ऋग्वेदसंहिता, पदपाठ · अध्याय 1.153
॥22॥.
-र्व्_2:2।23-
(र्व्_1,153)
यजामहे । वाम् । महः । स-जोषाः । हव्येभिः । मित्रावरुणा । नमः-भिः । घृतैः । घृतस्नूइतिघृत-स्नू । अध । यत् । वाम् । अस्मे इति । अध्वर्यवः । न । धीति-भिः । भरन्ति
प्र-स्तुतिः । वाम् । धाम । न । प्र-युक्तिः । अयामि । मित्रावरुणा । सु-वृक्तिः । अनक्ति । यत् । वाम् । विदथेषु । होता । सुम्नम् । वाम् । सूरिः । वृषणौ । इयक्षन्
पीपाय । धेनुः । अदितिः । ऋताय । जनाय । मित्रावरुणा । हविः-दे । हिनोति । यत् । वाम् । विदथे । सपर्यन् । सः । रात-हव्यः । मानुषः । न । होता
उत । वाम् । विक्षु । मद्यासु । अन्धः । गावः । आपः । च । पीपयन्त । देवीः । उतो इति । नः । अस्य । पूर्व्यः । पतिः । दन् । वीतम् । पातम् । पयसः । उस्रियायाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0