ऋग्वेदसंहिता, पदपाठ · अध्याय 1.77
॥24॥.
-र्व्_1:5।25-
(र्व्_1,77)
कथा । दाशेम । अग्नये । का । अस्मै । देव-जुष्टा । उच्यते । भामिने । गीः । यः । मर्त्येषु । अमृतः । ऋत-वा । होता । यजिष्ठः । इत् । कृणोति । देवान्
यः । अध्वरेषु । शम्-तमः । ऋत-वा । होता । तम् । ओं इति । नमः-भिः । आ । कृणुध्वम् । अग्निः । यत् । वेः । मर्ताय । देवान् । सः । च । बोधाति । मनसा । यजाति
सः । हि । क्रतुः । सः । मर्यः । सः । साधुः । मित्रः । न । भूत् । अद्भुतस्य । रथीः । तम् । मेधेषु । प्रथमम् । देव-यन्तीः । विशः । उप । ब्रुवते । दस्मम् । आरीः
सः । नः । नृणाम् । नृ-तमः । रिशादाः । अग्निः । गिरः । अवसा । वेतु । धीतिम् । तना । च । ये । मघ-वानः । शविष्ठाः । वाज-प्रसूताः । इषयन्त । मन्म
एव । अग्निः । गोतमेभिः । ऋत-वा । विप्रेभिः । अस्तोष्ट । जात-वेदाः । सः । एषु । द्युम्नम् । पीपयत् । सः । वाजम् । सः । पुष्टिम् । याति । जोषम् । आ । चिकित्वान्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0