ऋग्वेदसंहिता, पदपाठ · अध्याय 5.18
॥9॥.
-र्व्_4:1।10-
(र्व्_5,18)
प्रातः । अग्निः । पुरु-प्रियः । विशः । स्तवेत । अतिथिः । विश्वानि । यः । अमर्त्यः । हव्या । मर्तेषु । रण्यति
द्विताय । मृक्त-वाहसे । स्वस्य । दक्षस्य । मंहना । इन्दुम् । सः । धत्ते । आनुषक् । स्तोता । चित् ते । अमर्त्य
तम् । वः । दीर्घायु-शोचिषम् । गिरा । हुवे । मघोनाम् । अरिष्टः । येषाम् । रथः । वि । अश्व-दावन् । ईयते
चित्रा । वा । येषु । दीधितिः । आसन् । उक्था । पान्ति । ये । स्तीर्णम् । बर्हिः । स्वः-नरे । श्रवांसि । दधिरे । परि
ये । मे । पञ्चाशतम् । ददुः । अश्वानाम् । सध-स्तुति । द्यु-मत् । अग्ने । महि । श्रवः । बृहत् । कृधि । मघोनाम् । नृ-वत् । अमृत । नृणाम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0