भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.65

6.65.1

॥5॥.
-र्व्_5:1।6-
(र्व्_6,65)
एषा । स्या । नः । दुहिता । दिवः-जाः । क्षितीः । उच्छन्ती । मानुषीः । अजीगरिति । या । भानुना । रुशता । राम्यासु । अज्ञायि । तिरः । तमसः । चित् । अक्तून्

6.65.2

वि । तत् । ययुः । अरुणयुक्-भिः । अश्वैः । चित्रम् । भान्ति । उषसः । चन्द्र-रथाः । अग्रम् । यज्ञस्य । बृहतः । नयन्तीः । वि । ताः । बाधन्ते । तमः । ऊर्म्यायाः

6.65.3

श्रवः । वाजम् । इषम् । ऊर्जम् । वहन्तीः । नि । दाशुषे । उषसः । मर्त्याय । मघोनीः । वीर-वत् । पत्यमानाः । अवः । धात । विधते । रत्नम् । अद्य

6.65.4

इदा । हि । वः । विधते । रत्नम् । अस्ति । इदा । वीराय । दाशुषे । उषसः । इदा । विप्राय । जरते । यत् । उक्था । नि । स्म । मावते । वहथ । पुरा । चित्

6.65.5

इदा । हि । ते । उषः । अद्रिसानो इत्य् अद्रि-सानो । गोत्रा । गवाम् । अङ्गिरसः । गृणन्ति । वि । अर्केण । बिभिदुः । ब्रह्मणा । च । सत्या । नृणाम् । अभवत् । देव-हूतिः

6.65.6

उच्छ । दिवः । दुहितरिति । प्रत्न-वत् । नः । भरद्वाज-वत् । विधते । मघोनि । सु-वीरम् । रयिम् । गृणते । रिरीहि । उरु-गायम् । अधि । धेहि । श्रवः । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc