ऋग्वेदसंहिता, पदपाठ · अध्याय 6.72
॥15॥.
-र्व्_5:1।16-
(र्व्_6,72)
इन्द्रासोमा । महि । तत् । वाम् । महि-त्वम् । युवम् । महानि । प्रथमानि । चक्रथुः । युवम् । सूर्यम् । विविदथुः । युवम् । स्वः । विश्वा । तमांसि । अहतम् । निदः । च
इन्द्रासोमा । वासयथः । उषसम् । उत् । सूर्यम् । नयथः । ज्योतिषा । सह । उप । द्याम् । स्कम्भथुः । स्कम्भनेन । अप्रथतम् । पृथिवीम् । मातरम् । वि
इन्द्रासोमौ । अहिम् । अपः । परि-स्थाम् । हथः । वृत्रम् । अनु । वाम् । द्यौः । अमन्यत । प्र । अर्णांसि । ऐरयतम् । नदीनाम् । आ । समुद्राणि । पप्रथुः । पुरूणि
इन्द्रासोमा । पक्वम् । आमासु । अन्तः । नि । गवाम् । इत् । दधथुः । वक्षणासु । जगृभथुः । अनपि-नद्धम् । आसु । रुशत् । चित्रासु । जगतीषु । अन्तरिति
इन्द्रासोमा । युवम् । अङ्ग । तरुत्रम् । अपत्य-साचम् । श्रुत्यम् । रराथेइति । युवम् । शुष्मम् । नर्यम् । चर्षणि-भ्यः । सम् । विव्यथुः । पृतनासहम् । उग्रा
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0