भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.71

6.71.1

॥14॥.
-र्व्_5:1।15-
(र्व्_6,71)
उत् । ओं इति । स्यः । देवः । सविता । हिरण्यया । बाहू इति । अयंस्त । सवनाय । सु-क्रतुः । घृतेन । पाणी इति । अभि । प्रुष्णुते । मखः । युवा । सु-दक्षः । रजसः । वि-धर्मणि

6.71.2

देवस्य । वयम् । सवितुः । सवीमनि । श्रेष्ठे । स्याम । वसुनः । च । दावने । यः । विश्वस्य । द्वि-पदः । यः । चतुः-पदः । नि-वेशने । प्र-सवे । च । असि । भूमनः

6.71.3

अदब्धेभिः । सवितरिति । पयु-भिः । त्वम् । शिवेभिः । अद्य । परि । पाहि । नः । गयम् । हिरण्य-जिह्वः । सुविताय । नव्यसे । रक्ष । माकिः । नः । अघ-शंसः । ईशत

6.71.4

उत् । ओं इति । स्यः । देवः । सविता । दमूनाः । हिरण्य-पाणिः । प्रति-दोषम् । अस्थात् । अयः-हनुः । यजतः । मन्द्र-जिह्वः । आ । दाशुषे । सुवति । भूरि । वामम्

6.71.5

उत् । ओं इति । अयान् । उपवक्ताइव । बाहू इति । हिरन्यया । सविता । सु-प्रतीका । दिवः । रोहांसि । अरुहत् । पृथिव्याः । अरीरमत् । पतयत् । कत् । चित् । अभ्वम्

6.71.6

वामम् । अद्य । सवितः । वामम् । ओं इति । श्वः । दिवे--दिवे । वामम् । अस्मभ्यम् । सावीः । वामस्य । हि । क्षयस्य । देव । भूरेः । अया । धिया । वाम-भाजः । स्याम

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc