भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 3.21

3.21.1

॥20॥.
-र्व्_3:1।21-
(र्व्_3,21)
इमम् । नः । यज्ञम् । अमृतेषु । धेहि । ईमा । हव्या । जात-वेदः । जुषस्व । स्तोकानाम् । अग्ने । मेदसः । घृतस्य । होतरिति । प्र । अशान । प्रथमः । नि-सद्य

3.21.2

घृत-वन्तः । पावक । ते । स्तोकाः । श्चोतन्ति । मेदसः । स्व-धर्मन् । देव-वीतये । श्रेष्ठम् । नः । धेहि । वार्यम्

3.21.3

तुभ्यम् । स्तोकाः । घृत-श्चुतः । अग्ने । विप्राय । सन्त्य । ऋषिः । श्रेष्ठः । सम् । इध्यसे । यज्ञस्य । प्र-अविता । भव

3.21.4

तुभ्यम् । श्चोतन्ति । अध्रिगो इत्य् अधिर्-गो । शची-वः । स्तोकासः । अग्ने । मेदसः । घृतस्य । कवि-शस्तः । बृहता । भानुना । आ । अगाः । हव्या । जुषस्व । मेधिर

3.21.5

ओजिष्ठम् । ते । मध्यतः । मेदः । उत्-भृतम् । प्र । ते । वयम् । ददामहे । श्चोतन्ति । ते । व्स् इति । स्तोकाः । अधि । त्वचि । प्रति । तान् । देव-शः । विहि

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc