भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.17

1.17.1

॥31॥.
-र्व्_1:1।32-
(र्व्_1,17)
इन्द्रावरुणयोः । अहम् । सम्-राजोः । अवः । आ । वृणे । ता । नः । मृळातः । ईदृशे

1.17.2

गन्ताराः । हि । स्थः । अवसे । हवम् । विप्रस्य । मावतः । धर्ताराचर्षणीनाम्

1.17.3

अनुकामम् । तर्पयेथाम् । इन्द्रावरुणा । रायः । आ । ता । वाम् । नेदिष्ठम् । ईमहे

1.17.4

युवाकु । हि । शचीनाम् । युवाकु । सु-मतीनाम् । भूयाम । वाजदाव्नाम्

1.17.5

इन्द्रः । सहस्र-दाव्नाम् । वरुणः । शंस्यानाम् । क्रतुः । भवति । उक्थ्यः

1.17.6

॥32॥.
-र्व्_1:1।33-
तयोः । इत् । अवसा । वयम् । सनेम । नि । च । धीमहि । स्यात् । उत । प्र-रेचनम्

1.17.7

इन्द्रावरुणा । वाम् । अहम् । हुवे । चित्राय । राधसे । अस्मान् । सु । जिग्युषः । कृतम्

1.17.8

इन्द्रावरुणा । नु । नु । वाम् । सिषासन्तीषु । धीषु । आ । अस्मभ्यम् । शर्म । यच्छतम्

1.17.9

प्र । वाम् । अश्नोतु । सु-स्तुतिः । इन्द्रावरुणा । याम् । हुवे । याम् । ऋधाथेइति । सध-स्तुतिम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc