ऋग्वेदसंहिता, पदपाठ · अध्याय 1.97
॥4॥.
-र्व्_1:7।5-
(र्व्_1,97)
अप । नः । शोशुचत् । अघम् । अग्ने । शुशुग्धि । आ । रयिम् । अप । नः । शोशुचत् । अघम्
सु-क्षेत्रिया । सुगातु-या । वसु-या । च । यजामहे । अप । नः । शोशुचत् । अघम्
प्र । यत् । भन्दिष्ठः । एषाम् । प्र । अस्माकासः । च । सूरयः । अप । नः । शोशुचत् । अघम्
प्र । यत् । ते । अग्ने । सूरयः । जायेमहि । प्र । ते । वयम् । अप । नः । शोशुचत् । अघम्
प्र । यत् । अग्नेः । सहस्वतः । विश्वतः । यन्ति । भानवः । अप । नः । शोशुचत् । अघम्
त्वम् । हि । विश्वतः-मुख । विश्वतः । परि-भूः । असि । अप । नः । शोशुचत् । अघम्
द्विषः । नः । विश्वतः-मुख । अति । नावाइव । पारय । अप । नः । शोशुचत् । अघम्
सः । नः । सिन्धुम्-इव । नावया । अति । पर्ष । स्वस्तये । अप । नः । शोशुचत् । अघम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0