ऋग्वेदसंहिता, पदपाठ · अध्याय 5.77
॥17॥.
-र्व्_4:4।18-
(र्व्_5,77)
प्रातः-यावाना । प्रथमा । यजध्वम् । पुरा । गृध्रात् । अररुषः । पिबातः । प्रातः । हि । यज्ञम् । अश्विना । दधातेइति । प्र । शंसन्ति । कवयः । पूर्व-भाजः
प्रातः । यजध्वम् । अश्विना । हिनोत । न । सायम् । अस्ति । देव-याः । अजुष्टम् । उत । अन्यः । अस्मत् । यजते । वि । च । आवः । पूर्वः-पूर्वः । यजमानः । वनीयान्
हिरण्य-त्वक् । मधु-वर्णः । घृत-स्नुः । पृक्षः । वहन् । आ । रथः । वतर्ते । वाम् । मनः-जवाः । अश्विना । वात-रंहाः । येन । अति-याथः । दुः-रितानि । विश्वा
यः । भूयिष्ठम् । नासत्याभ्याम् । विवेष । चनिष्ठम् । पित्वः । ररते । वि-भागे । सः । तोकम् । अस्य । पीपरत् । शमीभिः । अनूर्ध्व-भासः । सदम् । इत् । तुतुर्यात्
सम् । अश्विनोः । अवसा । नूतनेन । मयः-भुवा । सु-प्रनीती । गमेम । आ । नः । रयिम् । वहतम् । आ । उत । वीरान् । आ । विश्वानि । अमृता । सौभगानि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0