भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.22

7.22.1

॥4॥.
-र्व्_5:3।5-
(र्व्_7,22)
पिब । सोमम् । इन्द्र । मन्दतु । त्वा । यम् । ते । सुसाव । हरि-अश्व । अद्रिः । सोतुः । बाहु-भ्याम् । सु-यतः । न । अर्वा

7.22.2

यः । ते । मदः । युज्यः । चारुः । अस्ति । येन । वृत्राणि । हरि-अश्व । हंसि । सः । त्वाम् । इन्द्र । प्रभुवसो इतिप्रभु-वसो । ममत्तु

7.22.3

बोध । सु । मे । मघ-वन् । वाचम् । आ । इमाम् । याम् । ते । वसिष्ठः । अर्चति । प्र-शस्तिम् । इमा । ब्रह्म । सध-मादे । जुषस्व

7.22.4

श्रुधि । हवम् । वि-पिपानस्य । अद्रेः । बोध । विप्रस्य । अर्चतः । मनीषाम् । कृष्व । दुवांसि । अन्तमा । सचा । इमा

7.22.5

न । ते । गिरः । अपि । मृष्ये । तुरस्य । न । सु-स्तुतिम् । असुर्यस्य । विद्वान् । सदा । ते । नाम । स्व-यशः । विवक्मि

7.22.6

॥5॥.
-र्व्_5:3।6-
भूरि । हि । ते । सवना । मानुषेषु । भूरि । मनीषी । हवते । त्वाम् । इत् । मा । आरे । अस्मत् । मघ-वन् । ज्योक् । करितिकः

7.22.7

तुभ्य । इत् । इमा । सवना । शूर । विश्वा । तुभ्यम् । ब्रह्माणि । वर्धना । कृणोमि । त्वम् । नृ-भिः । हव्यः । विश्वधा । असि

7.22.8

नु । चित् । नु । ते । मन्यमानस्य । दस्म । उत् । अश्नुवन्ति । महिमानम् । उग्र । न । वीर्यम् । इन्द्र । ते । न । राधः

7.22.9

ये । च । पूर्वे । ऋषयः । ये । च । नूत्नाः । इन्द्र । ब्रह्माणि । जनयन्त । विप्राः । अस्मे इति । ते । सन्तु । सख्या । शिवानि । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc