भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.16

1.16.1

॥29॥.
-र्व्_1:1।30-
(र्व्_1,16)
आ । त्वा । वहन्तु । हरयः । वृषणम् । सोम-पीतये । इन्द्र । त्वा । सूर-चक्षसः

1.16.2

इमाः । धानाः । घृत-स्नुवः । हरी इति । इह । उप । वक्षतः । इन्द्रम् । सुख-तमे । रथे

1.16.3

इन्द्रम् । प्रातः । हवामहे । इन्द्रम् । प्र-यति । अध्वरे । इन्द्रम् । सोमस्य । पीतये

1.16.4

उप । नः । सुतम् । आ । गहि । हरि-भिः । इन्द्र । केशि-भिः । सुते । हि । त्वा । हवामहे

1.16.5

सः । इमम् । नः । स्तोमम् । आ । गहि । उप । इदम् । सवनम् । सुतम् । गौरः । न । तृषितः । पिब

1.16.6

॥30॥.
-र्व्_1:1।31-
इमे । सोमासः । इन्दवः । सुतासः । अधि । बर्हिषि । तान् । इन्द्र । सहसे । पिब

1.16.7

अयम् । ते । स्तोमः । अग्रियाः । हृदिइ-स्पृक् । अस्तु । शम्-तमः । अथ । सोमम् । सुतम् । पिब

1.16.8

विश्वम् । इत् । सवनम् । सुतम् । इन्द्रः । मदाय । गच्छति । वृत्र-हा । सोम-पीतये

1.16.9

सः । इमम् । नः । कामम् । आ । पृण । गोभिः । अश्वैः । शतक्रतो इतिशतक्रतो । स्तवाम । त्वा । सु-आध्यः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc