ऋग्वेदसंहिता, पदपाठ · अध्याय 6.64
॥4॥.
-र्व्_5:1।5-
(र्व्_6,64)
उत् । ओं इति । श्रिये । उषसः । रोचमानाः । अस्थुः । अपाम् । न । ऊर्मयः । रुशन्तः । कृणोति । विश्वा । सु-पथा । सु-गानि । अभूत् । ओं इति । वस्वी । दक्षिणा । मघोनी
भद्रा । ददृक्षे । उर्विया । वि । भासि । उत् । ते । शोचिः । भानवः । द्याम् । अपप्तन् । आविः । वक्षः । कृणुषे । शुम्भमाना । उषः । देवि । रोचमाना । महः-भिः
वहन्ति । सीम् । अरुणासः । रुशन्तः । गावः । सु-भगाम् । उर्विया । प्रथनाम् । अप । ईजते । शूरः । अस्ताइव । शत्रून् । बाधते । तमः । अजिरः । न । वोळ्हा
सु-गा । उत । ते । सु-पथा । पर्वतेषु । अवाते । अपः । तरसि । स्वभानो इतिस्व-भानो । सा । नः । आ । वह । पृथु-यामन् । ऋष्वे । रयिम् । दिवः । दुहितः । इषयध्यै
सा । आ । वह । या । उक्ष-भिः । अवाता । उषः । वरम् । वहसि । जोषम् । अनु । त्वम् । दिवः । दुहितः । या । ह । देवी । पूर्व-हूतौ । मंहना । दर्शता । भूः
उत् । ते । वयः । चित् । वसतेः । अपप्तन् । नरः । च । ये । पितु-भाजः । वि-उष्टौ । अमा । सते । वहसि । भूरि । वामम् । उषः । देवि । दाशुषे । मर्त्याय
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0