ऋग्वेदसंहिता, पदपाठ · अध्याय 1.58
॥22॥.
-र्व्_1:4।23-
(र्व्_1,58)
नु । चित् । सहः-जाः । अमृतः । नि । तुन्दते । होता । यत् । दूतः । अभवत् । विवस्वतः । वि । साधिष्ठेभिः । पथि-भिः । रजः । ममे । आ । देव-ताता । हविषा । विवासति
आ । स्वम् । अद्म । युवमानः । अजरः । तृषु । अविष्यन् । अतसेषु । तिष्ठति । अत्यः । न । पृष्ठम् । प्रुषितस्य । रोचते । दिवः । न । सानु । स्तनयन् । अचिक्रदत्
क्रोणा । रुद्रेभिः । वसु-भिः । पुरः-हितः । होता । नि-सत्तः । रयिषाट् । अमत्यर्ः । रथः । न । विक्षु । ऋञ्जसानः । आयुषु । वि । आनुषक् । वार्या । देवः । ऋण्वति
वि । वात-जूतः । अतसेषु । तिष्ठते । वृथा । जुहूभिः । सृण्या । तुवि-स्वणिः । तृषु । यत् । अग्ने । वनिनः । वृष-यसे । कृष्णम् । ते । एम । रुशत्-ऊर्मे । अजर
तपुः-जम्भः । वने । आ । वात-चोदितः । यूथे । न । साह्वान् । अव । वाति । वंसगः । अभि-व्रजन् । अक्षितम् । पाजसा । रजः । स्थातुः । चरथम् । भयते । पतत्रि णः
॥23॥.
-र्व्_1:4।24-
दधुः । त्वा । भृगवः । मानुषेषु । आ । रयिम् । न । चारुम् । सु-हवम् । जनेभ्यः । होतारम् । अग्ने । अतिथिम् । वरेण्यम् । मित्रम् । न । शेवम् । दिव्याय । जन्मने
होतारम् । सप्त । जुह्वः । यजिष्ठम् । यम् । वाघतः । वृणते । अध्वरेषु । अग्निम् । विश्वेषाम् । अरतिम् । वसूनाम् । सपर्यामि । प्रयसा । यामि । रत्नम्
अच्छिद्रा । सूनो इति । सहसः । नः । अद्य । स्तोतृ-भ्यः । मित्र-महः । शर्म । यच्छ । अग्ने । गृणन्तम् । अंहसः । उरुष्य । ऊर्जः । नपात् । पूः-भिः । आयसीभिः
भव । वरूथम् । गृणते । विभावः । भव । मघवन् । मघवत्-भ्यः । शर्म । उरुष्य । अग्ने । अंहसः । गृणन्तम् । प्रातः । मक्षु । धियावसुः । जगम्यात्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0