ग्रंथ पाठ
ऋग्वेदसंहिता, पदपाठ · अध्याय 1.98
1.98.1
॥5॥.
-र्व्_1:7।6-
(र्व्_1,98)
वैश्वानरस्य । सु-मतौ । स्याम । राजा । हि । कम् । भुवनानाम् । अभि-श्रीः । इतः । जातः । विश्वम् । इदम् । वि । चष्टे । वैश्वानरः । यतते । सूर्येण
1.98.2
पृष्टः । दिवि । पृष्टः । अग्निः । पृथिव्याम् । पृष्टः । विश्वाः । ओषधीः । आ । विवेश । वैश्वानरः । सहसा । पृष्टः । अग्निः । सः । नः । दिवा । सः । रिषः । पातु । नक्तम्
1.98.3
वैश्वानर । तव । तत् । सत्यम् । अस्तु । अस्मान् । रायः । मघवानः । सचन्ताम् । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0