भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.174

10.174.1

॥31॥.
-र्व्_8:8।32-
(र्व्_10,174)
अभि-वर्तेन । हविषा । येन । इन्द्रः । अभि-ववृते । तेन । अस्मान् । ब्रह्मणः । पते । अभि । राष्ट्राय । वर्तय

10.174.2

अभि-वृत्य । स-पत्नान् । अभि । याः । नः । अरातयः । अभि । पृतन्यन्तम् । तिष्ठ । अभि । यः । नः । इरस्यति

10.174.3

अभि । त्वा । देवः । सविता । अभि । सोमः । अवीवृतत् । अभि । त्वा । विश्वा । भूतानि । अभि-वर्तः । यथा । अससि

10.174.4

येन । इन्द्रः । हविषा । कृत्वी । अभवत् । द्युम्नी । उत्-तमः । इदम् । तत् । अक्रि । देवाः । असपत्नः । किल । अभुवम्

10.174.5

असपत्नः । सपत्न-हा । अभि-राष्ट्रः । वि-ससहिः । यथा । अहम् । एषाम् । भूतानाम् । वि-राजानि । जनस्य । च

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc