ऋग्वेदसंहिता, पदपाठ · अध्याय 5.17
॥8॥.
-र्व्_4:1।9-
(र्व्_5,17)
आ यज्ञैः । देव । मर्त्यः । इत्था । तव्यांसम् । ऊतये । अग्निम् । कृते । सु-अध्वरे । पूरुः । ईळीत । अवसे
अस्य । हि । स्वयशः-तरः । आसा । वि-धर्मन् । मन्यसे । तम् । नाकम् । चित्र-शोचिषम् । मन्द्रम् । परः । मनीषया
अस्य । वै । असौ । ओं इति । अर्चिषा । यः । अयुक्त । तुजा । गिरा । दिवः । न । यस्य । रेतसा । बृहत् । शोचन्ति । अर्चयः
अस्य । क्रत्वा । वि-चेतसः । दस्मस्य । वसु । रथे । आ । अध । विश्वासु । हव्यः । अग्निः । विक्षु । प्र । शस्यते
नु । नः । इत् । हि । वार्यम् । आसा । सचन्त । सूरयः । ऊर्जः । नपात् । अभिष्टये । पाहि । शग्धि । स्वस्तये । उत । एधि । पृत्-सु । नः । वृधे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0