ऋग्वेदसंहिता, पदपाठ · अध्याय 1.93
॥27॥.
-र्व्_1:6।28-
(र्व्_1,93)
अग्नीषोमौ । इमम् । सु । मे । शृणुतम् । वृषणा । हवम् । प्रति । सु-उक्तानि । हर्यतम् । भवतम् । दाशुषे । मयः
अग्नीषोमा । यः । अद्य । वाम् । इदम् । वचः । सपर्यति । तस्मै । धत्तम् । सु-वीर्यम् । गवाम् । पोषम् । सु-अश्व्यम्
अग्नीषोमा । यः । आहुतिम् । यः । वाम् । दासात् । हविः-कृतिम् । सः । प्र-जया । सु-वीर्यम् । विश्वम् । आयुः । वि । अश्नवत्
अग्नीषोमा । चेति । तत् । वीर्यम् । वाम् । यत् । अमुष्णीतम् । अवसम् । पणिम् । गाः । अव । अतिरतम् । बृसयस्य । शेषः । अविन्दतम् । ज्योतिः । एकम् । बहु-भ्यः
युवम् । एतानि । दिवि । रोचनानि । अग्निः । च । सोम । सक्रतूइतिस-क्रतू । अधत्तम् । युवम् । सिन्धून् । अभि-शस्तेः । अवद्यात् । अग्नीषोमौ । अमुञ्चतम् । गृभीतान्
आ । अन्यम् । दिवः । मातरिश्वा । जभार । अमथ्नाअत् । अन्यम् । परि । श्येनः । अद्रेः । अग्नीषोमा । ब्रह्मणा । ववृधाना । उरुम् । यज्ञाय । चक्रथुः । ओं इति । लोकम्
॥28॥.
-र्व्_1:6।29-
अग्नीषोमा । हविषः । प्र-स्थितस्य । वीतम् । हर्यतम् । वृषणा । जुषेथाम् । सु-शर्माणा । सु-अवसा । हि । भूतम् । अथ । धत्तम् । यजमानाय । शम् । योः
यः । अग्नीषोमा । हविषा । सपर्यात् । देवद्रीचा । मनसा । यः । घृतेन । तस्य । व्रतम् । रक्षतम् । पातम् । अंहसः । विशे । जनाय । महि । शर्म । यच्छतम्
अग्नीषोमा । स-वेदसा । सहूती इतिस-हूती । वनतम् । गिरः । सम् । देव-त्रा । बभूवथुः
अग्नीषोमौ । अनेन । वाम् । यः । वाम् । घृतेन । दाशति । तस्मै । दीदयतम् । बृहत्
अग्नीषोमौ । इमानि । नः । युवम् । हव्या । जुजोषतम् । आ । यातम् । उप । नः । सचा
अग्नीषोमा । पिपृतम् । अर्वतः । नः । आ । प्यायन्ताम् । उस्रियाः । हव्य-सूदः । अस्मे इति । बलानि । मघवत्-सु । धत्तम् । कृणुतम् । नः । अध्वरम् । श्रुष्टि-मन्तम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0