भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.152

1.152.1

॥21॥.
-र्व्_2:2।22-
(र्व्_1,152)
युवम् । वस्त्राणि । पीवसा । वसाथेइति । युवोः । अच्छिद्राः । मन्तवः । ह । सर्गाः । अव । अतिरतम् । अनृतानि । विश्वा । ऋतेन । मित्रावरुणा । सचेथेइति

1.152.2

एतत् । चन । त्वः । वि । चिकेतत् । एषाम् । सत्यः । मन्त्रः । कवि-शस्तः । ऋघावान् । त्रिः-अश्रिम् । हन्ति । चतुः-अश्रिः । उग्रः । देव-निदः । ह । प्रथमाः । अजूर्यन्

1.152.3

अपात् । एति । प्रथमा । पत्-वतीनाम् । कः । तत् । वाम् । मित्रावरुणा । आ । चिकेत । गर्भः । भारम् । भरति । आ । चित् । अस्य । ऋतम् । पिपर्ति । अनृतम् । नि । तारीत्

1.152.4

प्र-यन्तम् । इत् । परि । जारम् । कनीनाम् । पश्यामसि । न । उप-निपद्यमानम् । अनव-पृग्णा । वि-तता । वसानम् । प्रियम् । मित्रस्य । वरुणस्य । धाम

1.152.5

अनश्वः । जतः । अनभीशुः । अर्वा । कनिक्रदत् । पतयत् । ऊर्ध्व-सानुः । अच् इत्तम् । ब्रह्म । जुजुषुः । युवानः । प्र । मित्रे । धाम । वरुणे । गृणन्तः

1.152.6

आ । धेनवः । मामतेयम् । अवन्तीः । ब्रह्म-प्रियम् । पीपयन् । सस्मिन् । ऊधन् । पित्वः । भिक्षेत । वयुनानि । विद्वान् । आसा । आविवासन् । अदितिम् । उरुष्येत्

1.152.7

आ । वाम् । मित्रावरुणा । हव्य-जुष्टिम् । नमसा । देवौ । अवसा । ववृत्याम् । अस्माकम् । ब्रह्म । पृतनासु । सह्याः । अस्माकम् । वृष्टिः । दिव्या । सु-पारा

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc