भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.94

1.94.1

॥29॥.
-र्व्_1:6।30-
(र्व्_1,94)
इमम् । स्तोमम् । अर्हते जात-वेदसे । रथम्-इव । सम् । महेम । मनीषया । भद्रा । हि । नः । प्र-मतिः । अस्य । सम्-सदि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव

1.94.2

यस्मै । त्वम् । आयजसे । सः । साधति । अनर्वा । क्षेति । दधते । सु-वीर्यम् । सः । तूताव । न । एनम् । अश्नोति । अंहतिः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव

1.94.3

शकेम । त्वा । सम्-इधम् । साधय । धियः । त्वे । देवाः । हविः । अदन्ति । आहुतम् । त्वम् । आदित्यान् । आ । वह । तान् । हि । उश्मसि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव

1.94.4

भराम । इध्मम् । कृणवाम । हवींषि । ते । चितयन्तः । पर्वणापर्वणा । वयम् । जीवातवे । प्र-तरम् । साधय । धियः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव

1.94.5

विशाम् । गोपाः । अस्य । चरन्ति । जन्तवः । द्वि-पत् । च । यत् । उत । चतुः-पत् । अक्तु-भिः । चित्रः । प्र-केतः । उषसः । महान् । असि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव

1.94.6

॥30॥.
-र्व्_1:6।31-
त्वम् । अध्वर्युः । उत । होता । असि । पूर्व्यः । प्र-शास्ता । पोता । जनुषा । पुरः-हितः । विश्वा । विद्वान् । आर्त्विज्या । धीर । पुष्यसि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव

1.94.7

यः । विश्वतः । सु-प्रतीकः । स-दृङ् । असि । दूरे । चित् । सन् । तळित्-इव । अति । रोचसे । रात्र्याः । चित् । अन्धः । अति । देव । पश्यसि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव

1.94.8

पूर्वः । देवाः । भवतु । सुन्वतः । रथः । अस्माकम् । शंसः । अभि । अस्तु । दुः-ध्यः । तत् । आ । जानीत । उत । पुष्यत । वचः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव

1.94.9

वधैः । दुः-शंसान् । अप । दुः-ध्यः । जहि । दूरे । वा । ये । अन्ति । वा । के । चित् । अत्रि णः । अथ । यज्ञाय । गृणते । सु-गम् । कृधि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव

1.94.10

यत् । अयुक्थाः । अरुषा । रोहिता । रथे । वात-जूता । वृषभस्य-इव । ते । आत् । इन्वसि । वनिनः । धूम-केतुना । अग्ने । सख्ये । मा । रिषाम । वयम् । तव

1.94.11

॥31॥.
-र्व्_1:6।32-
अध । स्वनात् । उत । बिभ्युः । पतत्रिणः । द्रप्सा । यत् । ते । यवस-अदः । वि । अस्थिरन् । सु-गम् । तत् । ते । तावकेभ्यः । रथेभ्यः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव

1.94.12

अयम् । मित्रस्य । वरुणस्य । धायसे । अव-याताम् । मरुताम् । हेळः । अद्भुतः । मृळ । सु । नः । भूतु । एषाम् । मनः । पुनः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव

1.94.13

देवः । देवानाम् । असि । मित्रः । अद्भुतः । वसुः । वसूनाम् । असि । चारुः । अध्वरे । शर्मन् । स्याम । तव । सप्रथः-तमे । अग्ने । सख्ये । मा । रिषाम । वयम् । तव

1.94.14

तत् । ते । भद्रम् । यत् । सम्-इद्धः । स्वे । दमे । सोम-आहुतः । जरसे । मृळयत्-तमः । दधासि । रत्नम् । द्रविणम् । च । दाशुषे । अग्ने । सख्ये । मा । रिषाम । वयम् । तव

1.94.15

यस्मै । त्वम् । सु-द्रविणः । ददाशः । अनागाः-त्वम् । अदिते । सर्व-ताता । यम् । भद्रेण । शवसा । चोदयासि । प्रजावता । राधसा । ते । स्याम

1.94.16

सः । त्वम् । अग्ने । सौभग-त्वस्य । विद्वान् । अस्माकम् । आयुः । प्र । तिर । इह । देव । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc