भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.76

5.76.1

॥16॥.
-र्व्_4:4।17-
(र्व्_5,76)
आ । भाति । अग्निः । उषसाम् । अनीकम् । उत् । विप्राणाम् । देव-याः । वाचः । अस्थुः । अर्वाञ्चा । नूनम् । रथ्या । इह । यातम् । पीपि-वांसम् । अश्विना । घर्मम् । अच्छ

5.76.2

न । संस्कृतम् । प्र । मिमीतः । गमिष्ठा । अन्ति । नूनम् । अश्विना । उप-स्तुता । इह । दिवा । अभि-पित्वे । अवसा । आगमिष्ठा । प्रति । अवर्तिम् । दाशुषे । शम्-भविष्ठा

5.76.3

उत । आ । यातम् । सम्-गवे । प्रातः । अह्नः । मध्यन्दिने । उत्-इता । सूर्यस्य । दिवा । नक्तम् । अवसा । शम्-तमेन । न । इदानीम् । पीतिः । अश्विना । आ । ततान

5.76.4

इदम् । हि । वाम् । प्र-दिवि । स्थानम् । ओकः । इमे । गृहाः । अश्विना । इदम् । दुरोणम् । आ । नः । दिवः । बृहतः । पर्वतात् । आ । अत्-भ्यः । यातम् । इषम् । ऊर्जम् । वहन्ता

5.76.5

सम् । अश्विनोः । अवसा । नूतनेन । मयः-भुवा । सु-प्रनीती । गमेम । आ । नः । रयिम् । वहतम् । आ । उत । वीरान् । आ । विश्वानि । अमृता । सौभगानि

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc