम् । महयन् । नमः-भिः । प्र । होता । मन्द्रः । रिरिचे । उपाके । यजस्व । सु । पुरु-अनीक । देवान् । आ । यज्ञियाम् । अर-मतिम् । ववृत्याः
यदा । वीरस्य । रेवतः । दुरोणे । स्योन-शीः । अतिथिः । आचिकेतत् । सु-प्रीतः । अग्न् इः । सु-धितः । दमे । आ । सः । विशे । दाति । वार्यम् । इयत्यै
इमम् । नः । अग्ने । अध्वरम् । जुषस्व । मरुत्-सु । इन्द्रे । यशसम् । कृधि । नः । आ । नक्ता । बर्हिः । सदताम् । उषसा । उशन्ता । मित्रावरुणा । यज । इह
एव । अग्निम् । सहस्यम् । वसिष्ठः । रायः-कामः । विश्व-प्स्न्यस्य । स्तौत् । इषम् । रयिम् । पप्रथत् । वाजम् । अस्मे इति । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0