भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 3.20

3.20.1

॥19॥.
-र्व्_3:1।20-
(र्व्_3,20)
अग्निम् । उषसम् । अश्विना । दधि-क्राम् । वि-उष्टिषु । हवते । वह्निः । उक्थैः । सु-ज्योतिषः । नः । शृण्वन्तु । देवाः । स-जोषसः । अध्वरम् । वावशानाः

3.20.2

अग्ने । त्री । ते । वाजिना । त्री । षध-स्था । तिस्रः । ते । जिह्वाः । ऋत-जात । पूर्वीः । ति स्रः । ओं इति । ते । तन्वः । देव-वाताः । ताभिः । नः । पाहि । गिरः । अप्र-युच्छन्

3.20.3

अग्ने । भूरीणि । तव । जात-वेदः । देव । स्वधावः । अमृतस्य । नाम । याः । च । माया । मायिनाम् । विश्वम्-इन्व । त्वे इति । पूर्वीः । सम्-दधुः । पृष्टबन्धो इतिपृष्ट-बन्धो

3.20.4

अग्निः । नेता । भगः-इव । क्षितीनाम् । दैवीनाम् । देवः । ऋतु-पाः । ऋत-वा । सः । वृत्र-हा । सनयः । विश्व-वेदाः । पर्षत् । विश्वा । अति । दुः-इता । गृणन्तम्

3.20.5

दधि-क्राम् । अग्निम् । उषसम् । च । देवीम् । बृहस्पतिम् । सवितारम् । च । देवम् । अश्व् इना । मित्रावरुणा । भगम् । च । वसून् । रुद्रान् । आदित्यान् । इह । हुवे

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc