भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.57

1.57.1

॥21॥.
-र्व्_1:4।22-
(र्व्_1,57)
प्र । मंहिष्ठाय । बृहते । बृहत्-रये । सत्य-शुष्माय । तवसे । मतिम् । भरे । अपाम्-इव । प्रवणे । यस्य । दुः-धरम् । राधः । विश्व-आयु । शवसे । अप-वृतम्

1.57.2

अघ । ते । विश्वम् । अनु । ह । असत् । इष्टये । आपः । निम्नाइव । सवना । हविष्मतः । यत् । पर्वते । न । सम्-अशीत । हर्यतः । इन्द्रस्य । वज्रः । श्नथिता । हिरण्ययः

1.57.3

अस्मै । भीमाय । नमसा । सम् । अध्वरे । उषः । न । शुभ्रे । आ । भर । पनीयसे । यस्य । धाम । श्रवसे । नाम । इन्द्रियम् । ज्योतिः । अकारि । हरितः । न । अयसे

1.57.4

इमे । ते । इन्द्र । ते । वयम् । पुरु-स्तुत । ये । त्वा । आरभ्य । चरामसि । प्रभुवसो इतिप्रभु-वसो । नहि । त्वत् । अन्यः । गिर्वणः । गिरः । सघत् । क्षोणीः-इव । प्रति । नः । हर्य । तत् । वचः

1.57.5

भूरि । ते । इन्द्र । वीर्यम् । तव । स्मसि । अस्य । स्तोतुः । मघ-वन् । कामम् । आ । पृण । अनु । ते । द्यौः । बृहती । वीर्यम् । ममे । इयम् । च । ते । पृथिवी । नेमे । ओजसे

1.57.6

त्वम् । तम् । इन्द्र । पर्वतम् । महाम् । उरुम् । वज्रेण । वज्रिन् । पर्व-शः । चकर्तिथ । अव । असृजः । नि-वृताः । सर्तवै । अपः । सत्रा । विश्वम् । दधिषे । केवलम् । सहः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc