भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.76

1.76.1

॥23॥.
-र्व्_1:5।24-
(र्व्_1,76)
का । ते । उप-इतिः । मनसः । वराय । भुवत् । अग्ने । शम्-तमा । का । मनीषा । कः । वा । यज्ञैः । परि । दक्षम् । ते । आप । केन । वा । ते । मनसा । दाशेम

1.76.2

आ । इहि । अग्ने । इह । होता । नि । सीद । अदब्धः । सु । पुरः-एता । भव । नः । अवताम् । त्वा । रोदसी इति । विश्वमिन्वे इतिविश्वम्-इन्वे । यज । महे । सौमनसाय । देवान्

1.76.3

प्र । सु । विश्वान् । रक्षसः । धक्षि । अग्ने । भव । यज्ञानाम् । अभिशस्ति-पावा । अथ । आ । वह । सोम-पतिम् । हरि-भ्याम् । आतिथ्यम् । अस्मै । चकृम । सु-दाव्ने

1.76.4

प्रजावता । वचसा । वह्निः । आसा । आ । च । हुवे । नि । च । सत्सि । इह । देवैः । वेषि । होत्रम् । उत । पोत्रम् । यजत्र । बोधि । प्र-यन्तः । जनितः । वसूनाम्

1.76.5

यथा । विप्रस्य । मनुषः । हविः-भिः । देवान् । अयजः । कवि-भिः । कविः । सन् । एव । होतरिति । सत्य-तर । त्वम् । अद्य । अग्ने । मन्द्रया । जुह्वा । यजस्व

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc