ऋग्वेदसंहिता, पदपाठ · अध्याय 10.173
॥30॥.
-र्व्_8:8।31-
(र्व्_10,173)
आ । त्वा । अहार्षम् । अन्तः । एधि । ध्रुवः । तिष्ठ । अवि-चाचलिः । विशः । त्वा । सर्वाः । वाञ्छन्तु । मा । त्वत् । राष्ट्रम् । अधि । भ्रशत्
इह । एव । एधि । मा । अप । च्योष्ठाः । पर्वतः-इव । अवि-चाचलिः । इन्द्र-इव । इह । ध्रुवः । तिष्ठ । इह । राष्ट्रम् । ओं इति । धारय
इमम् । इन्द्रः । अदीधरत् । ध्रुवम् । ध्रुवेण । हविषा । तस्मै । सोमः । अधि । ब्रवत् । तस्मै । ओं इति । ब्रह्मणः । पतिः
ध्रुवा । द्यौः । ध्रुवा । पृथिवी । ध्रुवासः । पर्वताः । इमे । ध्रुवम् । विश्वम् । इदम् । जगत् । ध्रुवः । राजा । विशाम् । अयम्
ध्रुवम् । ते । राजा । वरुणः । ध्रुवम् । देवः । बृहस्पतिः । ध्रुवम् । ते । इन्द्रः । च । अग्निः । च । राष्ट्रम् । धारयताम् । ध्रुवम्
ध्रुवम् । ध्रुवेण । हविषा । अभि । सोमम् । मृशामसि । अथो इति । ते । इन्द्रः । केवलीः । विशः । बलि-हृतः । करत्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0