ऋग्वेदसंहिता, पदपाठ · अध्याय 7.23
॥6॥.
-र्व्_5:3।7-
(र्व्_7,23)
उत् । ओं इति । ब्रह्माणि । ऐरत । श्रवस्या । इन्द्रम् । स-मर्ये । महय । वसिष्ठ । आ । यः । विश्वानि । शवसा । ततान । उप-श्रोता । मे । ईवतः । वचांसि
अयामि । घोषः । इन्द्र । देव-जामिः । इरज्यन्त । यत् । शुरुधः । वि-वाचि । नहि । स्वम् । आयुः । चिकिते । जनेषु । तानि । इत् । अंहांसि । अति । पर्षि । अस्मान्
युजे । रथम् । गो--एषणम् । हरि-भ्याम् । उप । ब्रह्माणि । जुजुषाणम् । अस्थुः । वि । बाध् इष्ट । स्यः । रोदसी इति । महि-त्वा । इन्द्रः । वृत्राणि । अप्रति । जघन्वान्
आपः । चित् । पिप्युः । स्तर्यः । न । गावः । नक्षन् । ऋतम् । जरितारः । ते । इन्द्र । याहि । वायुः । न । नि-युतः । नः । अच्छ । त्वम् । हि । धी-भिः । दयसे । वि । वाजान्
ते । त्वा । मदाः । इन्द्र । मादयन्तु । शुष्मिणम् । तुवि-राधसम् । जरित्रे । एकः । देव-त्रा । दयसे । हि । मर्तान् । अस्मिन् । शूर । सवने । मादयस्व
एव । इत् । इन्द्रम् । वृषणम् । वज्र-बाहुम् । वसिष्ठासः । अभि । अर्चन्ति । अर्कैः । सः । नः । स्तुतः । वीर-वत् । धातु । गो--मत् । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0